________________
ईश्वरनिरासः] न्यायागमानुसारिणीव्याख्यासमेतम्
४४९ करोति यदा तदा सापेक्षोऽप्रतिहतखशक्तिवशादेव, स्यान्मतं धर्मानुष्ठानफलोपभोगेनेष्टेनानुग्रहो युज्यते, कथमधर्मानुष्ठानफलोपभोगेनानिष्टेन युक्त इत्यत्रोच्यते अयमनुग्रह एव तेषाम् , तहणमोक्षणादिति । ये पुनस्तदुपदिष्टमोक्षमार्गप्रस्थिताः तांश्च मोक्षमार्गोपसेविनः सायुज्यं गमयति, कोऽसौ मोक्षमार्गः? माहेश्वरो योगविधिः, तानात्मना सह युक्त इति सयुक्, तद्भावः सायुज्यं तेषामीश्वरसाद्भावः, तं गमयति नयति, एवं मध्ये सापेक्षमैश्वर्यम् । पुनरप्यन्तकाले च शरीरेन्द्रियभूतवत् यथा । शरीरेन्द्रियाणि भूताख्यांश्च विषयानुपसंहरति तथा कुशलाकुशले तेषां धर्माधर्मावपि संहृत्य तान् पुरुषान् सर्गाहनि संसृतवतः तेन धर्माधर्मफलेनेष्टानिष्टोपभोगात्मकेन दिवससंध्यायां परिश्रमाभिभूतान बालकान पुत्रकानिव पिता सर्वपुरुषान् संसारहेतुभूतधर्माधर्मावुपसंहृत्य प्रलयक्षपायां स्वापयतीत्यन्तेऽपि निरपेक्षाप्रतिहतस्वातंत्र्यः स एवेष्टः, तस्मादुभयथाऽप्यपेक्ष्यानपेक्ष्य च तदैश्वर्यसिद्धेरदोष एव दोषाभिमत्या त्वयोद्भावित परपक्ष इति ।
10 अत्र वयं ब्रूमः कर्मणामेव तन्निरपेक्ष्य प्रवृत्तौ तस्य प्रतिघातादपरिहतपूर्वदोषत्वान्न किश्चिदेतत् , तत्कारित्वात्तज्ज्ञत्वमिति यत्सर्वज्ञत्वमाकांक्ष्यते तदपि नैव, अस्यानर्थकार्थप्रवृत्तत्वात् बालादिप्रवृत्तिवत् धर्माधर्ममर्यादोपदेशप्रवृत्तेरनर्थकार्थविषयत्वात्, न च धर्माधर्मयोः शरीरादिकारणत्वम् , कारणलक्षणाभावात् , यस्याभावे यस्याभावो यस्य च भावे यस्य ध्रुवो भावस्तत्कारणमितरत् कार्यमिति हि कारणलक्षणम् , न च धर्माद्यभावे शरीराद्यभावः, सर्गादौ 15 तदभावेऽपि प्रभुसृष्टेः शरीरादिनिर्वृत्त्यभ्युपगमात् , धर्मादिभावेऽपि प्रलयकाले शरीराधभावाभ्युपगमाच्च, तस्योपदेशसाफल्यानभिज्ञत्वञ्च निष्कारणशरीरेन्द्रियादिसर्जनादादिकाले, अदत्तफलकुशलाकुशलसंहारादन्तकाले च ।
(अत्रेति) अत्र वयं ब्रूमः, कर्मणामेव तन्निरपेक्ष्य प्रवृत्तौ तस्य प्रतिघातादनैश्वर्यम् , सृष्टप्राणिसंसारकाले सर्गाद्यन्तयोश्चाकृताभ्यागमकृतविप्रणाशादिदोषाः तदवस्था एवेत्यपरिहृतदोषत्वान 20 किश्चिदेतत् , अन्योऽपि च दोष:-तत्कारित्वात्तज्ज्ञत्वमिति यत्सर्वज्ञत्वमाकांक्ष्यते तदपि नैव, यदपि
स्याधर्मफलयोजकत्वं कथं युक्तमित्याशंक्य समाधत्ते-स्यान्मतमिति, युक्त इति, अनुग्रह इत्यादिः । तेषामप्यसौ यदि शुभमेवानुगृहीयात्तर्हि तेऽधर्मस्य ऋणिनो भवेयुः, तत्फलालाभात् , ततस्तानृणेन मोचयितुं तत्फलदानेनानुग्रहं करोत्येवेत्याशयेनाह-अयमनुग्रह एवेति । माहेश्वरो योगविधिरिति, महेश्वरसम्बन्धियोगविधानमित्यर्थः, मनसा वाचा कायेन व भगवति सर्वकर्मार्पणपूर्वको भावनाविशेषः, स च भक्तिविशेषः, आत्मनो हृदयपुण्डरीके प्रतिष्ठिते परमप्रेमास्पदें भगवति 25 समर्पितात्मभारो निश्चिन्तो निरन्तरमात्मनि भगवत्तत्त्वमनुभवन् तत्सायुज्यमधिगच्छतीति सोऽयं भक्तिविशेषो माहेश्वरो योग उच्यत इति भावः । सायुज्यशब्दं व्याकुर्वन्नाह-तानात्मनेति, मोक्षमार्गोपसेविनस्तान् आत्मसाद्भावं गमयतीति भावः। प्रलयकाले शरीरेन्द्रियभूतानि यथोपसंहरति खेच्छया तथैव जीवानां धर्माधर्मावप्युपसंहरतीत्याह-पुनरपीति । एवमुभयथापि परमेश्वरप्रवृत्तौ दोषाभावाददोषे दोषबुद्ध्या भवताऽऽक्षिप्यत इत्याह-तस्मादिति । सर्वासां प्रवृत्तीनां कर्मण एवेश्वरव्यति. रेकेणापि सम्भवादीश्वरस्य कर्मापेक्षया च मध्यकाले प्रवृत्तौ तदिच्छाप्रतिघातेनानैश्वर्यदोषस्य कर्मानपेक्षप्रवृत्तौ च सृष्टिकाले 30 प्रलयकाले च शुभकर्मणां दुःखेनेतरेषां सुखेन योजनादकृताभ्यागमकृतविप्रणाशादिदोषाणाञ्च पूर्वोद्भावितानामेवमप्यपरिहारादुभयथापि दोषाभावजल्पनं निरर्थकमेवेति समाधत्ते-अत्र वयं ब्रूम इति । दोषान्तरमप्याह-अन्योऽपीति तस्य कारित्वं तत्कारित्वं तस्य ज्ञत्वं तज्ज्ञत्वम्,यो यत्करोति स तजानातीति व्याप्तिः, सर्वच्चेश्वरः करोतीति सर्वज्ञोऽसाविति पूर्वपक्षाभिप्रायः।
द्वा. न.१९ (५७)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org