________________
४४०
द्वादशारनयचक्रम्
www.
विगतशङ्कामपि कथ कथं श्रोतुं नेमे विषयविषवेगक्षतधियः ॥' ( न्यत् - कर्त्तृत्वात् प्राणिनामिति वर्त्तते, मा भूवन्नकृताभ्यागमकृतप्रणाशकर्त्रन्तरफलसंक्रान्त्यादयो दोषा इति सदसदाचाराः प्राणिन एव कर्त्तारो भोक्तारश्चाभ्युपगन्तव्याः, अन्यथा हिताहितप्राप्तिपरिहारार्थानां शास्त्राणामानर्थक्यप्रसङ्गात्, ततः कर्त्तुरेव भवितृत्वाभ्युपगमात् कः 5 कर्त्ता ? यः स्वतंत्रः, यः स्वतंत्रो भवितापि स एव । स्यान्मतं नन्वीश्वरः प्रयोक्तत्वात् कर्त्तेत्युक्तम् नेत्युच्यते - तस्यैव भवितुश्च प्रयोजनात्- सर्वः प्राणी प्रत्येकं भविता प्रयोजयत्यात्मनाऽऽत्मानं स्वकृतकर्मविपाकात्मकरागद्वेषभय गौरवादिधर्मचोदितः । यथोक्तम् ' प्रयत्न एवापरजन्मजोऽयं सूर्यादयः श्राद्धजनप्रवादाः । उत्पश्यतामेव हि दैवसिद्धिमुत्साहिनं श्रीर्भजते मनुष्यम् ॥' ( ) इति । तस्मात् सत्त्वादिप्रधानाण्वादिषु सत्स्वपि प्रवन्त्र्येषु तेषामेव कर्मसाद्भूतानां प्राणिनां भवितृत्वात्तत्तदापत्तेः सर्व10 प्राणिनां स्वातंत्र्यात् कर्मवशप्रेरित कार्यकारणभावेन सततभवनात् तथाप्रवर्त्तकस्यैकैकस्य सर्वात्मकत्वात् 'सर्वेश्वरतेति साधूक्तम् ।
इदानीं त्वदिटेश्वरकारणत्वे तु दोषा उच्यन्ते
ईश्वरात्तु कर्मणः प्रवर्त्तनं किं सतः ? असतो वा ? तद्यद्यभूतस्य ततश्चाद्वैतम्, तस्यापि तदात्मकत्वात्, भूतस्य चेत् प्रागपि तत्कर्मास्ति कारणे कार्यस्य सत्त्वात् तच्चेश्वरात्मैव, 15 तनुकरणादिभाव्यवत् तथापि सुतरामद्वैतम्, तदात्मकत्वादेव पुरुषावस्थावत्, ईश्वरो भाव्यः तदात्मकार्थादि भवनवद्वा ।
ईश्वरात्त्वित्यादि, इदं चिन्त्यं ईश्वरात् कर्मणः प्रवर्त्तनं किं सतोऽसतो [वा ], किञ्चात: ? भूतस्य कर्मण ईश्वरः प्रवर्त्तकः ततश्चाद्वैतं पुरुषादिवादवत् प्राप्तम्, तस्यापि तदात्मकत्वात् कर्मणोऽपीश्वरात्मकत्वात् ईश्वरस्यैव कर्मत्वेनोपपत्तेः । भूतस्य चेत् - अथ भूतस्य कर्मण ईश्वरात् 20 प्रवृत्तिस्तत एतत्प्राप्तं प्रागपि तत्कर्मास्ति कारणे कार्यस्य सत्त्वात् तच्चेश्वरात्मैव तनुकरणादि भाव्यवत्,
[ विधिनियमारे
) किश्वा
Jain Education International 2010_04
>
योग्याननेकान् पुद्गलान् स्कन्धीभूतानात्मनि परिणामयति ततस्तानध्यवसायविशेषात् कांश्चिज्ज्ञानावरणीयतया कांश्चिद्दर्शनाच्छादकत्वेनापरान् सुखदुःखानुभवयोग्यतया परान् दर्शनचरणव्यामोहकारितयाऽन्यान्नारकतिर्यङ्मनुष्यामरायुष्केनान्यान् गतिशरीराद्याकारेणापरानुच्चनीच गोत्रानुभावेनान्यान् दानाद्यन्तराय कारितया व्यवस्थापयति, तामिमां कथां निःशङ्कामपि विषयविषवेगक्षतधियो नरः श्रोतुं नेच्छन्तीति द्वितीयकारिकाभावार्थः, तदेवं निजकर्मवशादेव शुभाशुभ फलोपभोगिन इति प्रतिपादितम्। कर्मपूर्वकत्वेऽपि 25 जगतः कर्तृत्वमात्मनोऽवश्यमभ्युपेयम्, न तु सांख्यपुरुषवदकर्तृत्वम्, अकृताभ्यागमादिदोषात् शास्त्रवैयर्थ्यप्रसङ्गाचेत्याहकर्त्तृत्वादिति । न चेश्वरः प्रयोक्तृत्वात् कर्त्ता भवितुमर्हति यो हि स्वतंत्रः कर्ता भविता स एव प्रयोक्ताऽपि, न ततोऽन्य इत्याह- स्यान्मतमिति । इदं चिन्त्यमिति, खस्मिन् असतः कर्मणो यदीश्वरः प्रवर्त्तकस्तर्हि स्वात्मानमेवेश्वरः प्रवर्त्तयतीति पुरुषवादवदयं वादः स्यात् कर्मण ईश्वरस्वरूपत्वात् ईश्वर एव कर्मत्वेन भवन् प्रेरयतीति प्रसक्तं तच्च तव नेष्टमिति भावः । सतः कर्मणः प्रवर्त्तकत्वेऽप्ययमेव दोष इत्याह-भूतस्य चेदिति कारणे ईश्वरे कार्यस्य कर्मणः सत्त्वादीश्वर एव तथाऽऽपद्यते तथा 30 प्रवर्त्तते तथा नियतो भवतीति कर्मेश्वरखरूपमेव, यथा तनुकरणादिभाव्यम्, तन्वादीनामपि हि प्रधानाण्वादिकारितत्वेन प्रत्यक्ष'तायामपि भवत्यन्तसन्निविष्टस्वातंत्र्यात्तत्स्वरूपलाभस्य तद्वशत्वादीश्वरकारितत्वमेवेति तदात्मत्वमेवं कर्मापि, अन्यथानापन्न - त्वादिभ्यः सन्निधिभवनात्मन ईश्वरस्याभाव एव भवेत्, तथा च सर्वस्येश्वरात्मत्वादद्वैतता प्राप्ता पुरुषावस्थावत्, सुषुप्तावस्थानां
१ सि. क. कः । २ सि. क. सच्चा० ।
For Private & Personal Use Only
www.jainelibrary.org