________________
४५२ बादशारनयचक्रम्
[विधिनियमारे आन्तवदित्यादि उक्तानन्तरदोषाञ्च गतार्थ हेतुहेतुमद्भावप्रतिपादनक्रमेण यावत्तत्प्रसक्ती क्रियाविलोपः, कुतः? ईश्वरप्राधान्यात् , उक्तानन्तरदोषाञ्चेति धर्माधर्मक्रियाः प्राणिनां न स्युः, फलाभावादीश्वरवशादेव आद्यन्तमध्येषु फलसङ्करात्, ततश्च सर्वप्राणिनां निर्मोक्षः-निःशेषमोक्षः तद्वशादेव सर्वानिर्मोक्षो वा प्रसक्त इति । 5 यत्तु सर्वशास्त्रार्थनियमनायादावनुध्यानाद्धर्माधर्माद्यपेक्षः स एव स्वशक्तितो जगत्सर्जनाय ब्याप्रियते ततश्च प्राणिगणं धर्माधर्ममर्यादामुपदिश्य मध्ये तत्परिपालकान् ब्रह्मादीनाधिकारिकान् विनियुङ्क्ते, अन्ते च शरीरेन्द्रियविषयानुपसंहृत्य प्राणिगणं कुशलाशयकलङ्कशुद्धं स्थापयतीति ।
यत्तु सर्वशास्त्रेत्यादि एतदोषपरिहारार्थ कर्माद्युपसर्जनतयेश्वरप्राधान्यकारण्ये प्रोक्ते, कथ10 मिति ? तद्भावयत्युत्तरेण ग्रन्थेन-आदौ स एव स्वशक्तित इत्यादिना यावच्छरीरादिव[त् ] कुशलाश
यकलङ्कशुद्धं स्थापयतीति गतार्थः पूर्वपक्षः, धर्माधर्ममर्यादायाः परिपालकान ब्रह्मादिकानाधिकारिकान विनियुक्त इति[वि] शेषः।
अत्रोत्तरमाहाचार्य:
इदमन्यथैवोद्राह्यते ईश्वरकर्मणोः प्रधानोपसर्जनभावाभ्युपगमाद्वैतम् , भाव्यतेऽन्यथा, 15 स एव शक्तित एवान्यनिरपेक्ष इत्यवधारणादद्वैतार्थभावनात् , एवंनियमनायेयमपि भावना तदनुध्यानात् पुण्यमुत्पाद्येत्येषाऽप्यद्वैतभावनैव, प्रत्युपसंह्रियते तु द्वैताद्वैते द्वे अपि त्यक्त्वा ।
इदमन्यथैवोद्राह्यत इत्यादि, अन्यथा तावत् प्रतिज्ञायते ईश्वरकर्मणोः प्रधानोपसर्जनभावाभ्युपगमाहृतम् , भाव्यते-साध्यहेतुव्याख्यानं क्रियतेऽन्यथा-कथमिति चेत् स एव शक्तित एवा. न्यनिरपेक्ष इत्यवधारणादद्वैतार्थभावनात्-अदृष्टादीनां तच्छक्तीनाश्च स्वतो व्यतिरिक्तानां निरासेन 20 साक्षादेवाप्रयोजनेन कस्यचित् किश्चिदप्यन्यमप्रयोजयता साक्षात् स्वशक्तित एवेत्यवधारयता चाद्वै
iammana
हेतुहेतुमद्भावेनेति । धर्माधर्मक्रियाभावे निरपेक्षेश्वरप्रवृत्तिहेतुः फलाभावो वा, फलाभावे हेतुरीश्वरवशात् फलसङ्करः, निर्मोक्षानिर्मोक्षयोः प्रसङ्गे धर्माधर्मक्रियाभावः ईश्वरवशादेव फलसङ्करो वा हेतुरित्येवं भाव्यम् । ननु क्रियाविलोपो नास्ति, जीवस्यैव धर्माधर्मयोः कर्तृत्वात् , सुखादिकं हि फलं तेनैवानुभूयते, न च भोक्तुरन्यस्य कर्तृत्वं युज्यते,
तस्मात् स एव कर्ता, अन्यथा सर्वाणि शास्त्राण्यर्थवन्ति न भवेयः, न हि तस्याकर्तत्वे यजेत जुयात् दद्यादित्येवंविधानि 25 शास्त्राणि उपपद्येरन् , ईश्वरस्तु पूर्वपूर्वजन्तुकर्मापेक्षया प्राणिनो धर्माधर्मयोः प्रवर्तयति, न तु प्रबलतरपवन इव प्रवर्तयति, तस्मात् कर्मापेक्षयैवेश्वरस्य प्रधानकारणत्वमिति पूर्वपक्षाशयो भाति, अत एवोक्तम्-एतद्दोषपरिहारार्थमित्यादि । आदौ स एव खशक्तित एवेत्यादिमूलमत्र सुतरामव्यक्तमिति विज्ञेयम् । सर्वशास्त्रार्थवत्त्वायेत्यादिना कर्मापेक्षेश्वरप्रवृत्तिः प्रतिज्ञाता, आदौ स एवेत्यादिना तु अद्वैतमेव भावितम् , उपसंहियते च प्राणिगणं कुशलाशयकलक्कशुद्धं स्थापयतीति तस्मात् प्रतिज्ञाभावनोपसंहाराः परस्परविरुद्धार्थी इत्याह-इदमन्यथैवेति प्राणिगणस्य धर्माधर्मापेक्षया जगत्सर्जनोक्त्या द्वैतं प्रतिज्ञातम् , स एव 30 खशकित इत्यादिना त्वद्वैतं भावितमित्यन्यथोराह इत्याह-अन्यथा तावदिति। अद्वैतभावनैव प्रदर्शयति-अदृष्टादीनामिति,
...सि.क. सायेवेत्यादि । २ सि. क. प्रोक्त इति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org