________________
AM
अद्वैतत्यागः] . न्यायागमामुसारिणीव्याख्यासमेतम्
४५३ तमेव भाव्यते भवता, पुनरयाह-एवं नियमनायेति-अद्वैतनियमनायेयमपि भावना, कतमा सा भावनेति चेत्तदनुध्यानात् पुण्यमुत्पाद्येत्येषाप्यद्वैतभावनैवेति, एवं तावत् प्रतिज्ञातं द्वैतमद्वैतं भावितमित्युक्तम् , प्रत्युपसंह्रियते तु द्वैताद्वैते द्वे अपि त्यक्त्वेति-प्रतिज्ञातभाविते द्वैताद्वैते अपि त्यक्त्वा । ___तत्राद्वैतस्य त्यागस्तावत् धर्माधर्ममर्यादास्थापनवचनेन, मर्यादा नामानतिक्रमस्थानं विषयतस्तु सुखदुःखप्रवृत्तिसीमा, इयति विषये सुखमियति विषये दुःखमिति धर्माधर्मयोः । सीमनि स्वके स्वके व्यवस्थापनम् , ततश्च सर्गादौ स्थानाद्यात्मके अपि न स्याताम् , अनियसविषयत्वात् , प्रलयवत् , अन्ते च स्यातामनियतविषयत्वात् , मध्यकालवत् , अथवा नियतविषयत्वात्तदापि स्याताम् , मध्यकालवत् मध्ये वा न स्यातामन्तवदिति।
(तत्रेति) तत्राद्वैतस्य त्यागस्तावत्-धर्माधर्ममर्यादास्थापनवचनेन, कृत इति वाक्यशेषः, का मर्यादा ? उच्यते-मर्यादा नामानतिक्रमस्थानमिति मर्यादालक्षणमाह विषयतस्तु सुखदुःखप्रवृत्ति-10 सीमा-इयति विषये सुखमियति दुःखमिति धर्माधर्मयोः सीमनि स्वके स्वके व्यवस्थापनम्-धर्मस्य दुःखप्रवृत्ति [व्यव] छेदेनाधर्मस्य सुखप्रवृत्ति व्यवछेदेनायमस्मादन्योऽयमितरस्मादन्य इति सीमाविभागः, ततः किमिति चेत् ततश्च सर्गादौ स्थानादीति-स्थानविग्रहेन्द्रियविषयाः स्थानादयः तदात्मके सुखदुःखे अपि न स्याताम् , कस्मात् ? अनियतविषयत्वात्-अनियतौ हि विषयौ तदा, सुखदुःखयोरविद्यमानस्थानादित्वात् , अविद्यमानधर्माधर्मादित्वाच्च, दृष्टान्तः प्रलयवत्-यथा प्रलये 15 [धर्मा]धर्माभावादेवानियतविषये सुखदुःखे ततश्चासती, तद्वत् सर्गादावपि स्यातामिति । किश्चान्यत्अन्ते च स्याताम् , सुखदुःखे इति वर्त्तते, कुतः ? अनियतविषयत्वातू-विषयानियमोऽपि रूपादिपञ्चकत्वाद्यभावादुपसंहरणकाले, मध्यकालवत् , अथवा नियतविषयत्वात्-व्यवस्थापितधर्माधर्ममर्याद
wwwwwwwwwww
अनुध्यानशब्देनापि प्राणिगणस्य पूर्वसृष्टिकालीनधर्माधर्मानुचिन्तनस्योक्तत्वादद्वैतमेव भावितमित्याह-एवं नियमनायेति सृष्टिवैचित्र्यनियमनाय पूर्वसृष्टिसम्बन्धिधर्माधर्मानुचिन्तनप्रतिपादनादिदानी ईश्वरस्यासहायत्वमावेदितमिति भावः । पूर्व 20 यस्य यादृशं पुण्यं पापं वाऽऽसीत्तथैवेदानीमप्युत्पाद्य इत्याभिप्रायेणाह-पुण्यमुत्पाद्येति । प्रत्युपसंहियत इति, अन्ते चेत्यादिना ग्रन्थेनेति शेषः । अथ भावितस्याद्वैतस्य त्यागं दर्शयति-तत्राद्वैतस्येति, इयत्तानियमो हि मर्यादा, अस्येयन्मानं स्थानं नातोऽन्यत्रास्य स्थितिरित्यनतिक्रमस्थानं मर्यादेत्याशयेनाह-का मर्यादेति, इयं स्थान विप्रहेन्द्रियाणां बोध्या। विषयमर्यादामाह-विषयतस्त्विति । खके खके व्यवस्थापन मिति व्याकरोति-धर्मस्येति धर्मे दुःखार्थिप्रवृत्तिव्यवच्छेदेनाधर्मे च सुखार्थिप्रवृत्तिव्यवच्छेदेन तयोः परस्परं पार्थक्येन व्यवस्थापनमित्यर्थः। एवञ्च स्थानविग्रहे-25 द्रियविषयाणां सद्भाव एव व्यवस्थासम्भवात्तस्या अपि सुखदुःखयोः प्रवर्तकत्वादीश्वरस्याद्वैतत्याग इति भावः । ततश्च दोषमाहततश्चेति, सृष्टेः प्रारम्भे स्थानाद्यात्मके सुखदुःखे न स्याताम् , अनियतविषयत्वात् प्रलयकालवत् , सुखदुःखयोहिं विषयः आश्रयः प्रलयकाल इव सर्गादावपि नास्ति, अत एव न सुखदुःखे स्त इति भावः । अनियतत्वे हेतुमाह-सुखदुःखयोरिति स्थानादयो हि सुखदुःखयोराश्रयः, तान् प्राप्यैव जीवन सुखदुःखयोरनुभवनात् । कारणमपि तदानीं नास्ति धर्माधर्मयोरप्यभावाभ्युपगमादित्याह-अविद्यमानेति । अथानियतविषयत्वेऽपि यदि सर्गादौ सुखदुःखे अभ्युपगम्येते तर्हि सर्गान्तकालेऽपि 30 स्यातामित्याह-किश्चान्यदिति, रूपादीति, प्रथमं पञ्चभूतानां पृथिव्यादीनामुपसंहरणात् रूपरसगन्धस्पर्शशब्दानां पञ्चविषयाणामभावादिति भावः । मध्यकाले दृष्टान्ते साध्यस्यैव सत्त्वात्तदनुरूपं हेतुमाह-अथ वेति । ननु धर्माधर्ममर्यादा न
१ सि. क. सुखप्रवृत्ति.।२ सि. क. दुःखप्रवृत्ति०।३ सि. क. स्थानादीत्यादीनि ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org