________________
wwwmwwwwm
४४६ द्वादशारनयचक्रम्
[विधिनियमारे ईश्वरस्यापि चेत्यादि, तासामेवोपपत्तीनामितो मुखतां भावयत्यनेनापि ग्रंथेन, यथा त्वया प्रागुपपादितं ब्रुवता पूर्वपूर्वशक्यतारतम्येन सन्निहिततद्विधशक्तिर्विशिष्टबुद्धिरिति तथेहापि ताभिरेवोपपत्तिभिस्तैरैव तन्त्वंश्वादिभिर्दृष्टान्तैः कर्मणि वृत्तेः-कर्मनिष्ठत्वात् सृष्ट्यतिशयप्रकर्षस्य, कर्मणां पुरुषत्वात्
सर्व एव पुरुषः सन्निहिततद्विधशक्तिः प्रतिविशिष्टबुद्धिप्रमाणीकृतक्रियः-प्रतिविशिष्टबुद्धिना तेनैवे• श्वरेण नान्यैश्च शास्त्रकारैर्विश्वदृश्वभिरपि प्रमाणीकृत[क्रियः]तक्रियाफलपरिज्ञानार्थत्वाच्छास्त्रकारप्रवृत्ती
नाम् , सिद्धशास्त्राणामनतिशक्यत्वाच्च, स च स्वतंत्रः,तत्प्रवृत्त्यापत्तेः तेन प्रकारेण कर्मिप्राणिप्रवृत्तिवदीश्वरस्यापि प्रवृत्त्यापत्तेः, [आ]ईश्वरात् प्रवर्त्तयितृत्वादिति-आ ईश्वरात् यावदीश्वरस्तावत् प्रवर्त्तयितृत्वात् ईश्वरस्य प्रवर्त्यत्वात् कारणानि सर्वपुरुषाः ।
शक्तिमत्प्रवृत्तीत्यादि यावत्सत्त्वादिवदिति पूर्ववत् सर्वव्यक्तिप्रवृत्त्यात्मकत्वादस्य सर्व10 मूर्तिता, एवमेव चास्य पृथिव्याद्यष्टमूर्त्तितोच्यते, तासु तस्यैव निमित्तत्वात्, प्रवृत्तिफलप्रकर्षाभावप्रसङ्गात् कर्म एव कारणं नेश्वरादि, इतरथा ईश्वरादेः प्रधानादेर्वा प्रवृत्तयः फलं वा स्युस्तर्हि तस्यैकरूपत्वादुत्कर्षापकर्षों न स्यातां, दृष्टौ च तौ, न निर्बीजेश्वरकामचारेरणात्, अतोऽन्यद्विमर्दक्षमं कारणमस्तीति ।
शक्तिमत्प्रवृत्तीत्यादि, ईश्वरस्यापि तेषामेव शक्तिमतां पुरुषाणां शक्तिसाकल्य[सन्निध्य]16 सन्निध्योः प्रवृत्त्यप्रवृत्तिदर्शनादिति तदेवोपपत्तिजातं स्मारयति यावत्सत्त्वादिवदिति, आदिग्रहणाद्रजोवत्
प्रवृत्तिव दित्यादि पूर्ववदेव ग्रन्थं चा[ति]दिशति यावदेवास्य सर्वत्वात् सर्वमूर्त्तिता, एवमेव चास्य पृथिव्याद्यष्टमूर्त्तितोच्यत इत्येतस्मादेवारातीयो ग्रन्थः सर्वो द्रष्टव्यः, ताभिरेवोपपत्तिभिः सर्वप्राणीश्वरत्वे तद्वदेवेति, पुनरपि चोत्कर्षापकर्षदर्शनादित्यादिरीश्वरसर्गसाधनार्थों ग्रन्थः प्रवृत्त्यनुभवफलेत्यादि तद्वदेव यावत् पुरुषादप्रवृत्तेरेवोत्कर्षापकर्षों, न निर्बीजेश्वरकामचारेरणादिति कर्मकारणार्थों गतार्थः, तस्मात् 20 कर्मापेक्षत्वात् सर्वसर्वात्मकत्वात् सर्वेश्वरतेति । एतदेव व्यावर्णयति-तथेहापीति । प्रतिविशिष्टेति तश्वरेण परैरपि सर्वज्ञैः शास्त्रकारैः क्रियायाः प्रमाणीकृतत्वात् , प्रतिविशिष्टबुद्धिभिः प्रमाणीकृताः क्रियाः यस्य सर्वपुरुषस्यासौ प्रतिविशिष्टबुद्धिप्रमाणीकृतक्रिय इति विग्रहः । ईश्वरापेक्षमेव सर्व प्रवर्तत इति प्रख्यापनायोक्तो ग्रंथ एव कर्मापेक्ष एवेश्वरः प्रवर्तत इति प्रख्यापनाय योजनीय इति दर्शनायाह-शक्तिमदिति तथा चेश्वरस्यापि प्रवर्तिका कर्मलक्षणा पुरुषशक्तिरेव, तदभावे तत्प्रवृत्त्यसम्भवात् , न हि स्वतः प्रवर्तकस्यान्यापेक्षा युज्यते, 25 खातंत्र्यक्षतेः, अपेक्षते चेश्वरः पुरुषशक्तिमतोऽसौ तया प्रवर्त्यः, स्वतंत्रतया पुरुषशक्तेर्भवनात् तस्या एव प्रवर्तकत्वम् ,
सत्त्वादेः प्रकाशप्रवृत्तिसामर्थ्यऽपि रजस एव यथा प्रवर्तकत्वं तथा कर्मण एव प्रवर्तकत्वं तल्लक्षणत्वात्तस्येति भावः। सर्वेषां व्यक्तीनां प्रवृत्तौ कर्मण एव कारणत्वात् भवत्यन्तसन्निविष्टस्वातंत्र्यात् सर्वत्वेन सर्ववस्तुषु कर्मण एव निमित्तत्वात् सर्वमूर्त्तिता, अस्यैव क्षितिजलपवनाद्यष्टमूर्तित्वमपि, तासु तस्यैव निमित्तत्वादिति पूर्वग्रन्थमेव कर्मणि लगयति-अस्य सर्वत्वादिति । एवमेव पूर्व ईश्वरकारणप्रतिपादनपरग्रन्थः कर्मकारणपरतया नेय इत्याह-इत्येतस्मादेवेति । तद्वदेवेति ईश्वरकारणसमर्थन30 वदेव कर्मकारणसमर्थनं कार्यमिति भावः । ईश्वरस्याकारणत्वे यः प्रवृत्तिफलप्रकर्षाभावप्रसङ्ग उद्भावितः स एव कर्मणोऽकारणत्वे
ईश्वरलक्षणकारणावैलक्षण्येन प्रसङ्गोऽत्राप्यापादनीय इत्याह-पुनरपि चेति अत्र सर्वत्र पूर्वग्रन्थसाम्येनैव मूलमनु मितम् , अत्रोपलभ्यमानप्रतीकेभ्यो विलक्षणस्यव पूर्वटीकानुसारेण तत्र मूलस्यानुमितत्वात् । कर्मणोऽभ्युपगमेऽपीश्वरस्य कारणत्वमाव
सि.क. प्रमाणीकृताः । २ सि.क. प्रभृतीनां ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org