________________
द्वादशारनयचक्रम्
[ विधिनियमारे
भेदाभावः, तस्माद्भाव्यभावकभेदाभावादीश्वर कर्मप्रधानाण्वादिद्वैत कल्पनानिर्मूलता, एवं तावदसतः कर्मणोऽनपेक्षा न युक्ता ।
अथ तु सदपि नापेक्षते सः स्वतंत्रत्वादिति मन्यते तत आ क्षीणोदितकर्माशयबन्धमोक्षाभ्यामकृताभ्यागमकृतप्रणाशौ स्याताम् धर्माधर्मनिरपेक्षत्वात्, स्वभावपुरुषादिवादि
www
४४४
5 मतवत् ।
( अथ त्विति ) अथ तु विद्यमानावेव धर्माधर्मावभ्युदय प्रत्यवाय निःश्रेयसक्रियायां नापेक्षते स ईश्वरः, स्वतंत्रत्वात्, प्रयोजनाभावाच्च तयोः, विद्वद्व्याख्यानादिक्रियासु बलीवर्दानपेक्षणवदिति मन्यते ततोऽकृताभ्यागमकृतप्रणाशौ दोषौ स्याताम्, कथं ? यथासंख्यमा क्षीणोदितकर्माशयबन्धमोक्षाभ्यां यावत्क्षीणकर्मणोऽपि बन्धाभ्युदयप्रत्यवायसम्बन्ध्यकृताभ्यागमः स्यात् कुतः ? धर्माधर्म10 निरपेक्षत्वात्, स्वभावपुरुषादिवादिमतवत्, उदितात्यन्ताशुभकर्माशयस्य नारकादेरपि मुक्तत्यभ्युदय-सम्बन्धी कृतप्रणाशः स्यात्, धर्माधर्मनिरपेक्षत्वात् स्वभावपुरुषादिवादिमतवदेव, अनिष्टनैतत्, एवं तावदीश्वरस्य कर्मानपेक्षाऽनिष्टापत्तेरयुक्ता ।
अथैवं कर्मापेक्षः प्रवर्त्तत इति मन्यसे ततस्तान्येव कर्माणि कर्तॄणि भवितृणि ईश्वराणि, तेषां तस्यापि तथाभावयितृत्वात्, न स तानि तथाभावयति तथाभाव्यमानत्वात्, यथा च 15 पृथिव्युदकादीन् व्रीहिरेव तथाभावयति, पृथिव्याद्यपेक्षोऽपि तथापत्तेः, न पृथिव्यादयस्तथानापत्तेः तेषामसत्त्वात्, असत्त्वश्चानापन्नस्यासत्त्वात् खरविषाणवत् अस्वतंत्रत्वाच्छब्दादिवत् भवति कर्त्ता स्वतंत्रः सर्वः पुरुषः प्रवर्त्तनवृत्तत्वात् प्रवर्त्तयद्धि कारणं तद्भावमापद्यते शब्दादि, तथाभवनप्रवृत्तत्वात् प्रवर्त्तयितारमन्तरेणाभवनादवृत्तत्वात् तन्तुपटवत् ।
"
( अथैवमिति ) अथैवं विधानिष्टापत्तिव्यावृत्त्यर्थं कर्मापेक्षः प्रवर्त्तत इति मन्यसे ततस्तान्येव 20 कर्माणि कर्तॄणि स्वतंत्राणि भवितृणीश्वराणि, कस्माद्धेतोः ? तेषां तस्यापि तथाभावयितृत्वात् - यस्मात्तमपीश्वरं तेन तेन प्रकारेण भवन्तं तान्येव कर्माणि, न स तानि कर्माणि तथाभावयति, कुतः
भाव्यवस्त्वभावेन भाव्यभावक भेदाभावादीश्वरमात्रस्य सत्त्वादद्वैतवाद एवायमिति भाव्यभावकभेदद्वयसाधनं व्यर्थमेवेति भावः । विद्यमानस्यापि कर्मणोऽनपेक्षायां दोषमादर्शयति-अथ त्विति । धर्माधर्माविति धर्मस्य फलमभ्युदयो निःश्रेयसच, अधर्मस्य 25 फलं प्रत्यवायः, फलेष्वेतेषु स्वतंत्रत्वादीश्वरो धर्माधर्माख्यं कर्म यदि नापेक्षते तर्हि तन्निरर्थकं स्यादिति भावः । निरर्थकतैव न दोषोऽपि तु प्राणिभिर्निर्हेतुकान्येवाभ्युदय प्रत्यवाय निःश्रेयसानि प्राप्तानीति स्वकृतकर्मणो वैयर्थ्यात् कृतस्य कर्मणः फलाभावात् कृतविप्रणाशः, अभ्युदयादीनामेवमेव प्राप्तेरकृताभ्यागमश्च दोषौ स्यातामित्याह - तत इति । क्षीणकर्मणोऽप्यभ्युदय प्रत्यवायलक्षणबन्धसम्बन्धेनाकृताभ्यागमः, उदितात्यान्ताशुभकर्माशयस्य मुक्तेरभ्युदयस्य च सम्बन्धेन प्रत्यवायासम्बन्धात् कृतस्य विप्रणाश इति भावः । यदि त्वेतद्दोषपरिहाराय जीवकर्मापेक्षमीश्वरजगत्सर्जन मिति मन्यते तर्हि कर्मैवेश्वरं प्रवर्तयतीतीश्वरः प्रवत्त्र्यो भाव्यश्चेत्यखतंत्रः कर्म च प्रवर्त्तकं भवित्रिति स्वतंत्रमिति तस्यैवेश्वरत्वं न तु त्वदभ्युपेतेश्वरस्येत्याह- अथैवमिति । तान्येव 30 कर्माणीति कर्तृपदमिदं तथाभावयतीत्यप्रेतनेन तथाभावयन्तीति वचनविपरिणतेन पदेनान्वेति । न स तानीति,
१ सि. क. तथाच ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org