Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 212
________________ mammmmwww ram सर्वत्वानुमानम्] न्यायागमानुसारिणीव्याख्यासमेतम् ४७९ स्मकत्वमेव, तथा सुखादिषु भावनीयम् , तदनतिरेकात्मकत्वञ्च भावितार्थमेव 'ते चेव ते पोग्गला सुभिगंधत्ताएं इत्यादिना । यथा चात्रेत्यादि, एवञ्च तदेव तदिति सर्वसर्वस्य बाह्यस्य परिणाम्यस्य परिणामयितुश्च तत्त्वं, योऽधिकगुणस्य ताद्गुण्यं प्रतिपद्यते स परिणामी, योऽधिकगुणो न्यूनगुणत्वमापादयति स परिणामक इत्युच्यते व्यवहारतः, निश्चयतश्च परिणाम्यपरिणामकावाविर्भावतिरोभावमात्रभेदौ स्वत एव चेत्यस्य नयस्य दर्शनम् , परिणामश्च द्रव्यमानं 'द्रव्यश्च भव्ये' यद्यद्भवति स परमा-5 र्थोऽस्येति तदप्येवं भावितं क्षीरादेर्यावच्च घटादेस्तावद्बोद्धव्यम् , तथाऽधिकृतस्याध्यात्मिकस्य कर्मकर्मिसंज्ञस्य शरीरशरीरिसंज्ञस्य वा भावनार्थमुपनयति-तथाऽऽत्मकर्मणोरपीति, तद्व्याचष्टे-आत्मा परिणमयतीत्यादिना यावदनादित्वमेकत्वमिति, परिणाम्यपरिणामकयोरनियतदेशकालभावादिरूपतां दर्शयति तथाभवनसामर्थ्याद्गतिजात्यादिना-पुद्गलानिति, उपयोगलक्षण आत्मा गतिजातिशरीराङ्गोपाङ्गाद्यनुभवनोपयोगात्मतया तान् पुद्गलान् परिणमय[ ती ] त्यात्मनः परिणामकत्वं तेषां परिणाम्यत्वम् , पुद्गला-10 श्वात्मानं मिथ्यादर्शनादित्वेनेति, मिथ्यादर्शनाविरतिप्रमादकषाययोगसुखदुःखोदयक्षयोपशमादिभावेन परिणमयन्ति तद्भावेनात्मा परिणम्यते स च मिथ्यादर्शनोदयादिभावो भवभ्रान्तिहेतुः, तद्वशस्य संसरणात् एतस्य कर्मकर्मिद्वयस्यान्योन्यपरिणामकत्वादनादित्वमेकत्वमेव, एकत्वशब्देन पर्यायभूतेन तत्त्वं व्याचष्टे संसारस्य कर्मकर्मिद्वयसम्बन्धजत्वात्तस्य च सम्बन्धस्यानादित्वात् , यथोक्तं 'पुट्विं भंते ! कुक्कुडी पच्छा अंडए, पुटिव अंडए पच्छा कुकुडी' इत्यादि प्रश्नव्याकरणं 'रोहा ! पुटिव एते पच्छावि एते दोवि 15 एते सासता भावा आणाणुपुव्वी एसा रोहा !' इत्यादि, (भग० श०१ उ०६ सू० ५३) मिथ्यादर्शनग्रहणं सर्वकर्मबन्धाधारभूतत्वाच्छेषस्यापि सर्वस्य सूचनम् ।। तदनतिरेकात्मकत्वञ्चेति । एवं बाह्यानामचेतनानामेकत्वं प्रतिपाद्य चेतनाचेतनयोरप्येकत्वमाह-यथा चात्रेत्यादीति, सर्वमेव सर्वमिति सर्वसर्व प्रत्येकं सर्वेषां सर्वरूपतया बाह्यमचेतनमाविर्भावतिरोभावरूपतयैकमेव, व्यवहारत एव केवलं कश्चित् परिणाम्यः कश्चित परिणामक इति भेद इति भावः । तत्त्वं एकत्वम् , परिणाम्यपरिणामकयोर्लक्षणमाह-य इति, यो 20 न्यूनगुणोऽधिकगुणस्य ताद्गुण्यं सारूप्यं प्रतिपद्यते स परिणामी, परिणामकस्तु न्यूनगुणत्वापादकोऽधिकगुण इति । परिणामोऽपि नातिरिक्तः कश्चित् . किन्तु परिणामिस्वरूप एवेत्याह-परिणामश्चेति, द्रव्यस्य भवनरूपत्वादिति भावः । द्रव्यस्य भवनमेव परमं रूपं न त्वभवनरूपं किञ्चिद्रव्यं भवितुमर्हति, तस्मादाविर्भावतिरोभावौ द्रव्यस्य खरूपमित्याह-यघद्भवतीति । आत्मपुद्गलयोरन्योऽन्यपरिणामकत्वादात्मना पुद्गलानां परिणमनमाह-उपयोगलक्षणेति, उपयोगलक्षणो जीवोऽध्यवसायविशेषाज्ज्ञानावरणादिकर्मयोग्यान् खप्रदेशस्थान् सूक्ष्माननन्तानन्तप्रदेशानेकक्षेत्रावगाढान् स्थितान् पुद्गलान् योगविशेषात् 25 गृहीत्वा गतिजातिशरीराङ्गोपाङ्गनिर्माणबन्धनसंघातसंस्थानसंहननस्पर्शरसगन्धवर्णप्रभृतिनामकर्मादित्वेनानुभवनयोग्यतया परिणमयतीति भावः । पुद्गलैरप्यात्मा परिणम्यत इत्याह-पुद्गलाश्चेति, कायादिपुद्गलसम्बन्धादात्मापि मिथ्यादर्शनादिरूपेण परिणमतीत्यर्थः । मिथ्यादर्शनोदयेति, मिथ्यादर्शनं विपरीततत्त्वावबोधः, अविरतिः पापस्थानेभ्यो विरतिपरिणामाभावः, इन्द्रियविकथाविकटनिद्रालक्षणः प्रमादः, क्रोधमानमायालोभाः कषायाः, योगा मनोवाक्कायव्यापारखभावाः, सुखदुःखे प्रसिद्ध, एतेषामुदयादिभावेन पुद्गला आत्मानं परिणमयन्ति, प्रथमोपात्तस्य मिथ्यादर्शनस्योदयभावो भवभ्रमणहेतुरिति भावः । 30 कर्मजीवसम्बन्धस्य बीजाङ्करन्यायवदनादित्वेन संसारस्यानादित्वम् , सम्बन्धस्थानादित्वादेव च तयोरेकत्वपरिणामोऽप्यनादिरित्याह-एतस्येति । संसारस्य कुक्कुट्यण्डदृष्टान्तेनानादित्वप्रकाशकमागमं प्रदर्शयति-यथोकमिति । नन्वचेतनस्य १ सि.क. त्मतयातान् । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350