Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
द्वन्द्वविचारः]
न्यायागमानुसारिणीव्याख्यासमेतम् कार्थोऽस्तीति प्रथमैव स्यात् , अतः पदार्थोत्तरकालभाविनि वाक्यार्थ उपजायते, तस्योपकुर्वन्तश्चादयः पदैरपि सम्बद्ध्यन्ते इत्यत उच्यते भिन्नानां पदार्थानामिति क्रियासम्बन्धव्युदसनार्थम् , स च समुच्चय एकसम्बन्धिविषयः, कोऽसावेकः सम्बन्धी ? वाक्यार्थः प्लक्षधवाद्येकदेशता, अन्वाचयसमुच्चययोरानयननयनादि, उक्तञ्च 'चार्थे द्वन्द्वः' (पा० अ०२पार सू०२९) चस्य कोऽर्थः ? समुच्चयोऽन्वाचयः समाहार इतरेतरयोगश्च पदार्थोत्तरकालभाविनः, तत्र समुच्चयः ‘गामश्वं पुरुषं शकुनि पशुमहरहर्नयमानो। वैवस्वतो न तृप्यति सुरया इव दुर्मदी (एतत्समानः पाठो महाभा० २ अ० २ पा० २९ सूत्रे) अन्वाचयो यथा देवदत्त ! भिक्षामट यज्ञदत्तञ्चानय, पाणिपादं ब्राह्मणक्षत्रियविट्शूद्राः, रामकेशवाविति समाहारेतरेतरयोगौ, ते च द्रव्याणां गुणानां क्रियाणाञ्च दृश्यन्ते तद्यथा घटश्च पटश्चेति, रूपञ्च रसश्चेति, हसति तिष्ठति रमते चेत्यादयः पदार्थोत्तरकालभाविनः समुच्चयविकल्पादयः, ने चैते द्रव्यं न क्रिया न गुणः किन्तु द्रव्यस्यैव क्रियात्वात् वीरपुरुषविशेषणविशेष्यैकात्मवत् वस्तुत्वैक-10
moonam पदाथैस्सह चार्थस्य सम्बन्धो न क्रिययेत्याह-तस्योपकुर्वन्त इति । एकसम्बन्धिनं दर्शयति-कोऽसाविति, वाक्यार्थभूत एकाश्रयत्वरूपः समूहः एकः सम्बन्धी, स च धर्मभूतत्वादेकदेशरूप इति भावः । अयञ्चेतरेतरसमाहारस्थले भाव्यः, अन्वाचयसमुच्चयस्थले तु क्रियैवेत्याह-अन्वाचयेति । चार्थे द्वन्द्व इति, अनेक सुबन्तं चार्थे वर्तमानं वा समस्यते स द्वन्द्व इति सूत्रार्थः । चशब्दार्थमाह-समुच्चय इति, परस्परनिरपेक्षस्यानेकस्यैकस्मिन्नन्वयः समुच्चयः, अत्र चशब्देन खसमभिव्याहृतपदार्थे इतरसापेक्षत्वं बुध्यते तदसमभिव्याहृते तु न, अत एवात्रैकचशब्दप्रयोगः, यथेश्वरं गुरुच 15 भजखेति, अत्रैकस्यान्यसहितस्यान्वयित्वनिमित्तसाहित्येऽप्येकस्य केवलस्यैवैकधर्मावच्छिन्नेऽन्वयेन चार्थेऽनेकसुबन्तस्य वृत्त्यभावान्न समुच्चये समासः । गामश्वमिति भाष्ये 'अहरहर्नयमानो गामश्वं पुरुषं पशुम् । वैवखतो न तृप्यति सुराया इव दुर्मदी' ॥ इति दृश्यते, दुःखेन यो माद्यति स यथा सुरया न तृप्यति एवं यमो गवादीन्नयमान इति तदर्थः, सुराया इति शेषषष्ठी, अत्र चशब्दाभावेऽपि अहरह इत्यनेन चार्थसम्प्रत्ययादितरेतरयोगखरूपसमुच्चयप्रतीतेः द्वन्द्वः प्राप्नोति, परन्तु चशब्देनैव यत्रेतरेतरयोगः प्रतीयते तत्रैव समासो भवति, अत एव न समुच्चयसमासोदाहरणमिदम् । अन्वाचय इति, 20 अन्यतरस्यानुषङ्गिकत्वेऽन्वाचयः, अन्यनिष्पादकयत्ननिष्पाद्यत्वम् तच्चाप्रधानम् , अदर्शने हि गां नानयति, उभयोः प्राधान्याभावानात्र समासः। पाणिपादमिति, अनुद्भतावयवभेदः समूहः समाहारः, अयमेव विशेष्योऽत एव तत्रैकवचनम् । ब्राह्मणेति, परस्परापेक्षाणामुद्भूतावयवभेदसमूहरूपाणामेकधर्मावच्छिन्नत्वेनान्वय इतरेतरयोगः, अत्र साहित्यं विशेषणं द्रव्यं प्रधानं समाहारे साहित्यं प्रधानं द्रव्यं विशेषणम् , अत्रान्योऽन्यस्मिन्नन्योऽन्यसाहित्यं गम्यते, यथा ब्राह्मणशब्देन । ब्राह्मणक्षत्रियविशुद्राः, क्षत्रियपदेन त एव विट्रपदेन शूद्रपदेन च त एव, अत एव तद्विग्रहवाक्ये प्रतिपदं चशब्दप्रयोग 25 इति बोध्यम् । रामेति, इतरेतरयोगस्यैवेदमुदाहरणम् , अत्रापि रामपदेन रामकेशवयोः केशवपदेन च तयोरभिधानाद्भवति द्वन्द्वः, सहभूतयोरेव युगपदर्थद्वयबोधसामर्थ्यम् , अतो नान्यतरवैयर्थ्यम् , समूहद्वयापेक्षञ्च द्विवचनमिति बोध्यम् । समुच्चयादीनां योग्यानाह-ते चेति । द्वन्द्व विषयसमूहपदार्थ दर्शयति-न चैत इति, सोऽयं समूहश्चार्थो न द्रव्यगुणक्रियारूपः, अपि तु मेदामेदरूपा प्रवृत्तिरेवेत्याह-किन्त्विति नात्र चार्थः क्रिया, क्रियागुणयोश्वार्थान्वयासम्भवात्तत्र द्वन्द्वानापत्तेः, द्रव्यस्यैव क्रियान्वययोग्यत्वात् , किन्तु द्रव्यगुणक्रियासाधारणा प्रवृत्तिरेव चार्थभूतसमूह इति भावः । वीरेति, अत्र वीरादि- 30 शब्दोऽनपेक्षितेतरेतरपदसमन्वयो व्यतिरिक्तः स्वार्थमात्रवचनः, पदान्तरसन्निधानेऽपि तस्य तावत्येवाभिधा निश्चीयते, तत्र च सम्बन्धे गुणप्रधानभावस्यावश्यम्भावाद्विशेषणविशेष्यभावो वाक्यार्थः, न तु स प्रातिपदिकार्थः, पदान्तरसन्निधान एव तस्य प्रतीतेः, विशेष्यत्वविशेषणत्वयोर्भेद्यभेदकरूपयोर्गुणप्रधानभावज्ञापकत्वात् , विशेष्यं हि सामान्यात्मना क्रियासम्बन्धितायामुपक्रान्तं ज्ञातमपि स्वगतविशेषणेनानिश्चितत्वात्तन्निश्चयाय ज्ञापकत्वेन निश्चितो वीरादिगुणः प्रवर्त्तमानो विशेषणं । ज्ञाप्यञ्च प्रधानं विशेष्यम् , ज्ञापकन्तु परोपकारायोपादीयमानं शेषभूतमप्रधानं विशेषणम् , द्रव्यं हि साक्षात् क्रियासम्बन्धात्तत्र
१ सि. क. ये च । २ सि. क. न चेद्रव्यं ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350