________________
द्वादशारनयचक्रम्
[विधिनियमारे स्यान्मतं राजवदेव कर्मणः प्रवृत्तौ तत्फलदाने वा ईश्वरापेक्षत्वात् प्रधानं कारणमित्येतञ्च न, यम्मात्
द्रव्यादिपञ्चकापेक्षं हि कर्म प्रवृत्तौ फलदाने वा स्वतंत्रम् , सेवादिक्रियाफलप्रत्यक्षवत् ।
द्रव्यादिपञ्चकेत्यादि यावत् प्रत्यक्षवत् , द्रव्यं क्षेत्रं कालं भावं भवञ्चापेक्ष्य हि कर्मणां 5 प्रवृत्तिः, कृतानाञ्च फलं प्रत्यक्षत उपलभ्यते, स एव पुरुषः कर्ता द्रव्यं, दाता, देयं वा द्रव्यं
वस्त्रसुवर्णादि, क्षेत्रं ग्रामनगरारण्यभूम्यादि यत्र तत्प्राप्यते फलम् , कालः कस्मिंश्चित् काले दिवा रात्रौ पूर्वाह्नेऽपराहे सद्यश्चिराद्वेति, भावः प्रसन्नः कुपित इत्यादि, भवः हस्तिमहामात्रयोः शरीरानुरूपाहारभूषणादिदानमिति, अत्र प्रयोगः परत्रापि प्राणिकृतफलं प्रतिनियतद्रव्याद्यपेक्षम् , सुखादिक्रियायाः
फलत्वाम् , द्रव्यादिपञ्चकापेक्षसेवादिफलवत् , तस्माद्रव्यादिपंचकापेक्षमपि कर्म फलदाने स्वतंत्रम्10 [प्रति]प्राणि नियतेः प्रधानम् , नेश्वरं तत्कर्माऽपेक्षते परतंत्रत्वात्तस्येति ।
त्वदभिमतेश्वरस्तु यदि स्वतन्त्रः प्रधानादि वर्त्तयति ततः प्रतिपुरुषनियामककर्मानपेक्षायां प्राणिगणस्य स्थानविग्रहेन्द्रियोपभोगलक्षणाविशेषः, तद्विशेषहेतोरीश्वरस्य समानत्वात् , स तु विशेषो द्रव्यक्षेत्रकालभावभवापेक्षकर्मनियतेः स्यात् , तस्मात् कर्मापेक्षमीश्वरत्वं
सर्वप्राणिनाम् । 15 त्वदभिमतेश्वरस्त्वित्यादि, अस्तु तावदीश्वरस्य स्वातंत्र्यं कर्मानपेक्षा च, तस्य जगदुत्पादनार्थ प्रधानादि वर्तयतः प्राणिनां कर्मकारणत्वे तदनपेक्षायाञ्च दोष उच्यते तद्यथा ततः प्रतिपुरुषेत्यादि, पुरुषं पुरुषं प्रति द्रव्यादिपञ्चकत्वेन नियामकं नियतं यदि कर्म न स्यादीश्वर एवाविशिष्टो हेतुः स्यात् , ईश्वराख्यस्य कारणस्याविशिष्टत्वादविशेषः स्यात् , कस्य ? दैवमानुषतैर्यग्योनाख्यप्राणिगणस्य, कीदृगविशेष इति चेदुच्यते स्थानविग्रहेन्द्रियोपभोगलक्षणो विशेषो न स्यात् , कस्मात् ? तद्विशेषहेतोरी20 श्वराख्यस्य समानत्वात् , स तु विशेषो द्रव्यक्षेत्रकालभावभवापेक्ष कर्म] नियतेः प्रति पुरुषश्च नियामके कृतमित्यर्थः । नन्वितरानपेक्षं कारणमेव हि प्रधानमुच्यते कर्म चेश्वरमपेक्ष्य प्रवर्त्तते फलं यच्छतीति कथं प्रधानमित्याशंकायां द्रव्यादिपञ्चकापेक्षमपि कर्म खतंत्रमेवेत्याह-द्रव्यादीति । द्रव्यं प्रदर्शयति-स एवेति दृष्टान्ते यः सेवां करोति स एव कर्ता पुरुषो द्रव्यं भवति तथा यः फलं ददाति राजादिः स दाता एवं देयं यद्वस्त्रसुवर्णादि तदपि द्रव्यमिति भावः । भाव इति,
प्रसन्नतादयो दातुर्भावः न कर्तुः सेवकस्येति । भव इति, गजतत्पालकयोः शरीरानुरूप्येण दात्राऽऽहारभूषणादीनां प्रदानमिति । 25 इदमेव साधयति-अत्र प्रयोग इति। परत्रापि परजन्मन्यपि, अपिनतजन्मन्यपीति सूच्यते, अन फलं पक्षीकृत्य प्रतिनियतद्रव्याद्यपेक्षत्वं साध्यते, प्रतिनियतद्रव्यादिपञ्चकापेक्षकर्मप्रभवमित्यर्थः, सुखादिक्रियाप्रयोज्यफलत्वादिति हेतुः, द्रव्यादिपञ्चकापेक्ष यत् सेवादि तज्जन्यफलवदिति दृष्टान्तः। मूलोदितस्य सेवादिक्रियाफलप्रत्यक्षवदित्यस्य सेवादिक्रियायाः द्रव्याद्यपेक्षिण्याः फलं यथा प्रत्यक्षत उपलभ्यते तथा प्रकृतेऽपीति भावः । ईश्वरस्येतरानपेक्षवतंत्रकारणत्वे जगद्वैचित्र्यस्य दृष्टस्यानुपपत्तिमाहत्वदभिमतेश्वरस्येति । यदि कर्म न स्यादिति, द्रव्यादिपञ्चकापेक्षं हि कर्म प्रतिपुरुषं जगद्वैचित्र्यनियामकत्वेनाव30 स्थितम् , तद्यदि ईश्वरेण नापेक्ष्यते खत एव जगदुत्पादनार्थ प्रधानादीन् प्रवर्त्तयति, ततश्चाविशिष्ट कारणत्वात्तस्य विचित्रा
सृष्टिन स्यात्, अविशिष्टेन कारणेन विशिष्ट कार्योत्पादायोगात् दृश्यते च प्राणिगणस्य वैचित्र्यमिति भावः । स्थानेति, स्थानं खर्गनरकपृथिव्यादि राजामात्याद्युत्कृष्टनिकृष्टस्थानानि, विग्रहः देवमनुष्यतिर्यग्योनादिशरीरं सुरूपकुरूपादिशरीरं वा, इन्द्रियं न्यूनाधिकेन्द्रियाणि तारतम्यविषयग्राहीणि, शक्तिमदशक्तिमन्ति वा, उपभोगः सुखदुःखादि, एवंविधो विशेषो न स्यादिति भावः । कथमयं विशेष उपपद्यत इत्यत्राह-स तु विशेष इति विपाक उदयावलिकाप्रवेशः कर्मणां नानाप्रकारो
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org