SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ ४५८ wwwmwwmam mmmw wwwwwwwwwwwmom द्वादशारनयचक्रम् [विधिनियमारे (तत्प्रयुक्त इति) तत्प्रयुक्तो व्रीहिः, कस्मात् ? पृथिव्येव न भूतो व्रीहिः, पृथिव्येवोदकमेव वायुरेव वाऽऽकाशमेव वा तत्प्रयुक्तत्वादादिकरत्वादादित्योदयादित्ववदिति, अत्रोच्यते को वा ब्रवीति पृथिवी न भूतः उदकादिश्च व्रीहिरिति, तत्प्रयुक्तत्वाद्रीह्यादि वा पृथिव्यादि न भूतमिति, तत्प्रयुक्तत्वा द्रीहिरपि पृथिव्यबाद्याकाशादि भवति, पृथिव्युदकवाय्वाद्याकाशाद्यपि च ब्रीहिमाषाम्रजम्ब्वादि 5 भवति, तत्कृताहारोऽपि पृथिव्यादि ब्रीह्यादि, पृथिव्याद्यपि तत्कृताहारः-तत्कृताहारशरीरेन्द्रियबुध्यादि-तत्कृतमनुष्यतिर्यनारकदेवादि च तत्कृताहारब्रीह्यादि, पृथिव्यादि च तत्कृताहारशरीरेन्द्रियबुद्धिमनुष्यादि सर्वं परस्परतः सर्वात्मकं भवति तत्प्रयुक्तत्वात् तथाऽभिव्यक्तस्तदादिकरत्वादिहेतुभिः, कियद्वोदाहियते, न्यायस्यास्य व्यापित्वात् सर्व तदुदाहरणमेव दिङ्मात्रप्रदर्शनार्थश्चाह-इतश्चेतश्चेति यदि ब्रीहितो ब्रीहेरादिकरत्वमथ पृथिव्यादितः पृथिव्यादेरादिकरत्वमिति तान्येवोदाहरणानि, एवं 10 तत्कृताहारशरीरेन्द्रियादिष्वपि द्रष्टव्यम् , सर्वस्यैकैकस्य सर्वात्मकत्वात्तत आह-तदात्मकत्वात्तदव्यतिरिक्तत्वात्तत्तदेवेति तस्य तस्य प्रकारस्य हेतुत्वं दृष्टान्तत्वञ्चेति ।। एवं दृष्टान्तभूतं प्रस्तुतन्यायप्रसाधितं सर्वसर्वात्मकत्ववादं प्रथयित्वा दार्टान्तिकं पुरुषकर्मवादमीश्वरकारणनिराकरणायाह पुरुषकर्मत्वस्यैवमेव, पुरुषः कर्ता कर्मयोग्यानां पुद्गलानां कर्मत्वेनादिकरः, तथाविधोप15 योगगतेः। पुरुषकर्मत्वस्यैवमेवेत्यादि, पुरुषः कर्ता कर्मयोग्यानां पुद्गलानां कर्मत्वेनादिकरः, कर्मयोग्याः पुद्गला उच्यन्ते-समानजातीयानामेकशी बुद्ध्याऽवस्थापितानां पिण्डो वर्गणा, कुचिकर्णकाभीरसवर्णगोपिण्डवत्, परमाणुवर्गणा, अग्रहणवर्गणा:-द्विप्रदेशवर्गणा एवं दशप्रदे पृथिव्येव न भूत इति । पृथिव्याद्यपि तथा तथा भवतीत्याह-को वा ब्रवीतीति, पृथिवी व्रीहिर्न भूतः, उदकादिव्रीहिर्न 20 भूत इति को वा ब्रवीतीति योजना, ब्रीहिः पृथिव्यादि भवति तत्प्रयुक्तत्वात् पृथिव्यादिरपि ब्रीह्यादिर्भवति तत्प्रयुक्तत्वादेवेत्यन्योन्यभवनमाह-तत्प्रयुक्तत्वादिति । तत्कृतेति व्रीह्यादिकृतेत्यर्थः, एवं च तत्प्रयुक्तत्वतथाभिव्यक्तितदादिकरत्वादिहेतुभिः सर्व सर्वात्मकं भवतीत्युपसंहरति-तत्प्रयुक्तत्वादिति । तत्तद्रूपत्वे हेतुमाह-तदात्मकत्वादिति पृथिव्यादेवीह्याद्यात्मकत्वाद्वीद्याद्यव्यतिरिक्तत्वात् व्रीह्यादिरेवेत्यर्थः, अथ दान्तिकं पुरुषकर्मवादमुत्थापयति-पुरुषेति, पुरुषो हि कर्ता कर्मपुद्गलान् गृहीत्वा कर्मत्वेनाभिव्यञ्जयति, अतोऽसौ कर्मत्वेनाभिव्यञ्जनादादिकरः, पुरुषस्य बन्धनयोग्यपरिणामापन्नपुद्गलद्रव्यग्रहणपरिणतकृतप्रयोगपरिणामापत्तरित्यर्थः, एवं पुरुषोऽप्यादिकरः, कर्मपरिणामयोग्यपुद्गलान् कर्मत्वेन परिणमयति तस्मात्तेषां प्रयोक्तृत्वात् योयस्य प्रयोक्ता स तस्य कर्तेत्यादिकरः स इति भावः । तत्र हेतुमाह-तथाविधेति, बन्धनयोग्यपरिणामापन्नपुद्गलद्रव्यग्रहणपरिणतिकृतप्रयोगपरिणामापत्तेः पुरुषस्येत्यर्थः, कर्मयोग्या इति के कर्मयोग्याः पुद्गला इत्याशङ्कायां ते अधुनोच्यन्त इत्यर्थः । समानेति, सजातीयानां पुद्गलानामयमेको वर्गोऽयमपरो वर्ग इत्येवं निरूपणात्मिकया बुद्ध्या तीर्थकरेण व्यवस्थापितानां पुद्गलानां समूहो वर्गणा । कुचिकर्णकेति । भरतक्षेत्रेऽस्मिन् प्रभूतगोमण्डलाधिपतिः कुन्चिकर्णको नाम कश्चिद्गृहपति30 रासीत् , स तासां गवामतिबहुत्वात् सहस्रादिसंख्यापरिमितानां पृथक पृथक् अनुपालनार्थ प्रभूतान् गोपालांश्चके, ते तासु पर स्परं मिलितासु गोष्वात्मीया आत्मीयाः सम्यगजानन्तः सन्तो नित्यं कलहमकार्षः, तांश्च तथाऽन्योन्यं विवदमानानुपलभ्यासौ तेषामसंमोहाथ कलहव्यवच्छित्तये कृष्णशुक्लरक्तकर्बुरादिमेदभिन्नानां गवां प्रतिगोपालं सजातीयगोसमुदायरूपा भिन्ना भिन्ना वर्गणा व्यवस्थापितवान् तथा गोमण्डलप्रभुकल्पस्तीर्थकरो गोपतुल्येभ्यः खशिष्येभ्यो गोसमूहसमानं पुद्गलास्तिकायं तदसंमोहाथ परमाण्वादिवर्गणादिविभागेन निरूपितवानिति दृष्टान्तदार्शन्तिको विज्ञेयौ । ता एव वर्गणा आह-परमाणुवर्गणेति, १ सि. क. अग्रहणवर्गणा इत्यधिक दृश्यते । wwwrom Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002585
Book TitleDvadasharnaychakram Part 2
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1951
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy