SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ द्वादशारनयचक्रम् [ विधिनियमारे दिभिर्धर्माधर्ममर्यादापालनार्थं विनियुज्यमानैर्वेति, अथ मन्यसे तैर्विना शक्तिर्व्याहन्यते तस्येश्वरस्य ततस्तर्ह्यस्य व्याहतशक्तित्वात् त्वेवमनीश्वरता, कार्यान्तरासक्तेः श्रमाद्वा इतरवदिति, पृथग्जनवदित्यर्थः । . ननु प्रधानोपसर्जनद्वैतमुद्राह्य तदर्थसंवादेनोपसर्जनेन विनापि प्रधानस्य प्रवृत्तिसद्भा - वात् चित्राचार्यस्येव शिष्येण विनापि सर्गादौ तथाऽदृष्टाद्यभावेऽपि प्राधान्यात्, भाव्यत्वादिति 5 चेन्न, आदिकरस्य कर्तृत्वात्, अव्यज्यमानप्रकारव्यक्तिरादिः, आदानात्, आदित्योदयदित्ववत्, तत्प्रयोजनपरमार्थत्वाद्भवितृत्वस्य यः प्रयोजयति परमार्थतः स कर्त्ता भविता न प्रयोज्यो भूकृञः सर्वधात्वर्थत्वात् । ४५६ ननु प्रधानोपसर्जनेत्यादि यावत्तथाऽदृष्टाद्यभावेऽपीश्वरस्येति, आह द्वैतमेवोद्भाहितं भावितं प्रत्युपसंहृतञ्च नान्यथोद्ग्राहभावनोपसंहाराः, कथं ? प्रधानमुपसर्जनश्च द्वैतं प्रतिज्ञातं, तस्यैवार्थस्य संवा10 देनेश्वरः प्रधानं न कर्मेत्येतद्भावनार्थं सर्गस्यादौ स्वशक्तितः स एव साक्षाद्वेयाप्रियत इत्युच्यते, कस्मात् ? उपसर्जनेन विनापि प्रधानस्य प्रवृत्तिसद्भावात्, चित्राचार्यस्येव शिष्येण विनापीति, यथा शिष्यमप्रधानं ग्राहयित्वा चित्रकर्म ग्राहयित्वा वा प्रधानोऽयं तेन विना सह वा चित्रकर्मणि चित्राचार्यः प्रवर्त्तते, एवं स्वप्राधान्यात् सान्निध्यासान्निध्ययोरपि शिष्यस्य प्रवर्त्तकत्वात्, एवमीश्वरोऽप्यदृष्टादिसान्निध्या सान्निध्ययोः प्रवर्त्तते प्रधानत्वादिति भाव्यत्वादिति भाव्यत्वादुग्राहि तद्वैतानुरूपभावनोपसंहारात्मकत्वान्न कश्चिद्दोषः 15 इत्येतच्च न, आदिकरस्य कर्तृत्वात् आदिकरोत्यादिकरः, स एव च कर्त्ता, तस्यैव कर्तृत्वात्, कोऽसावादिरिति चेदुच्यते अव्यज्यमानप्रकारव्यक्तिरादिः स्वत एवात्तस्याव्यक्तस्य केनचित् प्रकारेण व्यक्तिरादिः, कुतः ? आदानात् आदानमादिरित्यक्षरार्थनिरुक्तिमाह, हेतौ दृष्टान्तश्च आदित्योदयादित्ववदिति यथाऽऽदित्यस्योदयमध्याह्नास्तमयत्वप्रकारेण दिवसादिविभागानां विद्यमानानां व्यक्तिरेवम्, तत्र प्रयो www प्रसारात् प्रतिरुद्धशक्तित्वेनानीश्वर एव स्यादित्याह - अथ मन्यस इति । तत्र दृष्टान्तं दर्शयति- कार्यान्तरास केरिति अपर कार्य 20 व्यासङ्गात् श्रमाद्वा सामान्यः कश्चित् कर्मकरस्तदानीं प्रकृतं कार्यं प्रति यथाऽनीश्वरो भवति तद्वदिति भावः । अथ कर्म उपसर्जनंप्रधानमीश्वर इति वस्तुद्वयमुद्राह्येश्वरस्य प्राधान्यभावनायाऽऽदौ खशक्तित इत्याद्युपदर्शितम्, प्रधानं हि उपसर्जनं सदसदपि कार्य कर्तुमुत्सहते अन्यथा प्रधानाप्रधानभेदासम्भवात् । यथोपसर्जनभूत शिष्यव्यतिरेकेणापि चित्राचार्यश्चित्रे प्रवर्त्तत इत्याशङ्कते - ननु प्रधानेति, उपक्रम भावनोपसंहाराणां न वैषम्यमित्यादर्शयति- द्वैतमेवेति । स एव स्वशक्तित इति नाद्वैतं भावितमपि तु प्रधानतैवेश्वरस्य भावितेत्याह- तस्यैवार्थस्येति प्रतिज्ञातार्थस्येत्यर्थः । इति भाव्यत्वादिति उग्राहितार्थभावनानुरूपमुपसंहारा25 दित्यर्थः । तेन न द्वैतस्याद्वैतस्य वा त्याग इति भावः । य एवादौ करोति स एव कर्त्ता कर्मनिरपेक्षः सर्गादौ यदि करोति तर्हि स एव कर्त्ता स्यादित्युत्तरयति - आदिकरस्येति । आदिपदार्थमनभिव्यक्तप्रकारव्यक्तिरूपं दर्शयति अव्यज्यमानेति । आदिशब्दव्युत्पत्तिमाह- आदानमिति उपादानं प्रकारस्येति भावः । दृष्टान्तमाह - आदित्येति उदयादीनामादित्य आदिकरोऽत एव तत्कर्त्ताऽसाविति भावः । यश्च वस्तुतः प्रयोजयति स एव कर्त्ता भविता च प्रयोजनक्रियायाः विशेष क्रियात्वात्, भूकृञोव्य सामान्यक्रियात्वात् सामान्यव्यतिरेकेण विशेषस्याभावात् भूकृञोः सर्वधात्वर्थव्यापित्वं तथा च यद्यसौ प्रयोजयिता तर्ह्यवश्य मसौ 30 कर्त्ता भविता चेत्याह-तत्रेति । एवञ्च सर्वेषामादिकरत्वमित्याह - एतदुक्तं भवतीति सर्वाणि वस्तूनि स्वस्मिन्नन्तर्हितानां १ सि. क. वृष्ट्याद्यभावे० । २ सि. स्याद्व्याप्रि० । ३ सि. के. विनाशीति । प्रवर्त्तित: । ६ क. 'हिता द्वैतानु० । ७ सि. क. हेतुदृष्टान्तंवादित्यो० । Jain Education International 2010_04 For Private & Personal Use Only ४ सि. क. प्राणेयं । ५ सि. क. www.jainelibrary.org
SR No.002585
Book TitleDvadasharnaychakram Part 2
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1951
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy