________________
४५५
वैतत्यागः] न्यायागमानुसारिणीव्याख्यासमेतम् धर्माधर्ममर्यादावचनस्यानर्थकत्वात् , यदुक्तं प्रतिबुद्धानां प्राणिनां धर्माधर्ममर्यादामुपदिश्योत्तरकालं स्वमर्यादानुष्ठानानुरूप्येणेत्यादि तत्सर्वमनर्थकम् , सदैवेश्वरशक्तिमात्रवशादेव यथा तथा सुखस्य दुःखस्य वा यस्य कस्यचित् सिद्धर्धर्माधर्माकारणत्वादाद्यन्तवत्तन्मर्यादावचनमनर्थकमिति ।
अथ त्वित्यादि स्यान्मतं तस्यैव-ईश्वरस्य रुचेरेव-इच्छातः सुखं दुःखं वा न धारणधान- 5 प्रवृत्त्यात्मकत्वात् धर्मस्य अतस्य वा कस्यचिदिति, अत्रोच्यते धर्माधर्ममर्यादावचनमनर्थकम् । यदुक्तं प्रतिबुद्धानां प्राणिनां धर्माधर्ममर्यादामुपदिश्योत्तरकालं स्वमर्यादानुष्ठानुरूप्येणेत्यादि तत्सर्वमनर्थकं संवत्तम्, तत्साधनार्थं हेतुमाह सदृष्टान्तं-सदैवेत्यादि यावद्यस्य कस्यचित् सिद्धराद्यन्तवदिति, सर्गस्यादौ मध्येऽवसाने च सदैव-सर्वकालमीश्वरशक्तिमात्रवशादेवान्यस्य कारणस्याभावेऽपि यथा तथा-येन वा तेन प्रकारेण सुखस्य दुःखस्य वेष्टानिष्टशरीरादेरनियमेन यस्य कस्यचित्-मारकस्य हिंसकस्य वा सिद्धे- 10 धर्माधर्माकारणत्वम् , तदकारणत्वादाद्यन्तवत्-प्रथमावसानकालयोरिव तन्मर्यादावचनमनर्थकमिति, एवं तावदद्वैतत्यागः।
न केवलमद्वैतत्याग एव किं तर्हि
तथा द्वैतमपि त्यक्तम् , साक्षाद्व्यापारवचनात् तद्व्यावृत्तेस्तस्य सर्वथा सर्वदा सर्वत्र वार्डव्याहतवृत्तित्वात् किं धर्मादिना ? किं स्थानविग्रहेन्द्रियविषयैः प्राणिभिर्वा ? किमाधिकारिकैः, १ 15 अथ मन्यसे तैर्विना शक्तिया॑हन्यते तस्य तस्य व्याहतशक्तित्वात्तु अनीश्वरता कार्यान्तरासक्तः श्रमाद्वा, इतरवत् ।
(तथेति)तथा द्वैतमपि त्यक्तम् , कुतः ? साक्षाद्व्यापारवचनादित्यादि यावत् किमाधिकारिकैरिति, साक्षाद्व्यापारो दैश्वर्यम् , तद्व्याचष्टे तस्मात्तद्व्यावृत्तेस्तस्य सर्वैः प्रकारैः सर्वकालं सर्वदेशे वाऽव्याहता वृत्तिरस्य, अतस्तव्याहतवृत्तित्वात् किं धर्मादिना ? आदिग्रहणादधर्मेण, किं स्थानविग्रहेन्द्रियविषयैर्वा? 20 प्राणिनां सुखदुःखाश्रयैः, प्राणिभिर्वा किं क्रियते न किंचिदित्यभिप्रायः किमधिकारिकैः ? ब्रह्ममनुविष्ण्वा
व्यर्थः, सर्वत्राद्यन्तकालवदीश्वरेच्छावशादेव धर्माधर्मयोः सुखदुःखकारणयोरभावेऽपीष्टानिष्टशरीरेन्द्रियादेर्धार्मिकस्याधार्मिकस्य वा प्रसङ्गेन धर्माधर्मयोरानर्थक्यादित्याह-यदुक्तमिति स्पष्टमन्यत् । सिद्धेरिति मारकस्य हिंसकस्य वा यथा तथा मध्यकालेऽपि सुखस्य दुःखस्य वेश्वरशक्तिमात्रवशादेवाद्यन्तकालवत्सिद्धेर्धर्माधर्मयोरकारणत्वात्तन्मर्यादावचनमनर्थकमिति भावः । अथ खरुचित एवेश्वरप्रवृत्तौ प्रतिज्ञातं द्वैतमपि त्यक्तमित्याह-तथेति, धर्माधर्ममर्यादायाः स्वकीयैश्वर्यविघातकत्वेन तत्त्यागात् 23 द्वैतत्याग इति भावः । साक्षाद्यापारवचनादिति, आदौ स्वशक्तित एवेति वचनात् खतो व्यतिरिक्तानां कारणानां प्रयोजनस्य च निरासेन साक्षात्तस्यैव व्यापाराभ्युपगमाद्वैतत्यागः, 'सर्वज्ञता तृप्तिरनादिबोधः स्वतंत्रता नित्यमलप्तशक्तिः। अनन्तशक्तिश्च विभोविधिज्ञाः षडाहुरङ्गानि महेश्वरस्य' ॥ इतीश्वरस्याप्रतिहतशक्तिमत्त्वमेवैश्वर्यमित्यभ्युपगमात् धर्मादिव्यवस्थापनस्य वैयर्थ्यमित्याह-तस्मादिति, तझ्यावृत्तेः धर्मादिव्यावृतेः ईश्वरप्रवृत्तेरव्याहतत्वेन धर्मादिना तजन्यसुखाद्याश्रयस्थानविग्रहादिना प्राणिभिराधिकारिकपुरुषैर्वा किं प्रयोजनमिति भावः । यदीश्वरो धर्मादीनपेक्षते तर्हि तव्यतिरेकेण तच्छतेर- 30
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org