________________
AAAMAnam
ww
४७६ द्वादशारनयचक्रम्
[विधिनियमारे तत्वात् , परमाणोरपि, पुद्गलस्य पुद्गलस्येव वा कायः, इतिः विग्रहसमाप्तौ, अथवा पृथक् परिकल्पनयाऽनया किं ? इन्द्रियप्रत्यक्षोभिमतः शरीराख्यः पुद्गलकायः, स्वसंवेद्यज्ञानात्मकक्रियादिलिङ्गानुमित आत्मा वा सोऽयमेक एव, न ह्यत्र काचिद्भेदबुद्धिः कार्या, बन्धपरिणामैक्यापत्तेः एतन्नयदर्शनादेक
एव शुभाशुभादिधर्मेति साध्यस्य कायस्य वक्ष्यमाणाहारदृष्टान्तसाम्यमापाद्य हेतुत्वेन तत्साधर्म्यमाह । भोक्तभोग्यात्मकविपरिणामवृत्तित्वादि ति, यो' हि पुरुषकारवादिमतेन भोक्ता अथापि कर्मवादिमतेन
भोग्यः, तस्मात् कायो भोक्तभोग्यात्मकः, तस्य विपरिणामो वृत्तिरस्येति कायः सम्बध्यते भोग्यस्य भोक्तुर्वा विपरिणाम इति शुक्रशोणितं जनन्याहृतान्नरसादि च आद्युत्तरकारणमस्य शरीरस्य तदुभयं भोक्त भोग्यञ्च, अन्योऽन्यभावापत्तेः, तथा चतुर्विधोऽप्याहारोऽशनादिराहाहार्यभावाद्भोक्तभोग्यञ्च,
तञ्च शुभाशुभेष्टानिष्टकारणमेवेति, कायचैतन्ययोर्वा ऐक्यपरिणामापनयोरेव भोक्तभोग्यात्मकवि]परि10 णामवृत्तित्वं सिद्धमत आहारवच्छुभाशुभादिधर्मताऽस्येति, यथाऽऽहारः शुभश्चाशुभश्च दृश्यते संस्कृतोऽसंस्कृतः, संस्कृतोऽप्यशुभ एव संस्क्रियमाणान्नाद्यशुभत्वात् संस्कारकाभिमतकर्पूरादेरपि कालान्तरे दौर्गन्ध्यादिदर्शनात् सर्वपुद्गलानां प्रागुक्तविधिना शुभाशुभत्ववत्पुद्गलत्वादाहारः शुभोऽशुभश्चेति तथा कार्य इति, अथ वा चेतनाचेतनयोरात्मशरीरयोरैक्यपरिणामात्तदेव भोक्तृ भोग्यश्चेत्यनेनैवाहारदृष्टान्तेन सम्बद्धं प्रत्येकमपि साधयत्येतद्धर्मद्वयमित्यत आह भोक्तत्वाद्भोग्यत्वादिति, एवं कर्तृत्वात् कर्म18 रूपादिसंघातत्वादेव परमाणोरपि कायत्वमाह-परमाणोरपीति । मूर्त्तद्रव्यसंघातस्य कायत्वाभिधानेन अमूर्तस्यात्मनो
भेदप्रतीतेर्भेदोऽपि न कार्य इति पक्षान्तरमाह-अथ वेति । बन्धेति, आत्मपुद्गलानां परस्पराश्लेषो नीरक्षीरवत् स बन्धः स एव परिणामस्तेनात्मशरीरयोरैक्यादित्यर्थः, तस्मादेक एव पुद्गलकायः शुभाशुभादिधर्मवान् भवतीति भावः। भोक्तृभोग्येति, कायो हि पुरुषवाद्यभिमतभोक्रात्मकः कर्मवाद्यभिमतभोग्यात्मकश्च जीवपुद्गलयोर्बन्धपरिणामेनैकत्वात् तस्यैव कायस्य विपरि
णामात्मकः शुभोऽशुभश्च वृत्तिः धर्मः, तथा च भोक्तृभोग्यात्मकस्य विपरिणामः भोक्तभोग्यात्मकविपरिणामः स एव वृत्तिर्धर्मो 20 यस्य स भोक्तभोग्यात्मकविपरिणामवृत्तिः कायः, तद्धावस्तस्मादिति विग्रहः । स एव प्रदर्यते-यो हीति । बाह्याभ्यन्तरमूर्त
द्रव्यसंघातस्यैव कायत्वपक्षे तस्य भोक्तभोग्यात्मकत्वं घटयति-शुक्रशोणितमिति, स्त्रीपुंसयोः शुक्रशोणितं गर्भस्थस्य मूर्त्तद्रव्यसंघातात्मककायस्य भोक्तुर्भोग्यरूपः प्रथमाहारः, ततश्च मात्राभ्यवहृतान्नरसादि पाश्चात्यो भोग्यात्माऽऽहार इति कायोऽसौ भोक्तृभोग्यात्मकः कार्यकारणात्मकयोस्तयोरैक्यपरिणामादिति भावः । बाह्योऽप्यशनपानखादिमखादिमलक्षण आहारः
शरीरच्चाहर्ता तयोरैक्यपरिणामाद्भोक्तभोग्यात्मकत्वं कायस्य तथा शुभाशुभधर्मकत्वमपीत्याह-तथा चतुर्विधोऽपीति । 23 आत्मशरीरैक्यपरिणामलक्षणकायत्वपक्षे तु हेतुः सिद्ध एवेत्याह-कायचैतन्ययोर्वेति । आहारे दृष्टान्ते साध्यं शुभाशुभादिधर्मकत्वं घटयति-यथाऽऽहार इति, संस्कृतः शुभः, असंस्कृतश्चाशुभः, संस्कृतोऽप्याहारो नैकान्तेन शुभ एव संस्काराधारस्याशुभत्वात् संस्कारकस्य कर्पूरादेरेकान्तेन शुभत्वाभावात् तस्य कालान्तरे दौर्गन्ध्योपलब्धेरित्याह-संस्कृतोऽपीति, कथञ्चिदिति शेषः । भोक्तभोग्यात्मकविपरिणामवृत्तित्वादित्युक्तहेतो क्त्रात्मकविपरिणामवृत्तित्वात् भोग्यात्मकविपरिणामवृत्तित्वादिति हेतुद्वयाभिप्रायेण व्याख्यातुमाह-अथ वेति, तदेव भोक्तभोग्यश्चेत्यनेन भोक्तृत्वभोग्यत्वयोरविनाभावः प्रदर्शितः, 30 अत एव च शुभाशुभादिधर्मवत्त्वलक्षणसाध्येनाप्यविनाभावः प्रत्येक तयोः भोक्त्रात्मकविपरिणामवृत्तित्वपदेन भोक्तत्वमेव विवक्षितं तथा भोग्यात्मकविपरिणामवृत्तित्वपदेन भोग्यत्वम्, तथा च पुद्गलकायः शुभाशुभादिधर्मवान्, भोक्तृत्वात्, भोग्यत्वात् , आहारवदिति फलितमिति भावः । एतदेव प्रदर्शयति मूलकृत्-भोक्तृत्वाद्भोग्यत्वादिति । भोक्तृभोग्ययोः
सिक. विग्रहसमासौ। २ सिक प्रत्य-क्षमभिमतः । ३ सि. क यदि। ४ सि. क. मापन्नस्यैव । ५ सि. क. संस्कृतासंस्कृतः। ६ सि.क. संस्कारमामिमत० । ७ सि.क. कायेति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org