________________
४५०
द्वादशारनयचक्रम्
[विधिनियमारे चाकांक्ष्यते तस्य सर्वज्ञत्वं सर्वकारित्वात्, करणस्य ज्ञानाभावात् सर्वश्चेत् करोत्यवश्यं सर्वमसौ वेत्तीति सर्वकारित्वात् सर्वज्ञ इति तदपि नैवोपपद्यते, अस्यानर्थकार्थप्रवृत्तत्वात् बालादिप्रवृत्तिवत् अज्ञक्रियासाधादज्ञोऽसौ, बालादिवदसमीक्षितप्रवृत्तित्वादित्येतदनया कल्पनयाऽस्माकं त्वया प्रत्यक्षीक्रियते, किं कारणं ? धर्माधर्ममर्यादोपदेशप्रवृत्तेरनर्थकार्थविषयत्वात्-अनर्थको धर्माधर्मावौँ ह्यस्य 5 धर्माधर्ममर्यादोपदेशस्य, न च तयोर्धर्माधर्मयोः शरीरादिकारणत्वम् , विनापि धर्माधर्ममर्यादया सर्गादौ
प्रभुसृष्टेः शरीरादिनिवृत्त्यभ्युपगमात्, धर्माधर्ममर्यादायां सत्यामेव च प्रलयकाले शरीराद्यभावाभ्युपगमाञ्च, ईश्वरसामर्थ्यादेव, तस्मात्तयोर्नास्ति कारणता कारणलक्षणायोगात् , कथं तदद्योग इति चेदुच्यते, न ध धर्माद्यभाव इत्यादिना ग्रन्थेन, तयोः कारणाभिमतयोरभावेऽपि शरीरादेः कार्यस्य भावं भावेऽपि धाभावमुपदेशसाफल्यानभिज्ञत्वश्च दर्शयति यावदत्तफलकुशलाकुशलसंहारादन्तकाल इति गतार्थ10 स्वान्न वित्रियन्तेऽक्षराणि ।
किश्चान्यत्
यथा चोपदेशानभिज्ञत्वं तस्य तथा प्राणिनामनुग्रहक्रियाया अपि, यदा तदैवं व्यामुदैव स्थितानां प्राणिनां भृतकवत् तेषां शरीरमुत्पादयामि धर्माधर्ममर्यादां प्रणयामि तत्र प्रवर्त्तयामि तत्फलैरनुबध्नामि तान् फलानुरूपमुपभोगं विद्याश्चानुगृह्णामीत्याधुपभोगविभाज16 नानुग्रहक्रियायामतिगरीयस्यां किमिति वर्तते इत्यत्यन्तपरवशत्वमेवैश्वर्यम् ।
यथा चोपदेश इति यावक्रियाया अपि, अनभिज्ञत्वमिति वर्तते, न केवलमुपदेशानभिज्ञत्वमेव तस्य, किं तर्हि ? प्राणिनामनुग्रहक्रियानभिज्ञतापीति तदतिदिशति, तत् कथं भाव्यत इति चेदुच्यते-यदा तदैवं व्यामुयैवेत्यादि भावनाग्रन्थः यावदुपभोगविभाजनानुग्रह क्रियाया[म] तिगरीयस्यां किमिति वर्तते-तस्मिन् हि काले प्राणिनां भृतकवत् प्रवृत्तेरीश्वरस्यैव, तेषां शरीरमुत्पादयामि, धर्मा
mwwwammmmmmm 20 तमिराकरोति-अस्येति अनर्थकेषु अर्थेष्वसौ प्रवर्त्तते, तस्मादस्य प्रवृत्तिर्बालादिप्रवृत्तितुल्या, अविविच्य प्रवृत्तत्वादिति भावः । बालादिप्रवृत्तितुल्यत्वादस्य प्रवृत्ते स्य सर्वकारित्वात् सर्वज्ञत्वं सेत्स्यतीत्याह-अज्ञक्रियेति । अनर्थकार्थप्रवृत्तत्वमस्य कथमित्यपाह-धर्माधर्मेति धर्माधर्मयोर्मर्यादाया उपदेशे याऽस्य प्रवृत्तिः साऽनर्थकार्थविषयिणी, धर्माधर्मयोरनर्थकत्वञ्च शरीरेन्द्रियादिकारणत्वायोगात्, कारणत्वाभावश्चान्वयव्यतिरेकव्यभिचारादिति भावः । व्यतिरेकव्यभिचारं दर्शयति-विनापीति ।
अन्वयव्यभिचारमाह-धर्माधर्मेति । कारणलक्षणाश्रयेण व्यभिचार पोषयति-कारणलक्षणेति । खोपदेशस्य फलमप्यसौ 28 न आनातीत्याह-उपदेशसाफल्येति तपोदानयज्ञादि कुरुत, हिंसां मा कार्टत्युपदेशः तस्य साफल्यमसौ न बेत्ति सृष्टिकाले घमाद्यभावाप तत्फलप्रदानात् , अन्तकाले च फलमदत्त्वेव धमोद्युपसंहरणादिति भावः। मध्यकाले च तेषां प्राणिनां यथाखं
धिममयोदामनुतिष्ठतामनुष्ठानानुरूपेण फलेनानुग्रहं करोतीति यदुक्तं तदप्यनुपपन्नमित्याह-यथा चेति । अनेकजनसाधारणस्यैकस्य सेवकस्य यथाऽतिक्लेशः तत्तोषणक्रियाभिरजस्रं श्रमितत्वात् तथा तवेश्वरोऽपि, निरन्तरमतिक्लिश्यमानत्वात्
प्राणिपराधीनत्यमेव तस्यैश्वर्यम्, न तु क्लेशाद्यपरामृष्टत्वलक्षणमैश्वर्यमिति तस्येश्वर इत्यभिधानमत्यन्ततापादिविधायिरोगविशेषस्य 30 शीतलिकेत्यभिधानवदेवेति भावः । काभिः क्रियाभिरसौ क्लिश्यत इत्यत्राह-तेषां शरीरमिति । यदा तदेवमिति यस्मिन्
काले प्राणिनः प्रलयक्षपायां खापयति तस्मिन् हि काल इत्यर्थः, प्राणिनामित्यस्य भृतकवदित्यनेन सम्बन्धः, यदपीश्वरस्यानुग्रह उच्यतेऽसावप्यननुग्रह एव वस्तुतः, स ह्यनुग्रहेणेष्टोपभोगमनिष्टोपभोगश्च कारयति प्राणिनः, इष्टोपभोगस्य च क्षयित्वादि
१-२सि.क. धर्माधर्मोपदेशः। ३ सि.क. विधीयन्ते। ४ सि.क. प्राणिनामत्वलकवत् ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org