Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 256
________________ क्रियाया भवनभूतता] न्यायागमानुसारिणीव्याख्यासमेतम् ५२३ इति हि गमनसम्बन्धात् दृष्टम् , व्यतिलंधितगमनश्च गत इत्युच्यते, तस्मात्तद्व्यतिक्रममन्तरेण गतमिति न भवति, एष विधिः कर्मविशेषे गमने दृष्टः, तथा गमनाद्यपि करणसम्बन्धमन्तरेण न भवतीति क्रिया सिद्ध्यति अतो भिन्नं स्वतत्त्वात्-कर्मत्वात् द्रव्याद्वा [यदि] कर्मत्वस्य स्वतत्त्वस्याश्रयो न स्यात् कर्मेति न स्यात् , क्रियमाणाद्धि तत् कर्म करणे सति, करणव्यतिक्रमे च कृतमिति स्यात् , कर्मणि तु भिन्ने द्रव्यात् स्वतत्त्वाद्वा स्यादिति, तथा भवद्वेत्यादिना करणं भवदपि वसम्बन्धव्यतिक्रममन्तरेण कृतमित्येतं 5 व्यपदेशं न जनयेत् सं च दृष्टः, किं कारणं न स्यादिति चेत् करणसम्बन्धाभावात्, किमिव ? आकाशादिवत् , ततः किं स्यात् ? तथा च तद्भवकर्मसत्त्वात् करणासम्बन्धाच्च सदसत्कारिण]मिति नित्यं स्यात् नित्यलक्षणयोगात्, किं नित्यलक्षणमिति चेदुच्यते 'सदकारणवन्नित्यम्' (वैशे० अ० ४ आ०१ सू०१) इति नित्यलक्षणं वैशेषिकमतेनेति, एवं तावत् कर्म गमनादि करणसम्बन्धाद्भवतीत्युपपादितम् । 10 यथा च कर्म क्रियया विना न भवति तथा करणमपि भवनव्यक्तिमन्तरेण नैव भवेत् तथा भवनसम्बन्धव्यतिक्रममन्तरेण भूतमिति न स्यात् ततश्च प्रागादिनिर्विशेषणः नास्त्यभाव इत्यविशेषेणैकात्यन्ताभाव एव स्यात् , न भवेदेव सर्वम् , स्वपुष्पवत् असत्कारणत्वाद्वा अभूतभवनसम्बन्धव्यतिक्रमत्वात् । _यथा च कर्मेत्यादि, यथा च गमनादिकर्म क्रियया विना न भवति उक्तविधिना तथा 15 करणमपि भवनव्यक्तिमन्तरेण-भवनक्रियाविर्भावेन विना नैव भवेत्-न भवितुमर्हतीत्यर्थः, तथा भवनसम्बन्धव्यतिक्रममन्तरेण भूतमिति न स्यात्-तत्सम्बन्धे भवतीति भवति, तत्सम्बन्धव्यतिक्रमे च भूतमिति पूर्वपूर्वोत्तरोत्तरकार्यकारणभावेनेति क्रियासम्बन्धप्रबन्धं प्रदर्शयति, ततश्च प्रागादि यदा द्रव्ये समुदेति तदैव देवदत्तो गच्छतीत्युच्यते, तद्व्युपरमे च गत इत्युच्यते तस्मात् क्रियायाः प्रध्वंसलक्षणो व्यतिक्रमोऽवश्यं वाच्य इति भावः। एवं गमनमपि करणसम्बन्धनेन भवतीत्याह-तथेति तथा च करणं क्रियातो द्रव्यतश्च भिन्न- 20 मिति भावः । क्रिययाऽऽतुमिष्यमाणं हि कर्म तस्मात् क्रिया कर्मणस्तत्त्वम् तदेव कर्मत्वमुच्यते ततश्च यदि कर्म कर्मत्वस्याश्रयो न स्यात् कर्मणः खरूपहान्या कर्मव न स्यात् अक्रियमाणत्वात् , एवञ्च कर्म क्रियासम्बन्धात् भवति तस्यतिक्रमे च कृतमिति भवतीति क्रियातो द्रव्यतश्च कर्म भिन्नमित्याह-यदि कर्मत्वस्येति । कर्मणि भवत् करणं खसम्बन्धेन तत्र कर्मव्यवहार व्यतिक्रमेण च कृतमिति व्यवहार जनयतीत्याह-करणं भवद्पीति आकाशादो करणसम्बन्धाभावाद्यथा कृतादिव्य भवति तथा तत्सम्बन्धाभावे कर्मणोऽपि कृतादिव्यवहारो न स्यादित्याह-आकाशादिवदिति । तथा चापत्तिमाह-तथा 25 चेति करणसम्बन्धाभाव इत्यर्थः, क्रियाजन्यकर्मणः सद्भावात् पुनः करणसम्बन्धाभावात् सत्त्वे सत्यकारणत्वान्नित्यत्वं कर्मणः प्रसज्यते, सदकारणवन्नित्यमिति नित्यलक्षणसद्भावादिति भावः। अथ कर्मवत् क्रियाया अपि भवनमन्तरेणाभावताप्रसङ्गात्तस्या अपि भवनमावश्यकम् , तस्याश्च भवनसम्बन्धतद्व्यतिक्रमाभ्यां भवति भूतमिति व्यपदेश्यत्वमिति समर्थयति-यथा चेति, विशेषस्य सामान्यमन्तरेणासम्भवादिति भावः । एतदेव स्फुटीकरोति-यथा च गमनादीति । किं करोति इति प्रश्ने गच्छतीति गमनं करोतीति प्रतिवचनात् गमनक्रियासामानाधिकरण्यं यथा करोतेः तथा किं करोतीति प्रश्न न करोति 30 किन्त्वास्ते इति भवनक्रियया प्रतिवचनात्तथा यां काञ्चित् क्रियां कुर्वन्नास्ते यदा तदाऽऽस्तेऽत्रेति प्रतिवचनाच करोतेर्भवनक्रियासामानाधिकरण्यात् करणस्यापि भवन सेत्स्यतीति भावः। 1, गमने कर्म कारणं कर्मणिः च भवनं कारणमिति, १सि.क. अन्यतो । २ सि.क. न स्यात् । ३ सि. क. तच्च दृष्टम् । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350