________________
wmAnamnaramwwam
मोहेरादिकरता] न्यायागमानुसारिणीव्याख्यासमैतम् जनपरमार्थत्वाद्भवितृत्वस्य, यः प्रयोजयति परमार्थतः स कर्चा भविता, भूकृयोः सर्वधात्वर्थत्वात् , न प्रयोज्य इत्यस्मात् कारणात् य आदिकरः स कर्ता यश्च कर्ता स भवति, भूकबोः सर्वधात्वर्थव्यापित्वात् , एतदुक्तं भवति यतः प्रकारान्तरेणाभिव्यञ्जयन्नवान्तरस्यादिकरत्वाद्भवति वस्तु तत एवैकैकस्य सर्वत्वं सर्वस्यैकत्वं परस्परापेक्षाभिव्यञ्जनेनादिकरत्वादिति ।
अस्मिंश्चार्थे व्यापकं दृष्टान्तमाह स्फुटीकरणार्थम्
आदिकरत्वञ्च यथा वीही सम्भाव्यते, अत्रीहेमंदादेवीहित्वेनादिकरत्वात् , तथा प्रागप्यादिकरत्वं तथा पश्चादपि, तदादित्वाद्वीहेस्तेषामादिकरत्वं तथाभिव्यक्तेः तत्प्रयुक्तत्वाच, ते ह्यस्य प्रयोक्तारः।
आदिकरत्वञ्च यथा ब्रीहौ सम्भाव्यत इति, तद्व्याख्या-अत्रीहेम॒दादे/हित्वेनादिकरत्वादिति-मृत्सलिलवाताकाशानामवीहीणां ब्रीहिप्रकारेणाभिव्यक्किं कुर्वन् व्रीहिरादिकरः, एतमर्थ 10 हेतुत्वेन व्यापारयति सिद्धं कृत्वा पञ्चम्या-'ब्रीहित्वेनादिकरत्वादिति, तथा प्रागित्यादि-एवञ्च कृत्वा व्रीहित्वात् प्रागपि पृथिव्याधाकाशान्तानामप्यादिकरत्वं पश्चादपि, तेन प्रकारेण तथा, ब्रीहिवदेव तदादित्वाद्रीहेः, ते आदिः पृथिव्यादिः यस्य बीहेः प्राक् पश्चाचेति, तेषामादिकरत्वं, तेन प्रकारेणाभिव्यक्तः, किश्चान्यत्-तत्प्रयुक्तत्वाद्रीहेः, ते ह्यस्य प्रयोक्तारः, यो यस्त्र प्रयोक्ता स तस्य कर्ता, यथा ऽऽदित्योदयादित्ववदित्युक्तम् ।
16 आह
तत्प्रयुक्तो ब्रीहिः, पृथिव्यायेव न भूतो व्रीहिः, आदिकरत्वादादित्योदयादित्वषदित्यरोच्यते को वा ब्रवीति पृथिवी न भूतः, उदकादिश्च ब्रीहिरिति तत्प्रयुक्तत्वाद्रीह्यादि वा पृथिव्यादि न भूतमिति, तत्प्रयुक्तत्वाद्रीहिरपि पृथिव्यबाद्याकाशादि भवति पृथिव्युदकबाय्याकाशाद्यपि च ब्रीहिमाषाघजम्ब्वादि भवति, तत्कृताहारोऽपि पृथिव्यादि ब्रीह्यादि, 30 पृथिव्याद्यपि तत्कृताहार इतश्चेतश्चेति सर्वस्यैकैकस्य तदात्मकत्वात्तत्तदेव ।।
प्रकाराणां प्रकाशनादादिकराणि, तेषां तथाभवनात्, वस्तुमात्रस्य परस्परापेक्षया प्रकाराणामभिव्यजनादेकैकस्य सर्वत्वं सर्वस्य चैकत्वमिति भावः। एतदेव दृष्टान्तेन भावयति-आदिकरत्वञ्चति अत्रीह्यात्मकानां मृजलवाय्वाकाशानां व्रीहित्वेनादिकरत्वात् ब्रीहिरादिकरः, तेषां सद्भावे हि ब्रीहिर्भवतीति भावः । ब्रीहिरादौ वर्तते स च भूम्यादीन् ब्रीहित्वेनाभिव्यलयतीति बीहे प्रथमसद्भावमसिद्धं सिद्धत्वेन हेतूकृतं व्रीहेरादिकरत्वे इत्याह-एतमर्थमिति । पृथिव्यादयोऽपि ब्रीहिवदेवाऽऽदिकराः, तेन 25 प्रकारेणाभिव्यक्तेरिति व्रीहेः पूर्वापरभूतपृथिव्यादीनामादिकरत्वं प्रकाशयति-तथा प्राणित्यादीति । तेनेति व्रीहिप्रकारेणाभिव्यक्तेरिति भावः । हेत्वन्तरमाह-तत्प्रयुतत्वादिति भूम्यादिभिः प्रयुक्तो व्रीहिः, यश्च प्रयोक्ता स कर्तेति भूम्यादय आदिकरा इति भावः । ननु पृथिव्यादयो ब्रीहेः प्रयोक्तारो भवन्तु नाम किन्तु तत्प्रयुक्तत्वात् मादित्योदयादित्ववदादिकरत्वात् पृथिव्यादिरेव ग्रीहिर्भवतीति न ब्रूम इत्याशङ्कते-तत्प्रयुक्तो वीहिरिति । अथवा तत्प्रयुक्तत्वादादित्योदयादित्ववत् आदिकरत्वं पृथिव्याहीनां भवतु नाम, किन्तु पृथिव्यादिरेव व्रीहिर्भूत इति तु न, न स्यादित्य उदयमध्याहादिदिवसविभागरूपो भवतीलाह-30
१ सि. क. व्रीहित्वेनादिति । २ सि.क. यावेहेः ।
द्वा० न० २० (५८) Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org