Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 214
________________ mmmmmmmmmmmmmmmm nanwww mammam पुद्गलात्मोपयोगः] न्यायागमानुसारिणीव्याख्यासमेतम् ૪૮૬ भ्यमाना भवन्ति, देशतोऽत्यन्तभेदग्रहे तेषामभवनम् , तथा क्षणभेदे प्रथमक्षणेऽन्यद्रूपं द्वितीयक्षणेऽन्यदिति गृह्यते चेन्न रूपं नाम किञ्चित् स्यात् तत्रेष्टस्य कालस्य रूपग्रहणाश्रयसम्बन्धाभावादित्यभवनात्मका रूपादयः स्युः, आदिग्रहणाद्भावभेदेनैकगुणद्विगुणत्रिगुणकृष्णादिभेदेनागृह्यमाणत्वादविशिष्टस्य सामान्यस्यैव ग्रहणात् , ततः किं? अभवनात्मकत्वान्निर्वस्तुत्वापत्तिर्वन्ध्यापुत्रवत् , ततश्च निर्वस्तुत्वापत्तरेतत्प्रतिपत्तव्यं द्रव्यमेव तथा तथा भवनलक्षणं सत्यं न रूपादयो नाम केचिदिति, तथा तथेति रूपर-४ सप्रकारेण भवति श्यामरक्ततादितद्भेदप्रकारेण चेति, द्रव्यश्च भव्ये भवति द्रवतीति । कथं पुनस्तद्रव्यमभिन्नं सत् रूपादिभेदेन भवतीति चेत् चक्षुरादिप्रत्ययोपयोगापदेशेन भवति, चक्षुरादिप्रत्यया इति अधिपत्यालम्बन हेतुसमनन्तरप्रत्ययाः, तदपदेशेन रूपादि भवति ज्ञानापदेशेन-चक्षुरूपादिप्रत्ययेनेत्यर्थः, यथोक्तं 'रूपालोकमनस्कारचक्षुर्यः सम्प्रवर्तते । विज्ञानं मणिसूर्यांशुगोशकृङ्ग्य इवानलः ॥' इति ( ) दृष्टान्तो भागिनेयाद्यपदेशविशिष्टैकत्वसत्यपुरुषवत्-यथैक एव पुरुषोऽनेकसम्बन्धे 10 स्त्रीपुरुषापेक्षापदेशविशिष्टो भागिनेयो मातुलो भ्राता पतिः पिता देवरः श्वशुरः पुत्रो भ्रात्रीय इत्यादिर्भवति देवदत्त एक इत्येव च सत्यस्तथा द्रव्यमेकमेव रूपादि भवति चक्षुराद्यपदेशादिति साधूक्तमेकमेव सर्वात्मकमिति, एवमुपयोगात्मकत्वं पुद्गलस्य रूपादिप्रभेदस्योक्तम् । इदानीमुपयोगस्यापि पौद्गलात्म्यमुच्यते यच्चोपयोगखतत्त्वं मत्यादि तदपि पुद्गलात्मतत्त्वम् रूपाद्यात्मकत्वात् घटादिवत् , स हि 10 उपयोगलक्षण आत्मा परमाणुळ्यणुकत्र्यणुकादिषु रूपाद्यात्मकेषु पुद्गलेषूपयुज्यते कृत्स्नो व्याप्रियते, तत्प्रदेशस्यापि रूपाद्यात्मकत्वमात्मनोऽभ्युपगम्यते तदुपयोगात्तत्परिणामात्तदेव तदिति न्यायाच्च, यद्येवं ततोऽसंख्यातप्रदेशोऽपि सर्वात्मना सर्वैः प्रदेशैाह्ये उपयोग यायात् , मृत्पिण्डः शिवकादिभावमिव, उपयोगमगच्छन्ननुपयुज्यमानोऽचेतन एव, पटानुपयुक्तघटादिवत्, चेतनो झुपयोगलक्षणस्तदभावादचेतनः स्यादिति।। इति । कालतोऽभवनमाह-तथा क्षणभेद इति । कारणमाह-तत्रेष्टस्येति । भावतोऽभवनमाह-आदिग्रहणादिति। एवञ्च रूपादीनामभवनात्मकत्वेनावस्तुत्वाद्रव्यमेव रूपरसादिरूपतया गृह्यत इत्याह-ततश्चेति तथा तथा भवनखभावस्वाह्रव्यस्य न रूपादयो नाम केचित् सन्तीति भावः । अभिन्नं द्रव्यमेव चक्षुर्ग्रहणमासाद्य रूपमिति स्पर्शनग्रहणमासाद्य स्पर्श इति घ्राणग्रहणमासाद्य गन्ध इति रसनाग्रहणमासाद्य रस इति व्यपदिश्यत इत्याह-चक्षुरादीति । चक्षुरादिप्रत्ययापदेशेनोपयोगव्यपदेशेन चेत्यर्थः । आदिपदग्राह्यान् सूचयितुमाह-चक्षुरादिप्रत्यया इति, खखविषयाणामुपलब्धौ पञ्चेन्द्रियादीनामाधिपत्य- 25 मित्यधिपतिप्रत्ययः, संस्कृता असंस्कृताश्च सर्व एव धर्मा आलम्बनप्रत्ययाः, सहभूसभागसम्प्रयुक्तकसर्वत्रगविपाकश्चेति पञ्च हेतवो हेतुप्रत्ययाः, अचरमा उत्पन्नाश्चित्तचैत्ताः समनन्तरप्रत्यया इति बौद्धदर्शने प्रसिद्धा एते, एतेषामपदेशेन ज्ञानापदेशेन चाभिन्नं सङ्गव्यं रूपादिभेदेन भवतीत्यर्थः, अत्रैव बौद्धकारिकां प्रमाणयति-यथोक्तमिति, रूपमालोकं बाह्यमान्तरं निरुद्धमनःसंज्ञितं चित्तं चित्तान्तरानवकाशदानात्मकञ्च प्रतीत्य चक्षुर्विज्ञानमुत्पद्यते, चतुर्भिश्चित्तचैत्ता इति बौद्धसिद्धान्तात्, तत्रापि चाधिपतिना चक्षुषा व्यपदिश्यते चक्षुर्विज्ञानमिति यथाऽनल: सूर्यकान्तमणिसूर्यांशुगोशकृद्भयो भवतीति तदर्थः । एकस्यैव 30 द्रव्यस्य निमित्तविशेषयोगेन नानाव्यपदेशभागित्वे निदर्शनमाह-भागिनेयादीति । एवं पुद्गलस्योपयोगात्मकत्वमुदित्वोपयोगस्यापि पुद्गलात्मतोच्यते-यञ्चोपयोगखतत्त्वमिति, खशब्दः आत्मीयवचनः तत्त्वशब्दो भावः, उपयोगस्यात्मीयो सि.क. त्वाद्विशिष्ट । द्वा० न० २३ (६१) Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350