________________
कर्मस्वातंत्र्यम् ] न्यायागमानुसारिणीव्याख्यासमेतम् तथाभूतेस्तथाप्रवृत्तेस्तत्तदापत्तेरित्यादिभिर्युक्तिभिः, तथापि सुतरामद्वैतं तदात्मकत्वादेव पुरुषावस्थावत्, ईश्वरो भाव्यः तदात्मकार्थादिभवनवद्वा ।
अथ यस्मै प्रवर्त्यते यथा तेन तत्तत्प्राण्यात्मकं तदित्यत्रोच्यते तस्मात्तर्हि तत्तथाभूतं प्रत्येकं प्राणिनः कारणात् तद्वशात्तथेश्वरप्रवृत्तेः कृतं त्वदिष्टेनेश्वराख्येन, अथ तत् कृतमपि पुरुषकारराजप्रसादवदीश्वरापेक्षं प्रवर्तत इत्यत्रोच्यते कर्तृतां प्रति स्वातंत्र्यं सिद्धं । तस्यैव, पुरुषकर्मजन्यप्रसादराजवदेव ईश्वरस्याप्यन्यतरपुरुषकृतकर्मप्रत्ययप्रसादोत्पादनात् कर्मस्वातंत्र्यं प्रवृत्तौ फले वा।
(अथेति) अथ यस्मै प्रवर्त्यते यथा-अथाऽऽचक्षीथा न कर्मेश्वरात्मकम् , किं तर्हि ? यस्मै प्राणिने शुभमशुभं वा नरकतिर्यगमर[नर] विचित्रभेदरूपेण येन येन प्रकारेण प्रवर्त्यते तेनेश्वरेण तत्तत्प्राण्यात्मकं तदित्यत्रोच्यते, तस्मात्तर्हि तत्तथाभूतं प्रत्येकं प्राणिनः कारणातू, तस्मात्तस्मात्तथा तथा 10 भूतमित्यर्थः, तद्वशात्तथेश्वरप्रवृत्तस्ततस्तस्य प्रवर्त्तने स एवेश्वरः कृतं त्वदिष्टेनेश्वराख्येन , आत्मवशेन तथाप्रवर्त्तयतस्तस्य तस्य प्राणिन ईश्वरत्वं नेश्वरस्य, तथाप्रवर्त्यत्वात् , कर्मकरवत् । अथ तत्कृतमपि पुरुषकारराजप्रसादेवदीश्वरापेक्षं प्रवर्तते-अथ मतं प्राणिभिः कृतमपि कर्मेश्वरकृतमेव, ईश्वरवशात् प्रवर्त्तमानत्वात् , तद्यथा द्वयोः पुरुषयोस्तुल्यपुरुषकारयोरपि राजा एकस्यैव प्रसीदति नेतरस्येति फलं राजवशेन दृष्टं न पुरुषकर्मवशेन, तथेश्वरवशात्तत्कर्मप्रवृत्तिरित्यत्रोच्यते, कर्तृतां प्रति तावत् 15 स्वातंत्र्यं सिद्धं तस्यैव-प्राणितोषितेश्वरेण प्राण्यनुष्ठेयकर्मप्रत्ययप्रसादोत्पत्तेः, तत्र च राज्ञो निमित्तमात्रत्वात् , पुरुषकृतकर्मजन्यप्रसादराजवदेव ईश्वरस्याप्यन्यतरपुरुषकृतकर्मप्रत्ययप्रसादोत्पादनात् कर्मखातंत्र्यं तत्कृतं हि कर्मैवेश्वरप्रसादमुत्पादयति, अन्यतरेण कृतं नेश्वरेणेत्यर्थः, अन्यतरपुरुषकृतकर्मप्रत्ययस्येश्वरप्रसादस्य तेनोत्पाद्यत्वात्, तस्मात् पुरुषकर्मापेक्षत्वादीश्वरप्रवृत्तेः कर्मप्राधान्यं प्रवृत्ती फले वेति ।
ww
wwwmommmmm
हि पुरुषात्मकत्वात् पुरुष एव सर्व तथाऽयमपीति भावः । अथवा ईश्वरात्मकाः प्रधानाण्वादितनुकरणादयो भाव्यास्तथेश्वरोऽपि भाव्यः स्यात्, तथा च भावकान्तरापेक्षायामनवस्थेत्याशयेनाह-ईश्वर इति । ननु कर्मभूतमेव, किन्तु न तदीश्वरात्मकम् , यस्मै प्राणिने येन येन प्रकारेणेश्वरेण कर्म प्रवर्त्यते तदात्मकं तदित्याशङ्कते-अथेति । प्राणिभिर्हि यथा कर्म कृतं तथा कर्मोद्वीक्ष्यासौ प्रवर्तत इति फलितमेवश्च सतीश्वर एव प्रवर्त्यः प्रवर्तकञ्च कर्मेति कर्मण एवेश्वरत्वमित्युत्तरयति-तस्मात्तीति । आत्मवशेनेति कर्मवशेन खतो वा कात्मकप्राणिन एवेश्वरं प्रवर्तयन्तीति सर्वे प्राणिन ईश्वरास्सजाता इति भावः । यथा 25 राज्ञा प्रवर्त्यः कर्मकरो नेश्वरः पराधीनत्वात्तथेश्वरोऽपीत्याह-कर्मकरवदिति । ननु प्राणिभिः कृतमपि कर्म फलदानायेश्वरेण प्रवर्तित एव प्रवर्तत इति वस्तुतस्तत्कृतमेव तदित्याशङ्कते-अथेति । दृष्टान्तं घटयन्नाह-तद्यथेति । समाधत्ते-कर्तृतामिति जीव एव कर्मकरणे खतंत्र इति त्वदुक्तित एव सिद्धः प्राणिकृतकर्मणा सन्तुष्ट ईश्वरः प्राण्यनुष्ठितकर्मानुगुणं प्रसन्नो भवतीत्यभ्युपगमात् , कर्मकरकर्मसु राज्ञो निमित्तत्ववत् प्राणिभिः स्वातंत्र्येण कृतेषु कर्मसु निमित्तत्वमेवेश्वरस्य न स्वातंत्र्यमिति भवदुक्त्या सिद्धमिति भावः । तथा च कर्मण एव स्वातंत्र्यमीश्वरस्य प्रवर्तने फलप्रदाने च, यथा कर्म तथेश्वरेण फलदानात् , न 30 खेच्छयेत्याशयेनाह-तत्कृतं हीति । प्राणिकृतं हीत्यर्थः। अन्यतरेणेति । तद्धि कर्म अन्यतरेणैव पुरुषयोद्धयोः कृतं नेश्वरेण
१ सि. क. क्षतं त्वदिष्टमीश्वराख्यम् । २ सि. क. प्रसादादीश्वरः । ३ सि. क. कृततां । ४ सि. क. नेतरेणेत्यर्थः ।
द्वा० न०१८ (५६)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org