Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 208
________________ एकस्य सर्वता] न्यायागमानुसारिणीव्याख्यासमेतम् ४७५ तदुभयमिदानीमैक्येनाप्यसम्बद्धमिति प्रदर्शयितुकामः प्रश्नयति कथमसम्बद्धम् ? नहि शुभमशुभं वाऽत्र किञ्चिदाभ्यन्तरं बाह्यं वा इष्टस्य कारणमनिष्टस्य वा, सर्वमेतदिष्टकारणमप्यनिष्टकारणमपि शुभमप्यशुभमपीति गृहाण, यथा त्रिदोषघ्नं मोदकादि प्रमाणाप्रमाणकालाकालाऽऽहारितं तथैक एव शुभाशुभादिधर्मा ह्ययं पुद्गलकायः, पुद्गलनिरुक्तिकः कायः शरीरं चितत्वात् पुद्गलस्य पुद्गलस्येव वा कायः इति भोक्तृभोग्यात्म- 5 कविपरिणामवृत्तित्वात् , आहारवत्, कायचैतन्ययोर्वा ऐक्यपरिणामापन्नयोरेव भोक्तभोग्यविपरिणामवृत्तित्वं सिद्धमतो भोक्तृत्वाद्भोग्यत्वाद्वा शुभोऽशुभश्च कायः। कथमसम्बद्धमिति, परवचनेन स्ववचनेन चैकत्वात्तयोः पृथक् कर्म पुरुषकाराभावादेवासम्बद्धमिति तत्प्रतिपादयिष्यन्नाह यस्मान्न शुभमशुभं वेत्यादि यावत्काय इति, अयं तावदृश्यमानः कायः पुरुषो वास्तु यत्तेऽभिरुचितं न मे कश्चिदत्र पक्षपातः, तच्च यस्मान्न किञ्चिदत्र शुभमेवाशुभमेव 10 वा, वाह्यमपि कायाद्भिन्नमभिमतं रूपादि इष्टस्य सुखस्य कारणं चित्रमयूरस्रक्चन्दनभ्रमरततादि, अनिष्टस्य वा दुःखस्यातिविवर्णहुण्डसंस्थानकोणकण्टकशिवारुतादि, सर्वमेतदिष्टकारणमप्यनिष्टकारणमपि शुभमप्यशुभमपीति गृहाण, द्रव्यक्षेत्रकालभावपुरुषान्तरसंयोगविशेषाश्रयपरिणामविशेषापत्तेः सुरभिमधुरसुखस्पर्शसुरूपसुशब्देतरभावमुपलभ्यते, अभक्षितभक्षितमोदकवत्, पक्कापक्काम्रफलवत् पद्मकेसरनालवत् , जाताजातविपन्नाविपन्न रादिवत् , स्वस्थास्वस्थस्त्रीपुरुषगीतरुतादिवत् , यथोक्तमार्षे 15 'जे चेव पोग्गला सुब्भिगन्धत्ताए परिणमंति ते चेव पोग्गला दुब्भिगंधत्ताए परिणमंति' ( ) इत्यादि, तस्मान्न शुभमशुभं वैकान्तेन किञ्चिदस्ति भिन्नजाति, किं तर्हि ? तदेव शुभं तदेवाशुभं तदेवेष्टकारणमनिष्टकारणञ्च, यथा त्रिदोषनं मोदकादि प्रमाणाप्रमाणकालाकालाssहारितमिति स्वस्थसर्पदष्टाहारितविषवद्वा, तथैक एव ह्ययं पुद्गलकायः पुद्गलनिरुक्तिकः कायः शरीरं चितत्वात् , रोगादिदुःखनिवासत्वाद्वा सर्वोऽपि बाह्याभ्यन्तरो मूर्तद्रव्यसंघातः कायो रूपादिसंघा-20 कर्मवादस्य दक्षितत्वादिति भावः । उभयोः समुच्चये दोषमादर्शयति-तदुभयमिति । कथं कर्मवाद्युक्तं पुरुषवाद्युक्तच्चासम्ब, द्धमित्येतद्दर्शयति-कथमिति । कथं कर्मपुरुषकारयोस्तद्वचनेनैवैकत्वात् पृथगुभयाभावादेवासम्बद्धतेत्याह-परवचनेनेति वाह्यमाभ्यन्तरं वा वस्तु किञ्चिदेकान्तेन शुभं किञ्चिदेकान्तेनाशुभं किञ्चिदिष्टस्यैव साधनं किञ्चिच्चानिष्टस्यैवेति वर्तते किन्त्वेकमेव शुभमशुभमिष्टसाधनमनिष्टसाधनमपि द्रव्यक्षेत्रकालभावपुरुषान्तरसंयोगविशेषेण तथा तथा परिणामविशेषमापद्यत इत्याह-अयं तावदिति । ततादीति वीणादिवाद्यादीत्यर्थः । एकस्यैव सुरभीतरादिपरिणामापत्तौ दृष्टान्तानाह-अभक्षितेति अभक्षितं 25 मोदकं सुरभि भवति, भक्षितञ्चासुरभि, पक्षमाम्रफलं मधुररसं भवति, अपक्वञ्चामधुरम् , पद्मकेसराणि सुखस्पर्शः पद्मनालश्च कठिनस्पर्शः, अभिजातोऽविपन्नो वा नरः सुरूपो भवति, अनभिजातो विपत्तिकान्तो वा नरः कुरूपो भवति, स्वस्थस्त्रीपुरुषगीतिः सुशब्दा भवति, अस्यस्थस्त्रीपुरुषरोदनं दुःशब्दं भवतीति दृष्टान्तानामाः । एकस्यैव शुभाशुभादित्वे निदर्शनमाह-यथेति त्रिदोषघ्नमपि मोदकादि प्रमाणेन काले चाहृतं शुभं सुखसाधनञ्चान्यथाऽशुभमनिष्टसाधनश्चेति भावः । निदर्शनान्तरं खयमाहस्वस्थेति, नीरोगेनाहृतो विषविशेषोऽनिष्टसाधनं प्राणहरत्वात् , सर्पदष्टेनाहृतो विषविशेष इष्टसाधनम् , सर्पदंशनविषदूरी-30 करणादिति भावः । एवमेव पुद्गलकायः शुभाशुभादिधर्मा भवति भोक्तभोग्यात्मकविपरिणामवृत्तित्वात् आहारवदित्याहतथैक एवेति । पुद्गलकायशब्दं व्युत्पादयति पुद्गलनिरुक्तिक इति । बाह्याभ्यन्तरमूर्तद्रव्यसंघातस्य कायत्वमुक्ता १ क. तत्यादि । २ सि. क कारकण्टक० । ३ सिक सुरा० ४, ५ ततए । ' 3500 Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350