________________
अनुग्रहासम्भवः] न्यायागमानुसारिणीव्याख्यासमेतम् धर्ममर्यादां प्रणयामि, तत्र प्रवर्त्तयामि, तत्फलैरनुबध्नामि, तान् प्राणिनः फलानुरूपमिष्टमनिष्टं वोपभोगं विद्या[च]अनुगृह्णामि, एवमादिकयाऽनुग्रहक्रियया क्लिश्यमानस्यानेकपुरुषस्त्रीनपुंसकजनसाधारणस्येव भृतकस्यापि क्लेशः, इतिः हेत्वर्थे, तस्मादतिक्लेशत्वादत्यन्तपरवशत्वमेवैश्वर्यं शीतलिकापर्यायशब्दाभिधेयं तावदुच्यत इति ।
किश्चान्यत्
अनुग्रहोऽपि विपर्ययेणोच्यते दुःखहेतुदुःखात्मकाभ्यामिष्टानिष्टोपभोगस्य, विषकृतभोजनक्लेशनवत् , यच्चोक्तं दुःखमपि तदृणमोक्षणवदनुग्रह एवेत्येतदप्ययुक्तम्, संसारमोचकव्याधचण्डालादिमारितसत्त्वानुग्रहप्रसङ्गात्, सत्त्वनिकायकलिकलुषकृतात्मोपनिपातेनाऽऽज्ञाबाघे सत्त्वानुग्रहवदज्ञानप्रसङ्गाच्च, तत्सायुज्यगमनेऽप्येवम् ।
(अनुग्रहोऽपीति) अनुग्रहोऽपि विपर्ययेणोच्यते-अननुग्रह एव सन्ननुग्रह इति, किं कारणं १० दुःखहेतुदुःखात्मकाभ्यां दुःखहेतुत्वादिष्टोपभोगस्य हिंसाद्यात्मनोऽर्जनरक्षणक्षयसङ्गदोषे दुःखात्मकत्वाच्च, अनिष्टोपभोगस्य दुःखात्मकत्वाचाननुग्रह एवासौ, दृष्टान्त:-विषकृतभोजनक्लेशनवत्, यथा कश्चित् क्रूरमूर्खनृपतिः स्ववशान भृत्यान् विषमिश्रमाहारं भोजयन्ननुगृह्णामि व इति ब्रूयात्तथा स्वदमिमतेश्वरोऽपीति । यच्चोक्तं दुःखमपि तदृणमोक्षणवदनुग्रह एवेत्येतदप्ययुक्तम् , संसारमोचकव्याधचाण्डालादिमारितसत्त्वानुग्रहप्रसङ्गात् , सत्त्वनिकायकलिकलुषकृतात्मोपनिपातनेनाऽऽज्ञाबाधे सत्त्वानुग्रह-15 वदज्ञानप्रसङ्गाच । तत्सायुज्यगमनेऽप्येवम् , ईश्वरेण किल सायुज्यं मोक्षः, स्वात्मना सायुज्यं गमयन्नप्यसौ प्राणिगणमतिक्लेशभाजनमेव करोति, क्लिष्टसंसारक्लिष्टेश्वरत्वस्योक्तलक्षणस्यामोक्षशब्दाभिधेयत्वात्, अलमैश्वर्येण मोक्षेण च तादृशा सदा सर्वपुरुषव्यापारोद्वहनाऽऽयासात्मना, तद्वरमात्माधीनयथेष्टचेष्टं दौर्गत्यमपीति ।
एवञ्च तद्यत्त्वाशङ्कयते त्वयाऽऽद्यन्तवदित्यादिना ग्रन्थेन विनेश्वरेण किलैते दोषा इतीष्टास्ते 20 सहापीश्वरेण तथैव भवन्तीति तदर्शयन्नाह
आद्यन्तवन्मध्येऽपि धर्माधर्मक्रियाः प्राणिनां न स्युः, फलाभावात् , ईश्वरवशादेवाऽऽधन्तमध्येषु फलसङ्करात् , ततश्च सर्वप्राणिनां निर्मोक्षः सर्वानिर्मोक्षो वा प्रसक्तः, तत्प्रसक्तौ क्रियाविलोपः, ईश्वरप्राधान्यात् ।
रूपतया तदर्जनादावतिक्लेशसम्भवेन च दुःखहेतुत्वम् , अनिष्टोपभोगश्च साक्षाद्दुःखरूप एव, तथाविधोपभोगप्रदातुरनुग्रहः 25 कथं स्यात् , वस्तुतोऽननुग्रह एवेत्याशयेनाह-अनुग्रहोऽपीति धनाद्यर्जनादौ हिंसादिसम्भवेन तदुपभोगो दुःखहेतुः, अर्जितस्यापि रक्षणे दुःखं रक्षितमपि क्षयित्वाद्दुःखमितीष्टोपभोगो दुःखहेतुर्दुःखात्मकश्चत्याह-दुःखहेत्विति । अनिष्टोपभोगस्तु दुःखरूप एवेत्याह-अनिष्टेति । ऋणमोचनवदुःखप्रदाने योऽनुग्रह उक्तः सोऽपि न युक्त इत्याह-यञ्चोक्तमिति । स्पष्टमन्यत् । आद्यन्तवदिति सृष्टेरादौ प्रलयकाले चेश्वरस्य यथा निरपेक्षा प्रवृत्तिस्तथा मध्यकालेऽपि निरपेक्षप्रवृत्तिप्रसङ्गेन प्राणिनां धर्माधर्मक्रिया न स्युः प्रयोजनाभावात् , ईश्वरवशादेवाद्यन्तमध्येषु फलप्राप्तिसम्भवात् , ततश्च सर्वप्राणिनां निर्मोक्षः प्रसज्यते, 30 ईश्वरवशादेव, अथवा कदापि कस्यापि मोक्षो न स्यादेव, यतो हि धर्माधर्मयोरनिमित्तत्वाम् , सर्वत्रेश्वरस्यैव प्राधान्यादिति ।
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org