________________
सर्वप्रवर्तकता] न्यायागमानुसारिणीव्याख्यासमेतम्
४४५ तथाभाव्यमानत्वात् , प्रधानेन शब्दादिवदिति वक्ष्यमाणदृष्टान्तत्वात् , यथा च पृथिव्युदकादीन् ब्रीहिरेव तथाभावयति, पृथिव्याद्यपेक्षोऽपि तथाऽऽपत्तेः, न पृथिव्यादयः, तथानापत्तेः, एवं कर्माण्येवेश्वराणि, तथाभावयितृत्वात् , न त्वदिष्टेश्वरः, तथाभाव्यमानत्वादिति, स्यान्मतम् पृथिव्युदकादीन्यपि भावयन्येव व्रीहित्वेन ब्रीहि]मनापन्नान्यपीयेतञ्चायुक्तम् तेषामसत्त्वात् , असत्त्वश्चानापन्नस्यासत्त्वात् , खरविषाणवदिति सन्निधिभवनदूषणे प्रक्रान्तमेव न्यायं दर्शयति, अस्वतंत्रत्वाच्छब्दादिव- 5 दिति, एष दृष्टान्तः सर्वत्र प्रधानकारणत्वसाधयेणोपात्तः कापिलान् प्रति, यथा प्रधान[स्य स्वातंत्र्यातत्कारणत्वं गमयति शब्दाद्यारातीयकारणत्वाभावश्चास्वातंत्र्यात्तेषामिति नाव्यक्तस्य व्यक्तस्येव प्रधानता भवतीति यथा त्वयैवोक्तं तथैवेश्वरोऽस्वतंत्रत्वात् कर्मापेक्षत्वादकारणं तान्येव कारणानीति गमयति ताभिरेव त्वदुक्ताभिरुपपत्तिमिरतो यदुक्तं त्वदुक्ता एवोपपत्तयः सर्वप्राणीश्वरतां साधयन्तीति तत्साधु, तद्भावयन्नाह-भवति कर्तेत्यादि, प्राग्व्याख्यातान्येव भवत्येकार्थपदानि यावत्तन्तुपटवदिति, यथा 10 तन्तव एव पटनिष्पादनेन भवन्तः तथाप्रवर्तनवृत्तत्वात् पटकारणानि तथा पुरुषा एव कर्त्तार इति ।
ईश्वरस्यापि च तन्त्वैश्वादिवत् पूर्वपूर्वशक्ततारतम्येन प्रवर्तकः सर्वः एव पुरुषः, कर्मणि वृत्तेः सृष्ट्यतिशयप्रकर्षस्य, सन्निहिततद्विधशक्तिः प्रतिविशिष्टबुद्धिप्रमाणीकृतक्रियः, स च स्वतंत्रः, तत्प्रवृत्त्यापत्तेः, आ ईश्वरात् प्रवत्तयितृत्वात् ।। ईश्वरो न तानि कर्माणि तथाभावयतीत्यर्थः, प्रधानेन शब्दादिवदिति अनुपदमेवासौ दृष्टान्त उच्यतेऽखतंत्रत्वाच्छब्दा- 15 दिवदिति । यथा चेति यथा हि पृथिव्याद्यपेक्षोऽपि व्रीहिस्तेन तेन प्रकारेण भवतः पृथिव्यादीन् भावयति, व्रीहिरेव हि अङ्करादिरूपेणापद्यते, न तु पृथिव्यादयो व्रीहिं भावयन्ति, पृथिव्यादीनामङ्करादित्वेनानापत्तेः, एवं कर्माण्येव तेन तेन प्रकारेण भवन्तमीश्वरं भावयन्ति ततश्च भावयितृत्वात् स्वातंत्र्यात् कर्माण्येवेश्वराणि, न त्वीश्वरः कर्माणि भावयति भाव्यमानत्वादिति नासावीश्वर इति भावः । ननु भावान्तरतामनापन्ना अपि पृथिव्यादयः सन्निधानाद्रीहिं भावयन्येवेत्याशङ्कते स्यान्मतमिति । एवं सति पृथिव्यादयो न सन्त्येव, अनापन्नत्वादप्रवृत्तेरनियतेश्च खपुष्पवदिति सन्निधिमात्रभवननिराकरणावसरे न्यायोऽत्र प्रसरतीत्युत्तरयति-तेषामसत्त्वादिति । कर्मणामेव कर्तत्वभवितृत्वेश्वरत्वेषु हेत्वन्तरमाह-अस्वतंत्रत्वादिति । सर्वकार्येषु प्रधानमेव कारणं सर्वस्य सत्त्वरजस्तमोमयत्वात्, न तु भूतादीन् प्रति सन्निहितमपि शब्दादि कारणमखतंत्रत्वादिति सांख्यैर्यथोच्यते तथैव प्रधानमपि न स्वतंत्रमचेतनत्वात्, तस्माच्छब्दादयोऽन्येन प्रधानेनेव प्रधानमप्यन्येन व्यापारयित्रा खतंत्रेण भाव्यत इति व्यक्तस्य शब्दादेरिवाव्यक्तस्य प्रधानस्यापि यथाऽप्रधानता त्वयैवोक्ता तथैवेश्वरोऽपि कर्मापेक्षत्वेनाखतंत्रत्वान्न प्रधानं कारणमपि तु कर्माण्येवेति भावः। तदेवं कर्मणामीश्वरत्वे कर्मापृथग्भूताः प्राणिनोऽपीश्वरा एवेत्याशयेन सर्वप्रा-25 णीश्वरत्वं पूर्वोक्तं स्मारयति-यदुक्तमिति । सर्वप्राणीश्वरतामेवेश्वरवाद्यभिहितसाधनैर्भावयति-भवति कर्तेति यो मुख्यः स एव भवति यश्च कर्ता स एव मुख्यः , योऽसौ खतंत्रः स एव कर्ता, खतंत्र एव हि प्रवर्त्तयितृत्वेन वर्तते, प्रवर्त्तयद्धि कारणं तद्भावमापद्यते, यथा प्रवर्त्तयत्कारणं प्रधानं शब्दादिभावमापद्यते सांख्यमतेन, प्रवर्त्यमानरूपेण पटभवनेन प्रवृत्तत्वाद्यथा तन्तवः पटकारणं पटश्च तन्तुकार्य तन्तुभिः प्रवर्त्यत्वात्, न च पटभवनं प्रवर्त्तयितारमन्तरेण भवति, तथैवेश्वरोऽपि प्रवर्त्यमानरूपेण भवनात् प्रवर्त्तयिता कर्मात्मा सर्वः पुरुष एवेति सर्वप्राणिनामीश्वरत्वमिति भावः । ईश्वरप्राधान्ये प्रोक्ता अन्या 30 अप्युपपत्तीः कर्मप्राधान्यपक्षेऽपि घटयति-ईश्वरस्यापि चेति । यथा धर्माधर्माण्वादीनामपि च तन्त्वंश्वादिवत् पूर्वपूर्वशक्ततारतम्येनेश्वरः प्रवर्तकस्तेषां तथातथा विनिवेशने सन्निहितशक्तिः प्रतिविशिष्टबुद्धित्वात्तथेश्वरस्यापि प्रवर्तकं कर्म, तदेव जगतस्तथा तथा विनिवेशने सन्निहितशक्तिमच्च, जगद्वैचित्र्यस्य कर्मनिष्ठत्वात् , पुरुषोऽपि कर्मात्मकत्वात् तथाविध इति भावः।
१ सि. क. नान्यक्तमिव व्यक्तस्येव वा० । २ सि. क. गमयन्ति । ३ सि. क. भवत्येकधिकार्थः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org