________________
४६० द्वादशारजयकम्
[विधिनियमारे भाषाप्राणापानमनःकर्मयोग्यानामग्रहणान्तरितानां ग्राह्याणामुत्तरोत्तरानन्तगुण त्व]मानेयम्, अन्तरन्तु ग्राह्याणां जघन्यादुत्कृष्टो विशेषाधिकः सर्वत्र, को विशेषः । तस्यैवानन्तभागः, अग्राह्याणान्तु जघन्यादुत्कृष्टोऽनन्तगुणः, को गुणकारः ? सिद्धानामनन्ततमभागः, अभव्येभ्योऽनन्तगुणः, एवंविधैः
पुद्गलैः सर्वत्र लोकेऽवगाढनिचिते कर्मतया परिणमनयोग्यान कायवाअनःकर्मलक्षणानां त्रयाणां 5 योगानां काययोगेन गृह्णाति, तेनैव कर्मणा शरीरतया परिणमयति, पुरुषः स्ववीर्येण योग्यानेष वामनःप्राणापानतया परिणमय्य काययोगेनैव वाचनःप्राणापानतयाऽवलम्ब्य विसृजति, यथोक्तम् 'जोगेहिं तदनुरूवं परिणमयति गेण्डिऊण पंच तणू । पाउग्गे वा लंबति भासाणमणत्तणे खंधे ॥' (कर्म प्र० श्लो० १७) तथा 'मनसा वाचा कायेन वाऽपि युक्तस्य वीर्यपरिणामः । जीवस्यात्मनि
यः खलु स योगसंज्ञो जिनैदृष्टः ॥ (तत्त्वार्थटी० अ०७ पृ०७०) 'तेजोयोगाद्यद्वद्रक्तत्वा10 दिर्घटस्य परिणामः । जीवकरणप्रयोगे वीर्यमपि तथाऽऽत्मपरिणामः ॥' ( ) इति । किं कारणं ?
तथाविधोपयोगगतेः,-बन्धनयोग्यपरिणामापन्नपुद्गलद्रव्यग्रहणपरिणतकृतप्रयोगपरिणामापत्तेः पुरुषस्येत्यर्थः, यथोक्तं 'ऊष्मगुणः सन् दीपः स्नेहं वा यथा समादत्ते । आदाय शरीरतया परिणमयति चापि तं स्नेहम् ।। तद्वद्रागादिगुणः स्वयोगवर्त्याऽऽत्मदीप आदत्ते । स्कन्धानादाय तथा परिणमयति तांश्च कर्मतया ॥' (तत्त्वार्थटी० अ०५ पृ० ३४३) 'स्नेहाभ्यक्तस्याङ्गे लगदेव रजो मलीभवत्यपि 16 वा । रागद्वेषस्नेहाभ्यक्तस्य तथा लगति कर्म ॥ ( ) रूक्षयति रूष्यतो ननु वक्त्रं निति च
रज्यतः पुंसः । औदारिकोऽपि देहो भाववशात् परिणमत्येवम् ॥' (प्रज्ञा० टी० पृ० ४५५ ) एवं विधैरिति ईदृशैः पुद्गलैः सर्वो लोकोऽवगाढः आश्रितः तथा निचितो व्याप्तश्च, जीवश्च यत्राकाशेऽवगाहस्तत्रैव ये कर्मयोग्याः पुद्गलास्तान् कर्मतया परिणमय्य कायस्य वाचो मनसश्च यानि कर्माणि-क्रियाविशेषाः चेष्टाविशेषजाः
तीव्रतीव्रतरतीव्रतमभेदास्त एव योगा उच्यन्ते तेषां मध्ये काययोगेन गृह्णाति, तेनैव च कर्मणा शरीरतया परिणमयति चेत्यर्थः । 20 विसर्जनप्रकारमाह-पुरुष इति । कायादिकरणयोगादात्मनो वीर्यपरिणतिर्भवति, तथाविधेन वीर्येणेत्यर्थः । तत्र प्रमाणमा
दर्शयति-जोगेहिं इति, योगैर्जघन्यमध्यमोत्कृष्टरूपैः योगानुरूपं पञ्चशरीरानुरूपं वा पुद्गलस्कन्धान गृह्णाति, यतो हि परिणामालम्बनग्रहणसाधनं वीयं भवति तेन योगेन औदारिकादिशरीरप्रायोग्यान् पुद्गलान् प्रथमतो गृह्णाति, गृहीत्वा चौदारिकादिरूपतया परिणमयति, तथा प्राणापानभाषामनोयोग्यान् पुद्गलान् प्रथमतो गृह्णाति गृहीत्वा च प्राणापानादिरूपतया परिणमयति, परिणमय्य च तनिसर्गहेतुसामर्थ्यविशेषसिद्धये तान् पुद्गलस्कन्धानालम्बते, ततस्तदवष्टम्भतो जातसामर्थ्य25 विशेषः सन् विसृजतीत्यर्थः । उक्तार्थमेव कारिकान्तर योगलक्षणप्रदर्शकं दर्शयति-मनसा वाचेति, अस्य श्लोकस्य मूलभूता गाथा स्थानाङ्गस्य तृतीयस्थानटीकायामुद्धतेत्थं दृश्यते-'मणसा वयसा कायेण वा वि जत्तस्स वीरिय परिणामो। जीवस्स अप्पणिजो सजोगसंज्ञो जिणक्खाओ॥ तथा तेजोयोगादित्यपि तत्रैव-'तेओ जोगेण जहा रत्तत्ताई घडस्स परिणामो। जीवकरणप्पओगे वीरियमवियप्पपरिणामो ॥' इति । सोऽयं वीर्यपरिणामोजीवस्यैवेत्यादर्शयति
तेजोयोगादिति, मृन्मयघटस्याग्निसंयोगाद्रक्तत्वादिपरिणतिर्यथा घटस्यैव तथा जीवस्य कायादिकरणयोगाद्वीर्यपरिणति30 रात्मन एव प्रादुर्भवति न द्रव्यान्तरस्येति भावः । अत्र हेतुमाह-तथाविधेति, यथा च दीप ऊष्मगुणयोगाद्वयों स्नेहस्कन्धानादाया रूपेण परिणमयति तथा रागादिगुणयोगात् कायादियोगवात्मदीपः स्कन्धानादाय कर्मतया
पर्थक कारिकाद्वयमाह-ऊष्मगण ति। यथा च नेहाभ्यक्त वपुषि जलाईवाससि वा परागो लगति मलीभवति च तथा रागादिस्नेहाभ्यञ्जनस्यात्मनः कार्मणशरीरपरिणामोऽपूर्वकर्मग्रहणे योग्यतामास्कन्दतीत्यर्थप्रदर्शिकां कारि
सि. क. 'मय्यातयोग्यान् । २ सि. क. मनसा जीवप्रयोगजनित इति पाठान्तरम् । ४ सि.क. भवति । ५सि.क. रूप्यते तनु०।६ सि.क. तनुभा०।७सि.क. मयतिदेहोऽपम् ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org