________________
wwww
10
४५४ द्वादशारनयचक्रम्
[विधिनियमारे त्वात्, सुखदुःखे तदा नियतविषये तस्मात्तदापि स्याताम् , मध्यकालवत्-सृष्ट्युत्तरकालवदित्यर्थः, तद्विपर्ययेण वा साधनम्-मध्ये वा न स्याताम्-सुखदुःखे नियतविषयत्वादिति वर्तते, अन्तवदिति ।
__ अथोच्येत अत एव न सुखादिप्रवर्त्तनात्मिका धर्माधर्ममर्यादा, ईश्वरस्यैव सुखदुःखयोः प्रवर्तकत्वात् , यदि सा न प्रवर्त्तयति किमर्थमसौ तां व्यवस्थापयतीति चेदुच्यते, अयं 5 धर्मोऽयमधर्म इत्येतावदुपदेशेन स्वरूपसंज्ञाव्यवस्थापनमसौ करोतीति ।
__ अथोच्यतेत्यादि, यावद्धर्मोऽयमिति, स्यान्मतमत एवेश्वरस्यैव कारणत्वान्न सुखादिप्रवर्त्तनात्मिका धर्माधर्ममर्यादा-तत्प्रवर्तनासमथैत्यर्थः, ईश्वरस्यैव सुखदुःखयोः प्रवर्तकत्वात् , यदि सा न प्रवर्तयति सुखदुःखे धर्माधर्ममर्यादा किमर्थमसौ तां व्यवस्थापयतीति चेदुच्यते स्वरूपसंज्ञाव्यवस्थापनमसौ तयोर्लोकव्यवहारार्थ करोतीत्यत आह-किं तर्हि अयं धर्मोऽयमधर्म इत्येतावदुपदेशेन।
अत्राचार्य उत्तरमाह
एतदपि तुल्यं पूर्वेण, असत्त्वात्, धारणाद्धानाद्वा धर्म इति निरुक्तेः, एतस्यार्थस्याभावे कथमसौ धर्म उच्यते तद्विपर्ययो वा कथमधर्म इति, धर्माधर्माविष्येते सुखदुःखकारणे ह्यव्यभिचरिते, तस्मादयुक्तं संज्ञाकरणमात्रेण मर्यादेति ।
(एतदपीति) एतदपि तुल्यं पूर्वेणासत्त्वात् सर्गादावन्तवन्न स्यातामनियतविषयत्वादन्ते च 18 स्याताम् , नियतविषयत्वाद्वा मध्यवत् , मध्ये वा न स्यातामन्तवदिति, इदमेव दोषजालं प्राप्तम् , किं कारणं ? धारणाद्धानाद्वा धर्म इति निरुक्तेः, यदि मर्यादां धारयति प्राणिनाम् , सुखे चैनां धत्ते ततो धर्म इति, एतस्यार्थस्याभावे कथमसौ धर्म उच्यते तद्विपर्ययो वा कथमधर्म इति तद्विपरीतार्थाभावे, तस्मात् सुखस्थानादिधारणाद्धर्मः सुखकारणं हव्यभिचरितमिष्यते, यस्याभावे यस्याभावो यस्य च
भावे यस्य ध्रुवोऽभावस्तत्कारणमितरत् कार्यमिति कारणस्य धर्मस्य कार्यस्य सुखस्याव्यभिचारात्, 20 एवमधर्मेऽपि व्याख्या विपरीतार्था कार्या, तस्मादयुक्तं संज्ञाकरणमात्रेण मर्यादेति ।
अथ तु तस्यैव रुचेः सुखं दुःखञ्च, न धारणधानप्रवृत्त्यात्मकत्वाद्धर्मस्यातस्य वा, उच्यते सुखदुःखे प्रवर्तयति येनाद्यन्तकालयोस्तत्प्रसङ्गः स्यात् किन्त्वीश्वर एव प्रवर्तकस्तयोः, धर्माधर्मखरूपसंज्ञाव्यवस्थापनमेव धर्माधर्ममर्यादाव्यवस्थापनमित्याशयेन शङ्कते-अथोच्येतेति, धर्माधर्मों न प्रयोजको, कार्यत्वात् , तयोरपीश्वराधीनोत्पत्तितया तत्परतंत्र
त्वात् , स्वतंत्रस्य च प्रयोजकत्वात् , तस्मादीश्वर एव प्रवर्तक इति भावः। न सुखादीति, धर्माधर्ममर्यादा सुखदुःखयोः प्रवर्त्तने न 25 समर्थेत्यर्थः। धर्माधर्ममर्यादावैयर्थ्यमाशङ्कते-यदि सेति। धर्माधर्मयोरिमे खरूपे, एतत्खरूपयोधर्म इत्यधर्म इति च संज्ञेति व्यवस्थापनाय मर्यादोपदेश इत्युत्तरयति-स्वरूपसंज्ञेति । पूर्वोदितदोषाविनिर्मोक्षोऽत्रापि कल्प इत्याशयेनोत्तरयति-एतदपीति। असत्त्वमेव व्यावृणोति-सर्गादाविति, धारणादिति, दुर्गति प्रसृतान् जन्तून् यस्माद्धारयते पुनः। धत्ते चैतान् शुभे स्थाने तस्माद्धर्म इति स्मृतः ॥ इति कारिकाऽत्र बोध्या । एतद्विपरीतलक्षणोऽधर्मः सुखस्थानादिधारणात् सुखस्याव्यभिचरितं कारणं
धर्मः धर्मस्याव्यभिचरितं कार्य सुखं दुर्गतेरव्यभिचारिकारणमधर्मः अधर्मस्याव्यभिचरितं कार्य दुर्गतिः, तदेवं रूपमर्यादाया अकरणे 30 सुखदुःखयोः संज्ञाकरणमात्रेण न धर्माधर्ममर्यादाव्यवस्थापनं भवतीति भावः । अथ केवलमीश्वरेच्छयैव सुखदुःखयोर्भावे न धर्माधर्ममर्यादावचनेन किञ्चित्फलमस्तीति शंकित्वा समाधत्ते-अथ त्विति, अतस्य अधर्मस्य । किञ्च धर्माधर्ममर्यादाया उपदेशोऽपि
१ सि. क. तत्समर्थना० । २ सि. क. किमर्मधर्मसी० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org