________________
४५९
वर्गणाः]
न्यायागमानुसारिणीव्याख्यासमेतम् शादि संख्येयप्रदेशवर्गणाः, अनन्तप्रदेशवर्गणा अपि काश्चिद्रहणयोग्याः काश्चिदग्रहणयोग्याः, ग्रहणयोग्यायोग्यत्वञ्चातिस्थूलसूक्ष्मत्वात् , मृद इव परमाणुशर्कराणां [अयोग्यत्वात् ] योग्यत्वाञ्च मध्यमपरिमाणानाम् , तत्र या ग्रहणयोग्याः पुद्गलतो वर्गणातश्च मानेन सिद्धानामनन्ततमो भागः, अभव्यसिद्धानामनन्तगुणः, एवं तावदौदारिकयोग्यस्य जघन्यस्य विधिः, तदुपर्येकपरमाणौ प्रक्षिप्ते द्वितीयाऽप्यौदारिफयोग्या, एवमेकैकवृद्धावनन्तानन्तानि स्थानान्यौदारिकाकारत्वेन ग्रहणयोग्यानि, जघन्यादुत्कर्षस्था- । नमसंख्येयगुणम् , यस्मात् परम्परोपनिधया प्रथमस्थानादारभ्यानन्तस्थानेषु [ग]तेषु द्विगुणता भवति तस्मादसंख्यगुणं संख्येयगुणं वा, अनन्तरोपनिधया तु रूपाधिकमेव, तस्मिन्नुत्कृष्टौदारिकयोग्यद्रव्ये रूपे प्रक्षिप्ते जघन्यं वैक्रियशरीरस्याग्रहणयोग्यम् , एवं रूपाधिकवृद्ध्या तान्यप्यनन्तानन्तानि स्थानानि पूर्ववत् , जघन्यादुत्कृष्टमसंख्येयगुणम् , को गुणकारः ? श्रेण्यसंख्यतमभागः, तेषामग्रहणानामुपरि वैक्रियस्य जघन्यं ग्रहणयोग्यम् , तान्यपि स्थानानि पूर्ववदनन्तानन्तानि, पुनराहारकाग्रहण योग्या] नि, 10 तथा तदुपरि तद्हणयोग्यानि तथैव, औदारिकशरीरयोग्येभ्यो वैक्रियशरीरयोग्यान्यसंख्येयगुणानि, ततोऽसंख्येयगुणान्याहारकयोग्यानि तावदसंख्येयगुणानि ग्रहणाग्रहणानि, पूर्वस्मात् पूर्वस्मात्तदुपर्याहारकोत्कृष्ट रूपे प्रक्षिप्ते जघन्यमग्रहणं तैजसस्य, जघन्यादुत्कृष्टमनन्तगुणम् , को गुणकारः ? अभव्येभ्योऽनन्तगुणः, सिद्धानामनन्ततमभागः, तदुपरि रूपाधिके तैजसशरीरयोग्यं जघन्यादुत्कृष्टमनन्तगुणम् , को गुणकारः ? सिद्धानामनन्ततमभागः, अभव्येभ्योऽनन्तगुणः, अनेन विधिनोत्तरेषां 15
समस्तलोकाकाशप्रदेशवर्त्तिनामेकैकपरमाणूनां समुदायः सजातीयत्वादेका परमाणुवर्गणा ततः समस्तलोकवर्तिनां द्विप्रदेशिकस्कन्धानां द्वितीया वर्गणा, ततः त्रिप्रदेशिकानां समस्तानामपि स्कन्धानां तृतीया वर्गणा, एवमेकैकपरमाणुवृद्ध्या संख्येय प्रदेशिकानां स्कन्धानां संख्याता वर्गणाः, असंख्यातप्रदेशिकानां स्कन्धानामेकैकपरमाणुवृद्धानामसंख्येया वर्गणाः अनन्तपरमाणुनिष्पन्नस्कन्धानामनन्ता वर्गणाः, अनन्तानन्तप्रादेशिकानां, स्कन्धानामनन्तानन्तवर्गणाः, सर्वा अप्येता अल्पपरमाणुमयत्वेन स्थूलपरिमाणतया च खभावाजीवानां ग्रहे न समागच्छन्तीत्यग्रहणवर्गणा एताः सर्वा अप्युच्यन्त इति भावः। 20 तत्र ग्रहणयोग्यायोग्यत्वे हेतुमाह-ग्रहणयोग्येति, मृदः परमाणुशर्करा इव या अतिस्थूला अतिसूक्ष्माश्च ताः ग्रहणायोग्याः, मध्यमपरिमाणाश्च ग्रहणयोग्या इति भावः । परमाण्विति परमाणुरतिसूक्ष्मत्वात् शर्करा चातिस्थूलत्वादयोग्या इति भावः, तत्रेति, औदारिकशरीरादेरग्रहणयोग्या उपर्युक्ताः सर्वाः समतिक्रम्याभव्यानन्तगुणैः सिद्धानन्तभागवर्तिभिः परमाणुभिर्निष्पन्नैः स्कन्धेरारब्धा ग्रहणप्रायोग्या जघन्यौदारिकवर्गणा भवन्तीति तथा स्कन्धानामपि तदेव मानमिति भावः । अभव्यसिद्धानामिति, भव्यत्वेन सिद्धा ये न भवन्ति तेऽभव्य सिद्धास्तेषामित्यर्थः । पुद्गलद्रव्याणां हि यथा यथा प्रभूतपरमाणुनिचयः सम्पद्यते तथा तथा सूक्ष्मसूक्ष्मतरः परिणामः सञ्जायते, तत्रौदारिकाग्रहणवर्गणाः, औदारिकग्रहणवर्गणाः, अग्रहणवर्गणाः, 25 वैक्रियग्रहणवर्गणाः, अग्रहणवर्गणाः, आहारकवर्गणाः, अग्रहणवर्गणाः, तैजसग्रहणवर्गणाः अग्रहणवर्गणाः, भाषावर्गणाः, अग्रहणवर्गणाः, आनपानवर्गणाः, अग्रहणवर्गणाः, मनोवर्गणाः, अग्रहणवर्गणाः, कार्मणग्रहणवर्गणा इत्येवमौदारिकाद्याः कार्मणग्रहणवर्गणान्ता वर्गणाः पूर्वपूर्वस्मादुत्तरोत्तराः सूक्ष्मा विज्ञेयाः । तत्रौदारिकस्य ग्रहणयोग्याजघन्यादधोगता वर्गणाः खल्पपरमाणुनिष्पन्नत्वात् स्थूलपरिणामत्वाच्च तस्याग्रहणप्रायोग्याः, औदारिकग्रहणयोग्योत्कृष्टादुपरितन्यो वर्गणाः प्रभूतपरमाणुनिष्पन्नत्वात् सूक्ष्मपरिणामाच्च तस्याग्रहणयोग्याः, एवं वैक्रियादीनामपि विज्ञेयाः। अनन्तानन्तानीति, अनन्ते राशो 30 भूयोऽनन्तपुद्गलप्रक्षेपेऽनन्तानन्त इति प्रोच्यते । औदारिकजघन्यस्थानात्तस्यैवोत्कर्षस्थानस्यासंख्येयगुणत्वमुपपादयति-यस्मादिति, परम्परया व्यवधानेन मध्ये कियन्ति स्थानानि मुक्त्वा तत ऊर्ध्वमुपनिधा-मार्गणं विचारणं परम्परोपनिधा
१ सि. क. सूक्ष्मायोग्यत्वात् । २ सि. क. स्वेदोरेव । ३ क. श्रेण्यसंख्यसंख्यतमः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org