Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
ammmmmmmmmmmam
wwwiniwwwAAM
सततप्रवृत्तिमद्वस्तु] न्यायागमानुसारिणीव्याख्यासमेतम्
५०७ ततो नाभविष्यदिति क्रियातिपत्तौ लुङ्, अभवनमेवापद्यते न भवत्येवेत्यर्थः, क्रिया भवनं प्रवृत्तिरित्यर्थः, यदि न प्रवर्तेत परिणमेत न क्रियापि स्यात् , द्रव्यं प्राक् केनचिद्गमनादिप्रकारेणावृत्तं तदेवेति-सामान्यकालवाचिना शब्देनेदानीमपि निर्देशकाले तदप्रवर्त्तमानं पश्चाच्चैष्यत्कालेऽप्रवर्तिष्यमाणं तत्स्यादित्यर्थः, अप्रवृत्तत्वात् किमुक्तं भवति ? प्राङ् नासीत् , इदानीमप्रवृत्तत्वात् खपुष्पवत् , इदानीं न स्यात् , प्रागप्रवृत्तत्वात् , खपुष्पवत् , पश्चान्न भविष्यति, इदानीमप्रवृत्तत्वात् , खपुष्पवदेवेत्यभूतं तत्स्यात् । द्रव्यं क्रियाशून्यत्वात् परिणामशून्यत्वात् अप्रवृत्तत्वादित्यर्थः, भवदेव हि भवति-प्रवर्त्तमानमेव हि केनचिद्धर्मेण मृदिव शिवकादिना भवति, न निरुपाख्यम् , यदि निरुपाख्यमपि स्यात् खपुष्पमपि स्यात् , खपुष्पमपि वाऽभविष्यत् भवति भविष्यति, त्वदभिमतद्रव्यवत् , अभवद्भवनादिति, अक्रियभवनादित्यर्थः।
स्यान्मतम्
अनैकान्तिकमेव तत् , आकाशादीनामप्रवृत्तिभवनानां सत्त्वदर्शनादित्येतच्चायुक्तम् , तद्विपक्षत्वासिद्धेः आत्माद्यपि च प्रवृत्तमेव द्रव्यत्वात् , तन्तुवद्बीजवदिति, तस्मात्तेन तेन प्रकारेण परिणममानं प्रवर्त्तमानं वस्तु भवतीत्युच्यते ।
(अनैकान्तिकमेवेति) अनैकान्तिकमेव तत्-अभवद्भवनात् खपुष्पमपि भवेत् द्रव्यवत् , द्रव्यमपि मा भूत् , अप्रवृत्तत्वात् खपुष्पवदिति, कस्मात् ? आकाशादीनामप्रवृत्तिभवनानां सत्त्वदर्शनात् , 15 अपरिणामित्वादित्यर्थः, इत्येतच्चायुक्तम् , तद्विपक्षत्वासिद्धेः, यस्मात् आत्माद्यपि च प्रवृत्तमेव द्रव्यत्वात्तन्तुवदीजवदिति, यथा तन्तवः तन्त्ववस्थायां पटावस्थायाश्च प्रवृत्तत्वाद्भवन्त्येव तथाऽऽत्मादयः, बीजमेव ह्यड्डरादिभावेषु प्रवृत्तमेव तथाऽऽत्मादय इति दृष्टान्तद्वयोपादानात् न्यायव्यापिता
क्रियातिपत्ताविति कुतश्चिन्निमित्तात् क्रियाया अनिष्पत्तिः क्रियातिपत्तिः, एकान्तापरिणामित्वलक्षणसाधनेन भवनक्रियानिवृत्तिरापाद्यत इति, तत्र अक्रियत्वेऽभवनत्वे द्रव्यमेव हेतुरिति द्रव्यमित्येवेत्युक्तं, यतो हि तव्यमत एव तदक्रियमभवनश्चेत्या- 20 पादककोटिः, क्रियाभवनप्रवृत्तीनां पर्यायत्वस्योक्तत्वादक्रियमभवन मिति पर्यायानुसारेणोक्तम् , प्रवृत्तिशब्देन पुनराह-यदिन प्रवर्त्ततेति, क्रियायां प्रवृत्तेर्हेतुत्वात् , प्रवृत्तौ सत्यां हि क्रिया स्यात् तस्यां च सत्यां भवनं स्यात् , प्रवृत्तिः-परिणामः तत्र यदि द्रव्यं न परिणाममियात्-यदि पूर्व गमनादिना न परिणतं तहीदानीमपि न परिणाम प्राप्नोति भविष्यत्कालेऽपि न परिणस्यते, भवत एव भावात् न त्वभवत इति द्रव्यं क्रियापि न स्यादिति भावः । अमुमेव भावमादर्शयति-द्रव्यं प्रागिति । अप्रवृत्तत्वादिति, अनेन प्रयोगः सूचितः, एतदेव प्रश्नमुखेन व्याचष्टे-किमुक्तं भवतीति । भवदेव भवति नाभव- 25 द्भवति निरुपाख्यमित्याह-भवदेवेति । ननु सततप्रवृतिशून्यानामप्याकाशादीनां सद्भावात् कथमभवद्भवनात् खपुष्पस्य द्रव्यवद्भवनप्रसङ्गप्रदर्शनमुखेनाप्रवृत्तत्वादिति हेतुनाऽसत्त्वं साध्यते, अनैकान्तिकत्वादित्याशङ्कते-अनैकान्तिकमेवेति । आकाशात्मादीनामपि प्रवृत्तत्वान्न व्यभिचारित्वं हेतोरसत्साधकस्याप्रवृत्तत्वस्येत्याह तद्विपक्षत्वासिद्धेरिति, अप्रवृत्तस्य सतो द्रव्यस्याप्रसिद्धरित्यर्थः, इदन्तु भाष्यकारस्य पतञ्जलेने सम्मतं तन्मते पुरुषस्य निर्गुणत्वाभ्युपगमात् , उक्तश्च हरिणा 'यच्चाप्रवृत्तिधर्माख्यश्चितिरूपेण गृह्यते। अनुयातीव सोऽन्येषां प्रवृत्तीविष्वगाश्रयः॥ इति भोग्यगतसत्त्वादिलक्षणलिङ्गोपचारः प्रदर्शितः। 30 परन्त्वेतन्नये सर्व प्रवृत्तिशीलमेवेति ध्येयम्। यद्यद्रव्यं तत्तत्प्रवृत्तिमदिति न्यायस्य दृष्टान्तद्वयप्रदर्शनमुखेन व्यापित्वं सूचयति तन्तुवतीजवदिति आत्मीयेन तत्तत्पारिणामिकेन स्वभावेन नित्यावस्थानलक्षणं द्रव्यत्वं सर्वेषां चेतनाचेतनद्रव्याणां
१क. नाभविष्यद्भवति भविष्यति त्वदभिमतद्रव्यवत् , अभवद्भवनादिति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350