________________
naamaamanawwana
प्रतिघातप्रसङ्गः] न्यायागमानुसारिणीव्याख्यासमेतम्
४४७ ___ कर्मापेक्षत्वेऽपि न व्यर्थमीश्वरकारणत्वं तदभावे प्रवृत्त्यभावात् , दापेक्षरथकारकारणत्ववदिति चेन्न, इतरत्रापि तुल्यत्वात् , ईश्वरापेक्षत्वेऽपि न कर्मवैयर्थ्य तत एव हेतोः, रथकारापेक्षरथदारुवदिति, प्रवर्त्तयितृत्वाच्चेश्वरस्य दासस्य स्वामिवत् तच्च कर्मणः सिद्धम् , प्रवर्त्यत्वञ्चेश्वरस्य, तथाप्रवर्तकं कर्मेति पुरुष एवेश्वरः सर्व इति ।
कर्मापेक्षत्वे इत्यादि यावद्रथकार[ कारण ]त्ववदिति चेत् स्यान्मतं कर्मापेक्षत्वेऽपि न 5 व्यर्थमीश्वरकारणत्वं तदभावे प्रवृत्त्यभावात् , यत्र यदभावे प्रवृत्त्यभावः प्रवर्तकस्य तत्रेश्वरस्यापि अवैयर्थ्य दृष्टम् , यथा रथकारप्रवृत्तौ रथार्थं दार्वाद्यपेक्षणमिति चेन्मन्यसे तन्न, इतरत्रापि तुल्यत्वात् , तत्कथमिति चेत् प्रयोगत एव दर्श्यते विपर्ययसिद्धिः, तद्यथा-ईश्वरापेक्षत्वेऽपि न कर्मवैयर्थ्यम् तत एव हेतोः, रथकारापेक्षरथदारुवदिति विरुद्धैकान्तिकः, तदुपसंहृत्याह प्रवृतयितृत्वाञ्चेश्वरस्येत्यादि यावत् पुरुष एवेश्वर[: सर्व] इति-प्रवर्त्तयिता हीश्वरो दासस्य स्वामिवत् , तच्च-प्रवर्त्तयितृत्वं कर्मणः सिद्धमुक्त- 10 विधिना, प्रवर्त्यत्वं चेश्वरस्य तथा प्रवर्तकं कर्म, कर्मणा पुरुषः प्रवर्त्यते इति प्रकृतत्वाद्गम्यते, इतिशब्दो हेत्वर्थे, तस्मात् पुरुष एवेश्वरः सर्व इति, एवं कर्मेश्वरतापि तु यथैवं तथोत्तरत्र भावयिष्यते, पुरुषस्य तावत् सर्वस्येश्वरत्वमुक्तमिति ।
एवं प्रतिघातप्रसङ्गोऽपि सापेक्षप्रवृत्तित्वाद्रथकारवत् , यथा रथकार उपादानोपकरणानामसामर्थ्यवैकल्ययोः प्रतिघातस्तथाऽपचितकुशलमनुजिघृक्षतः तद्विपरीतञ्चोपजि- 15 घत्सत ईश्वरस्य यद्यप्रतिघातः स्यात् स्यात् स्वातंत्र्यम् , न तु भवति पुरुषकर्मप्रत्ययेनेश्वरप्रवृत्तेः प्रतिघातदर्शनात् , अन्यथा शुभकर्माणं दुःखेनेतरञ्च सुखेन योजयेत् तच्च नेष्टमित्यनीश्वरः सः।
nmmmmm
श्यकमित्याशङ्कते-कर्मापेक्षत्वेऽपीति । नन्वीश्वरस्य कर्मापेक्षप्रवृत्तिमत्त्वेऽपीश्वरकल्पना न व्यर्था, ईश्वराभावे कर्मणामचेतनानां प्रवृत्त्यभावात्, यथा रथकारो रथनिर्माणाय दार्वाद्यपेक्षप्रवृत्तिमानपि तदभावे दार्वादीनां प्रवृत्त्यभावान्न रथकारस्य वैयर्थ्य प्रवर्तकत्वा- 20 तथेश्वरोऽपि प्रवर्तक इति शङ्कते-स्यान्मतमिति । ईश्वर एव प्रवर्त्तयिता न कर्मेत्यत्र विनिगमकाभावात्त्वदुपन्यस्तयुक्त्यैव कर्मणः प्रवर्त्तयितृत्वमिति साम्यतां दर्शयति-इतरत्रापीति । त्वदुक्तो हेतुरस्मत्पक्षं साधयन् ते विरुद्धो भवतीत्याशयेनाहप्रयोगत एवेति, अपिशब्देनेश्वरापेक्षा नास्त्येवेति सूच्यते, तत एवेति । तदभावे प्रवृत्त्यभावादिति हेतोरित्यर्थः । रथकारापेक्षत्वेऽपि न हि दारोवैयर्थ्यमिति दृष्टान्तमाह-रथकारेति । ईश्वरस्य प्रवर्त्तयितृत्वं कर्मणः पूर्वोदितविधिना सिद्धमतस्तस्यैवेश्वरत्वमिति कर्मात्मा पुरुष एवेश्वरो दासस्य खामिवदिति तवेश्वरो नेश्वरः कर्मणा प्रवर्त्यत्वादित्युपसंहरति-प्रवर्त्तयितृ-25 त्वाच्चेति । यो हि प्रवर्त्तयिता स एवेश्वर उच्यते दासस्य खामिवत् कर्म च प्रवर्तयितृ ततः स एवेश्वरः त्वदीश्वरस्तु प्रवर्त्य इति भावः । ईश्वरस्यानीश्वरत्वं प्रकारान्तरेणाह-एवमिति । परापेक्षप्रवृत्तीनां कदाचिदपि प्रतिघातो दृश्यते, यथा रथकारेडसमर्थमुपादानं विकलानि चोपकरणानि परिगृह्णति प्रतिघातो दृष्टः, तथेश्वरोऽपि कर्मापेक्षप्रवृत्तेः दुष्टान् शिक्षयितुं शिष्टान् परिपालयितुमिच्छन्नपि कदाचित् प्रतिहन्यत एवेति नासौ स्वतंत्रः, तदिच्छाविघातात्, तदविधाते हि तस्य खातंत्र्यं स्यात्, न चैवं दृश्यते सापेक्षप्रवृत्तेः प्रतिघातव्याप्यत्वात् , ईश्वरो हि पुरुषकृतकर्मापेक्षः प्रवर्त्तते, यदि तु स्वतंत्रेण प्रवर्तेत तर्हि शुभकर्माणं 30 दुःखेनाशुभकर्माणं सुखेन योजयेत् , न चैवमस्ति, तस्मात् परापेक्षत्वादस्वतंत्रतयाऽनीश्वर एवेति भावः । इदमेव व्याकरोति
१ सि. क. अवैषम्यं । २ सि. क. कर्मणः पुरुषः प्रवर्त्तते ।
___Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org