________________
mamAammam
द्वादशारनयचक्रम्
[विधिनियमारे एवं प्रतिघातप्रसङ्गोऽपीत्यादि, किश्चान्यत् प्रतिहन्यते च त्वदभिमतेश्वरः सापेक्षप्रवृत्तित्वात् रथकारवत् , अस्य साधनस्य व्याख्या यथा रथकार इत्यादि, उपादानं दारु, उपकरणानि वास्यादीनि तेषामसामर्थ्य वैगुण्यं सतामेव, वैकल्यं त्वन्यतमाभाव एव तत्र प्रतिघातः, दृष्ट इति वाक्ये शेषः, तथेत्यादिदार्टान्तिकं सापेक्षप्रवृत्तिसाधर्म्यानुगमेनोपनयनमीश्वरे कार्यम् , वैधयेण तु दर्शयति 3 अपचितकुशलमनुजिघृक्षत इत्यादिना, पुरुषमपचितशुभकर्माणमनुग्रहीतुमिच्छतस्तद्विपरीतश्बोपहन्तुमिच्छतस्तैवेश्वरस्य यद्यप्रतिघातः स्यात् स्यात् स्वातंत्र्यम्, न तु भवति, अपेक्ष्यस्य कर्मणः स्वकृतकर्मणः प्रत्ययेन तद्वशेनेश्वरस्य प्रवृत्ति प्रतिघातदर्शनात् , न चेदेवमिष्यते शुभकर्मागं दुःखेन इतरश्च सुखेन योजयेत् , तथा चाकृताभ्यागमकृतप्रणाशौ स्यातामित्युक्तम् , तच्च नेष्टम् , तस्मात् पुरुषकर्मप्रत्ययेनेश्वरप्रवृत्तिप्रतिघातोऽस्ति, प्रवृत्तिप्रतिघाताच्च नैश्वर्यम् , तस्य प्रतिघात्यत्वात् , पृथग् 10 न[२]वदित्यनीश्वरः स इति ।
__ यत्तूच्यते सर्गादौ धर्माधर्मविकलानां शरीरेन्द्रियविषयोत्पादने निरपेक्षोऽप्रतिहतस्वशक्तिवशादेव शरीरादीनुत्पाद्य बुद्धानां धर्माधर्ममर्यादामुपदिशति, तपोदानयज्ञादि कुरुत ! हिंसां मा कार्टेति, मध्यकाले च तेषां प्राणिनां यथास्वं धर्माधर्ममर्यादामनुतिष्ठतामनुष्ठानानु
रूपेण फलेनानुग्रहं करोति यदा तदा सापेक्षोऽप्रतिहतस्वशक्तिवशादेव, ये पुनस्तदुपदिष्ट16 मोक्षमार्गप्रस्थितास्तांश्च सायुज्यं गमयति, पुनरन्तकाले च शरीरेन्द्रियभूतवत् तेषां धर्मा
धर्मावपि संहृत्य तान् दिवससंध्यायां परिश्रमाभिभूतान् बालकान् पुत्रकानिव पिता प्रलयक्षपायां स्वापयतीत्यन्तेऽपि निरपेक्षाप्रतिहतस्वातंत्र्यः स एवेष्ट इति ।
___ यत्तुच्यत इत्यादि यावत् प्रलयक्षपायां स्वाँपयतीति, कालभेदेन सापेक्षनिरपेक्षप्रवृत्तिपक्षयोरभ्युपगमादुभयथापि प्रवृत्तिप्रतिघातासम्भवाददोषः, तद्यथा सर्गादौ धर्माधर्मविकलानां शरीरेन्द्रिय20 विषयोत्पादने निरपेक्षोऽप्रतिहतस्वशक्तिवशादेव शरीरादीनुत्पादयति, तांश्चोत्पाद्य बुद्धानां-सुप्तोत्थितानां धर्माधर्ममर्यादामुपदिशति-तपोदानयज्ञादि कुरुत, हिंसां मा कार्ट-हिंसानृतस्तेयागमनादीनीति, तयोश्च धर्माधर्मयोः सीमाच्छेदेन व्यवस्था मर्यादामुपदेशेन व्यवस्थापयति, मध्यकाले च तेषां प्राणिनां यथास्वं धर्माधर्ममर्यादामनुतिष्ठतामनुष्ठानानुरूपेण फलेनेष्टेनानिष्टेन वा विषयोपभोगलक्षणेनानुग्रह
mammaNA
किश्चान्यदिति । रथकारे यथा हेतुसाध्ये उपनीते तथेश्वरेऽप्युपनेये इत्याह-तथेत्यादीति, ननु जगतः सृष्टिकाळेऽन्तकाले 25 चेश्वरस्य निरपेक्षा प्रवृत्तिरतस्तदा नास्ति तत्प्रवृत्तेः प्रतिघातः, मध्यकाले च पुरुषकर्मानुरूप्येण तस्य प्रवृत्तेर्नास्ति तदानीमपि
प्रतिघात इत्याशङ्कते-यत्तूच्यत इति, सामान्येन पूर्वपक्षाशयं दर्शयति-कालभेदेनेति । धर्माधर्मेति, प्रलयकालेऽनित्यानां सर्वेषां विनाशात् सर्गादौ धर्माद्यभावेन प्राणिनां तत्तच्छरीराद्युत्पादने न किञ्चिदपेक्षतेऽयमीश्वर इति तदानीं तस्य शक्तिरप्रहतेवेति भावः । खेच्छयैव प्राणिनः तत्तच्छरीरेन्द्रियविषयाणि सृष्टा तत्र जीवाननुप्रवेश्य तेषां धर्माधी प्रज्ञापयतीत्याह-शरीरादीनीति। मध्यकाले तत्कर्त्तव्यतामाह-मध्यकाले चेति, प्राण्यनुष्ठितधर्मफलयोजकत्वसम्भवेऽपीश्वर
सि. क. विकल्पं । २ सि.क. विशेषः। ३ सि. क. कं०। ४ सि. क. रथकारे। ५सि. क. स्तथेश्वरस्य । ६ सि. क. कर्मवशस्य । ७ सि. क. साययति। ८ सि. क. विषयोपयोगः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org