Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 249
________________ mammam ५१६ द्वादशारनयचक्रम् [उभयनयारे त्वगत्याऽनन्यान्यत्वभाजो धर्माः प्रवृत्तिरेवेति सम्बन्धः, यथाऽत्र वीरशब्दः पुरुषसामानाधिकरण्यात् वस्तुत्वेनैकत्वं गतः तथा पुरुषशब्दोऽपि वीरसामानाधिकरण्यात् , अन्यथा वैयधिकरण्याटपटादि[वद] सम्बन्धादिदोषाः स्युः, दृष्टश्चानयोरैकात्म्यं सामानाधिकरण्यात् , अथ च वीरो विशेषणं पुरुषो विशेष्य इति परस्परतो भिन्नार्थत्वमनयोः, इतरथा सामानाधिकरण्यात्तादात्म्यात् पौनरुत्यादिदोषाः स्युः 5 दृष्टश्चानयोरैकात्म्यं सामानाधिकरण्याद्विशेष्य[विशेषण]भावाच्चान्यत्वम् एवं लक्षादिपदम् , तेन दृष्टान्तपरिपूर्णत्वे सत्युत्तरकालभाविनश्वार्थस्यैकसम्बन्धिविषयत्वं प्लक्षधवाद्युपात्तैकसमुच्चयगोचरत्वमित्यनन्यत्वम् , अन्यत्वन्तु प्लक्षधवयोरेवासी समुञ्चय इति, तथा द्रव्यादलिङ्गसंख्यो भावो वस्तुत्वैकत्वगतिरनन्योऽन्यश्चेति । इत्थं वा व्याख्यानेऽन्यत्वैकान्तो द्रव्यार्थत्यागोऽन्वयत्यागश्चेति परिहृता दोषाः । - अतः परमलिङ्गसंख्यत्वप्रतिपादनायोत्तरो ग्रन्थः10 साधु भवतीत्यादौ भवने भवितृषु लिङ्गसंख्याभेदवत्सु याः लिङ्गसंख्यास्ता न भवन्ति, भवने नपुंसकलिङ्गमेकवचनश्चानुमीयते श्रूयते च तद्विशेषणे साधुशब्दे, तस्मादन्यद्भवनं भवद्भ्यः । साधु भवतीत्यादि यावदवत्सु याः [लिङ्ग]संख्यास्ता न भवन्तीति, एकस्मिन् द्वयोर्बहुषु वा देवदत्तादिभवितृषु लिङ्गसंख्याभेदवत्सु यत्रिलिङ्ग संख्याश्चैकत्वाद्यास्ता न भवन्ति भवने नपुंसकलिङ्ग16 मेकवचनमेव चानुमीयते, तद्विशेषणे साधुशब्दे श्रूयते साधु भवनं पश्येत्यादिकारकव्यतिरेकेऽपि, तस्मादन्यद्भवनं भवद्भ्यो देवदत्तादिभ्यः स्वरूपतो वस्तुत्वैकत्वे । स्यान्मतं किमर्थं नपुंसकलिङ्गं प्रथमैकवचनश्चेत्यत्रोच्यतेप्रत्ययपरप्रकृतिव्यवस्थायान्तु प्रथमैकवचने अतिक्रमकारणाभावात् , नपुंसकञ्च भवन wwwwww प्रधानम्, गुणस्तु तहारेण क्रियासम्बन्धमनुभवन् द्रव्यावच्छेदकोऽप्रधानीभूतः, अयश्च विशेषणविशेष्यभावः सामानाधिकरण्य20 खभावः, स च शब्दयोभिन्नप्रवृत्तिनिमित्तकत्वे सत्येकार्थवृत्तित्वम्, अर्थयोस्तु विशेषणत्वं वीरे पुरुषनिरूपितं विशेष्यत्वञ्च पुरुष वीरनिरूपितं तयोः साहित्य सम्बन्धः, एवञ्च वीरत्वपुरुषत्वसमूहवान् वीरपुरुष इति बोधः, पुरुषस्यैकस्यवोभयोधर्मयोरधिकरणत्वात्सामानाधिकरण्यम्, तच्च भिन्नाभिन्नमिति तथैव समुच्चयादयो वस्तुना सह भिन्नाभिन्नरूपा इति भावः । अयमेव घटयति-यथाऽत्रेति, वीरशब्दः वीरशब्दप्रतिपाद्यः, वीरत्वं पुरुषत्वं च समानाधिकरणौ धमौं, धर्मधर्मिणो. श्चैकत्वाद्वस्तुत्वेनैकत्वं गतस्स इत्यर्थः । विशेष्यत्वाद्विशेषणत्वाच्च तयोर्भेदोऽपीत्याह-अथ चेति, यद्यन्यत्वं न स्याद्वीरपदेन 25 वीरपुरुषस्य पुरुषशब्देन च वीरपुरुषस्य बोधात् पौनरुक्त्यं भवेदिति भेदोऽप्यभ्युपेय इति भावः। प्लक्षादौ भेदाभेदमाहपवमिति । द्रव्यक्रिययोर्दा न्तिकयोर्भेदाभेदमुपसंहरति-तथा द्रव्यादिति। अथ क्रियाया अलिङ्गसंख्यत्वं वक्तुमाहसाधु भवतीस्यादाविति । एतदेव विवृणोति-एकस्मिन्निति । साधु भवतीत्यत्र साधुशब्दो भवनक्रियाविशेषणम् , मत एव द्रव्यधर्मान् लिङ्गसंख्यादीन् स न गृह्णाति, किन्त्वौत्सर्गिकमेकवचनं क्लीबत्वञ्चेति तद्विशेष्यभूतक्रियापि तादृशीति निर्णीयते, यदा तु क्रिया कृदन्तेन पदेनोपस्थाप्यते साधु भवनं पश्येति तदा तु तस्या द्रव्यवद्भासमानत्वात् कर्मत्वमुपैति 30 एवं कर्तृत्वमपि भवनं वर्तत इतीति भावः । भवन इति, आख्यातवाच्यभावस्यासत्त्वरूपत्वेन तत्र स्थितिरूपं नपुंसकलिङ्गमेव भवति, भेदाभावलक्षणममेदैकत्वञ्च, न त्वेकत्वसंख्येति भावः । एतदेव पुनः स्फुटयति-प्रत्ययपरेति साधु भवतीत्यादौ क्रियाविशेषणसाधुशन्दोत्तरं कर्मादीनामभावात् द्वितीयादिविभत्तेरप्रसङ्गात् प्रातिपदिकार्थव्यतिरिक्तत्वलक्षणशेषत्वाभावेन षष्ठी Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350