Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 216
________________ प्रत्येकपक्षदूषणम्] न्यायागमानुसारिणीव्याख्यासमेतम् ४८३ आत्मखतत्त्वेत्यादि यावद्भाव्यमव्यतिरिक्तरूपत्वाच्च, आत्मनः स्वतत्त्वमौदयिको भाव:, उदयेन भव औदयिकः कस्य कर्मणः ? ज्ञानावरणीयादेरष्टविधस्यापि, स च तदुदयप्रवृत्तितोऽपृथग्भूतोऽव्यतिरिक्तो भावः स्वतत्त्वमात्मनः तदव्यतिरिक्तरूपश्चात्मा, तस्मादात्मस्वतत्त्वज्ञानावरणाद्युदयप्रवृत्त्यव्यतिरिक्तरूपत्वाश्चात्मा पुद्गलात्मस्वतत्त्व एव, तादात्म्यप्रतिपत्तेः रूपाद्यात्मकपरमाण्वात्मिकत्वा]दित्यर्थः । अत्राह नन्वेवं पुद्गला एवात्मा प्राप्तः, तस्योपयोगात्मनः पुद्गलत्वात् , योऽयं पुद्गलोपयोगः स चात्मोपयोगः एव, उपयोगव्यतिरिक्तरूपादेरभावात् , तस्मात् कुतोऽस्य रूपाद्यात्मकतेति, एतन्न, उपयोगात्मकत्वादेव रूपादीनामप्युक्तवत् , अनेन सर्वमपि सर्वात्मकम् , आत्मपुद्गलयोरितरेतरात्मकत्वात्, एवञ्च कर्मैव कारणं पुरुषकार एव कारणमित्येकान्तमसम्बद्धमिति 10 नन्वेवमित्यादि यावत् कुतोऽस्य रूपाद्यात्म[क]तेति, ननु भोः ? त्वदुक्तेन विधिना एतेनैव पुद्गला एवात्मा प्राप्तः तस्योपयोगात्मनः पुद्गलत्वात् , योऽयं पुद्गलोपयोगो रूपं रस इत्यादिज्ञानात्मनः स चात्मोपयोग एव, उपयोगव्यतिरिक्तरूपादेरभावात् , उपयोगस्य रूपाद्यात्मकत्वादुपयोगरूपत्वाञ्च रूपादीनां, तस्मात् कुतोऽस्यात्मनो रूपाद्यात्मकतेति प्रस्तुतस्योपयोगस्य मत्यादेः पुद्गलात्मत्वमुपरणद्धि एष विचार इत्यत्रोच्यते एतन्न, उपयोगात्मकत्वादेव रूपादीनामपि, उक्तवत् नै [ष दो] पो रूपाद्या- 15 त्मनो रूपादीनाश्चोपयोगात्मकता, यस्मादुपयोगात्मकत्वं रूपादीनामप्यनन्तरमेवोक्तम् तस्माद्रूपादीनामप्युपयोगात्मकत्वादुक्तवत् पुद्गलोऽप्यात्मा, आत्मापि पुद्गल एवेति रूपाद्यात्मकत्वमतो न दोषाय, अनेन सर्वमपीत्यादि यावदितरेतरात्मकत्वात् , एवश्च कृत्वा पुरुषस्य रूपादिमत्पुद्गलात्मकत्वात् पुद्गलस्यापि उपयोगात्मकपुरुषात्मकत्वात् यदुच्यते कर्मैव कारणं पुरुषकार एव कारणमित्यवधारितम् , उभयमप्येकान्तमसम्बद्धं बोद्धव्यमित्युभयोः पक्षयोः सहदोषोक्तिरेषा । इदानीं तु प्रत्येकप्रत्युक्तिभावनादिक्, कर्मैकान्तवादप्रत्युक्तिदिक् तावत् प्रवर्त्तयितृत्वात् पुरुषश्च कारणमुत्कर्षार्थी, तस्यैवोक्तवत् सर्वत्वात् , असावेव पुरुषः प्राणादिमांश्चेतनः कर्मापि, पुद्गलखतत्त्व एव स इति भावः । एवमेव व्याचष्टे आत्मन इति, ननु पूर्णतया सर्वात्मप्रदेशैरात्मनः पुद्गलेषु व्यापृतत्वे पुद्गलोपयोगात्मोपयोगयोरैक्येनोपयोगलक्षणात्मन एव सद्भावाद्रूपाद्यात्मकत्वमात्मनो न स्यादित्याशङ्कते-नन्वेवमिति । प्रागुक्तेन प्रकारेण साकल्येन पुद्गलेष्वात्मनो व्यापृतत्वेन पुद्गला एवात्मा प्राप्तः, ज्ञानस्वरूपस्यात्मनो योऽयं पुद्गलेषूपयोगः स 25 आत्मोपयोग एव वस्तुतः, नहि रूपादि किश्चिदुपयोगव्यतिरिक्तमस्ति, रूपादेरुपयोगस्य चान्योऽन्यमेकत्वात्तथा च रूपादेरवस्तुत्वेनात्मनस्तदात्मकत्वासम्भवादुपयोगखतत्त्वस्य मत्यादेः कथं पुद्गलात्मतेत्याशङ्कते-ननु भो इति । रूपादय उपयोगस्वरूपा एवेति नैकान्तः सम्भवति, उपयोगस्य रूपखरूपताया अपि प्रतिपादितत्वादित्याशयेनाह-उपयोगात्मकत्वादेवेति । एवमात्मपुद्गलयोः परस्परात्मकत्वादेव सर्व सर्वात्मकमित्याह-अनेनेति । अथ प्रस्तुतवादमधिकृत्याह-एवश्च कृत्वेति । पुरुषकर्मयोरन्योन्यात्मकत्वादेकाभावेऽपराभावात् कमैकान्तवादः पुरुषकारैकान्तवादश्चायुक्त एवेति पक्षद्वये योगपद्येन दोष 30 आदर्शित इति भावः । सम्प्रति प्रत्येकपक्षस्य निराकरणं भावयति लेशेन-इदानीन्विति । पक्षद्वययोर्लेशतो या निराकरण १ सि. क. तोऽप्रवृत्तितोऽ.। 20 Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350