Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 255
________________ ५२२ द्वादशारनयचक्रम् [उभयनयारे तस्मादेतदनुमीयते तद्यथा देवदत्ते द्रव्ये कटस्य कर्तरि कर्मणि वा कर्तरि चलने वीरणानां कटे वा कर्मणि करणलक्षणया प्रवृत्त्या भवितव्यमविच्छेदेन, सा च प्रवृत्तिः क्रिया तदतद्भवनस्वरूपा-तस्मिन् द्रव्येऽतस्मिंश्च करणे भवनमस्याः प्रवृत्तेः स्वरूपं तया च [व्यतिक्रमा] व्यतिक्रमविभागतया द्विरूपतयाऽवश्यमव्यवच्छिन्न[I]कूटस्थया प्रवृत्तिभवनात्मिकया भवितव्यमिति ।। यथा देशान्तरसंयोगविभागफलं कर्म गमनं गन्तुः पदार्थान्तरम् , तयोः तत्कारणस्य च कर्मणो यावद्रव्यभावाभावात् पदार्थान्तरतायां सत्यां गन्तुर्गमनेन सम्बन्धः गच्छति देवदत्त इति, व्यतिलंघितगमनश्च गत इत्युच्यते, तथा गमनाद्यपि करणसम्बन्धमन्तरेण न भवतीति क्रिया सिद्ध्यति अतो भिन्नं स्वतत्त्वात् , यदि स्वतत्त्वस्याश्रयो न स्यात् कर्मेति न स्यात् , क्रियमाणाद्धि तत्कर्म करणव्यतिक्रमे च कृतमिति न स्यात् , तथाभवद्वा स्वसम्बन्ध10 व्यतिक्रममन्तरेण कृतमित्येतं व्यपदेशं न जनयेत् करणसम्बन्धाभावात् , आकाशादिवत् तथा च तद्भवकर्मसत्त्वात् करणसम्बन्धाच्च सदसत्कारणमिति नित्यं स्यात् , सदकारणवन्नित्यमिति नित्यलक्षणयोगात् । __ यथा [देशान्तरसंयोगेत्यादि, इदमधुना गन्तृगमनदृष्टान्तयोर्भवितृभवनदान्तिकयोश्च प्रागुक्तवद्भेदानभ्युपगमे दोषाभिधित्सयोच्यते, 'संयोगविभागाः [च ] कर्मणाम्' 15 ( वैशे० अ० १ आ०१ सू० ३०) कार्य सामान्यम् , 'गुरुत्वप्रयत्नसंयोगानामुत्क्षेपणम्' (वैशे० अ०१ आ०१ सू० २९) कार्य सामान्यमिति वचनात् देशान्तरसंयोग द्रव्यस्य देशान्तरविभागञ्च गमनकर्माऽऽरभते गुरुत्वादिकार्यश्चोत्क्षेपणं कर्म, तस्मात् संयोगविभागफलं कर्म गमनं गन्तुः पदार्थान्तरम् , तयोः संयोगविभागयोः तत्कारणस्य कर्मणो यावद्व्यभावाभावात् , वैशेषिकमतवत् पदार्थान्तरतायां सत्यां गन्तुर्गमनेन सम्बन्धः, तत्सम्बन्धश्चान्तरेण गमनं [न] भवति गच्छति देवदत्त 20 कमेति ।देवदत्त इति देवदत्तेन कटः कृत इत्यत्र देवदत्ते द्रव्ये कर्तरि कटे कर्मणि, कर्मणा विभागः कृत इत्यत्र चलने कर्मणि कतरि च करणेन भवितव्यम्, तच्च करणं द्रव्ये क्रियायाश्च भवनरूपं व्यतिकमाव्यतिक्रमविभागमविच्छिन्नप्रवाहतया नित्यमिति भावः। तदेवं प्रवृत्तिलक्षणकरणसिद्धौ तस्य भिन्नत्वं साधयति-यथेति।भवितृभवनसामान्ये गन्तृगमनविशेषस्य दृष्टान्तीकृतत्वादादो दृष्टान्ते प्रवृत्तेर्गन्तृगमनापेक्षया भेदं व्यवस्थापयितुंगमनस्वरूपं निदर्शयति-देशान्तरेति। अत इति, अन्यथानुपपत्त्या क्रियासिद्धौ क्रियातः कर्म भिन्नमित्यर्थः, कस्मात्तद्भिनमित्यत्र प्रतियोगिनमाह-वतत्त्वादिति, कर्मत्वादित्यर्थः, कर्तुः क्रिययेप्सिततमत्वं हि कर्मत्वम्, क्रियैव कर्मत्वमिति, क्रियमाणत्वादिति भावः । कर्म प्रारब्धापरिसमाप्तक्रियाकलापरूपं कृदभिहितं द्रव्यायमाणम् , क्रिया तु तदन्तर्गतक्रियाविशेषरूपेति भाति। तदेव व्यावर्णयति-इदमधनेति।संयोगेति, संयोगविभागेषु स्वोत्पत्त्यनन्तरोत्पत्तिकानपेक्षं कारणं कर्म संयोग विभागं वेगं च जनयतीति संयोगविभागाः कर्मणां सामान्यभूतं कार्यमिति भावः। गुरुत्वेति, हस्तनिष्ठलोष्टादिगुरुत्वं लोष्टनिष्ठोत्क्षेपणादेः कर्मणः कारणम् , प्रयत्नवदात्मसंयोगो हस्तनिष्ठोत्क्षेपणादेः कारणमित्यर्थः । एवञ्च गमनकर्म गन्तुरुत्तरदेशेन सह संयोगं पूर्वदेशाद्विभागञ्च जनयति, गुरुत्वादिरूपञ्च कारणमुत्क्षेपणं कर्म जनयतीतिगन्तृगमनयोर्भेद 30 इत्याह-देशान्तरेति । पदार्थान्तरत्वे हेतुमाह-तयोरिति, संयोगविभागकर्मणामव्याप्यवृत्तित्वादनित्यत्वाच्च न य भावित्वम्, अत एव तेषां द्रव्यतोऽन्यत्वमन्यत्वेऽपि धर्मिग्राहकप्रमाणतस्तत्रैव तेषां सम्बन्धः, तस्माद्गमनं कर्म खकारणेभ्यो सि. द्रव्यस्खग्यवच्छि । २ सि. क. कारणं । ३ सि. क. दित्तारजनक०।। Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350