________________
mommmmmmmmmmm
कर्मानपेक्षायां दोषः] न्यायागमानुसारिणीव्याख्यासमेतम्
४४३ कर्मणि तत्पञ्चकापेक्षविपाके सति स्यात् , दृष्टश्च सोऽस्मदभीष्टप्रतिनियतद्रव्यादिविपाककर्मप्राणिगणेश्वरत्वे सति युज्यते केषाञ्चिदभ्युदयः केषाश्चित् प्रत्यवायः केषाश्चिदपवर्ग इति । अत्र प्रयोगः अनुपपन्नस्थानविग्रहेन्द्रियोपभोगाभ्युदयप्रत्यवायापवर्गादिविशेषमिदं जगत् स्यात् तुल्यकारणत्वात् पटतान्तवत्त्ववत् , यथा पटस्तन्तुकारणत्वाविशेषात्तान्तवो न मार्तिकः सौवर्णो वेति जात्याकृतिवर्णाद्यविशिष्टस्तथेदं जगत् स्यात्, न तु भवति तस्मादयुक्तम् । अथवा प्रतिनियतद्रव्याद्यपेक्षविपाक्यने- 5 केश्वरकारणपूर्वकमेवेदं जगत् प्रतिविशिष्टजात्याकृतिवर्णादिमत्त्वात् , घटपटरथादिवत् , तस्मात् कर्मापेक्षमीश्वरत्वं सर्वप्राणिनामिति ।
अभ्युपेत्यापि कर्मानपेक्षां तत्र दोषं ब्रूमः
अनपेक्षा च कर्मणः किं सतोऽसतो वा? यद्यसत एव क्रियाविलोपः, इष्यन्ते च ताः यस्मादुक्तञ्च वः शास्त्रे 'योगं साधयिष्यन्निष्यादि यावन्निदातन्द्राप्रमादालस्यरहितश्च स्या'दि-10 त्यादि, कर्माभावे च सर्वप्राणिमुक्तेः तन्विद्रियविषयसम्बन्धाभावेन तन्वादिसृष्टिरीश्वरस्यानर्थिका, ततश्च भाव्यभावकभेदाभावादीश्वरकर्मप्रधानाण्वादिद्वैतकल्पनानिर्मूलता।
अनपेक्षा चेत्यादि, किमियमीश्वरस्य धर्माधर्मलक्षणस्य कर्मणोऽनपेक्षा सतोऽसतो, वा किमिति प्रश्नः, किच्चातः ? यद्यसत एव धर्माधर्मयोरसतोरेवानपेक्षा, ततः किमिति चेदुच्यते क्रियाविलोपः-असतोर्हि तयोः खपुष्पखरविषाणयोरिव काऽपेक्षा, ततश्च हिताहितप्राप्तिपरिहारार्थाः 15 सर्वाः क्रिया विलुप्येरन् , इध्यन्ते च ताः, यस्मादुक्तञ्च वः शास्त्रे 'योगं साधयिष्यन्नित्यादि गतार्थ यावत् निद्रातंद्राप्रमादालस्यरहितश्च स्या'दित्यादि (
) इत्याचारविधायिग्रन्थस्मारणम् । किञ्चान्यत् कर्माभावे चेत्यादि यावन्निर्मूलता, अकर्मत्वात् प्राणिनः सदा मुक्ताः स्युः, ततश्च तन्विन्द्रियविषयसम्बन्धिनो न भवन्ति, ततश्च तन्वादिसृष्टिरीश्वरस्यानर्थिका, ततश्च भाव्यभावक
wwwanim
वा पाकोऽनुभावो रसः, एवञ्च कर्मविपाकश्च द्रव्यादिपञ्चकापेक्षः, कर्मबन्धः विपाकं जनयति विपाकोऽपि पञ्चकापेक्षः स्थान-20 विग्रहादि जनयति, अतो जगतो वैचित्र्यमुभयाधीनं न तु केवलखतंत्रेश्वराधीनमिति भावः । उक्तार्थमनुमानेन साधयतिअत्र प्रयोग इति, जगत् पक्षीकृत्यानुपपन्नप्रतिविशिष्टजात्याकृतिवर्णादिमत्त्वं साध्यते तुल्यकारणत्वादिति हेतुः, मूलानुसारेणेश्वरनिरोधकमनुमानमाह-अथ वेति । तत्र जगत् पक्षः प्रतिनियतद्रव्याद्यपेक्षविपाक्यनेकेश्वरकारणपूर्वकत्वं साध्यधर्मः, घटपटरथादयः प्रतिविशिष्टजात्याकृतिवर्णादिमन्तः, न ह्येषामेका जातिराकृतिर्वर्णादि वाऽतः प्रतिनियतद्रव्याद्यपेक्षविपाक्यनेकेश्वरपूर्वकाः कुलालतन्तुवायस्थपतिभ्य एवोत्पत्तेरेवं जगदपीति भावः । तस्मात् खकृतकर्मविशेषादेव सर्वे प्राणिन ईश्वरा इत्युप-25 संहरति-तस्मादिति । अथेश्वरेण किं विद्यमानं कर्म नापेक्ष्यते, अथाविद्यमानं वेति विकल्प्योभयत्र दोषमाह-अनपेक्षा चेति । यदीश्वरोऽविद्यमानमपि कर्म नापेक्षते तर्हि क्रियाः सर्वाः हिताहितप्राप्तिपरिहारार्थास्तव शास्त्रोदिता वृथा भवेयुरित्याहयधसत एवेति । शास्त्रमेव तावद्दर्शयति-उक्तश्च वः शास्त्र इति। चित्तवृत्तिनिरोधलक्षणं योगं साधयिष्यन् साधको यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधीन् अनुतिष्ठेत् , चित्तविक्षेपकांश्च निद्रादीन् परित्यजेदिति तदर्थः स्यात् । दोषान्तरमाह-कर्माभावे चेति, ईश्वरेणानपेक्षितत्वात् वैयर्थ्याच्च कर्मणोऽभावे प्राणिनां मुक्तत्वाजगत्सृष्टेनिरर्थकतया 30
सि. क. सति विशिष्टे स्यात् । २ सि. क. विपाकोनकेश्वर० । ३ सि. क. अत्रैदं वाक्यं नास्ति । ४ सि. क. 'किमिति प्रश्नः' इति दृश्यते । ५ सि. क. दित्यादिरित्या०।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org