________________
कर्मपूर्वकं जगत्] न्यायागमानुसारिणीव्याख्यासमेतम्
જરૂર परिणामात् कर्मतामापन्नम्, [ततः सुखादि] पुनरपि सुखाद्रागादिफलं-फलादि, ततः पुनः कर्म ततः सुखादिफलं तच्च जीवपरिणामात्मसात्कृतकार्मणयोग्यपरिणामपरमाणुसमूह एवात्मस्थमेकीभूतश्चात्मना । यथोक्तम् 'योगैः सकृत् स्वयोगान्मूर्तः सत्त्वाद्यमर्थमादत्ते । आत्तस्य चानुभवनं बन्धं प्रति स च ततोऽनन्यः ॥' ( ) तच्च संवेद्यम् , कः संवेदनात् , ततः संवेद्यलक्षणत्वात् कर्मणः 'सर्वप्राणीश्वरतेति सम्भत्स्यते, कर्म हि प्रतिप्राणि नियतकर्तृकश्च विपाकसुखादित्वेन संवेद्यते, । नाणूनामेव कर्मपरिणामापन्नानामात्मैकीभावेन वेदनं संवेदनम् , तेन च पुरुषेण तेषां तथा प्रयोजनात् कर्तृत्वम् , अतः सुखाद्यदृष्टाणूनामपि च कर्मत्वादित्याह-प्राक् प्रतिपादितं हि व्यणुकत्र्यणुकादिसंयोगैः पृथिव्युदकत्रीयङ्कुरादिपरिवृत्तिरूपेणात्मनः तेषाञ्चैकत्वं सर्वसर्वात्मकत्वञ्च, तस्मात् कर्मकारणां जगप्रवृत्ति साधयन्ति त्वदुक्ता एवोपपत्तयः ।।
इतश्च कर्मपूर्वकं जगत्, कर्मप्रवर्त्तनाभ्युपगमात् सर्वप्राणिनाम् , कर्तृत्वात् कर्तुरेव 10 भवितृत्वाभ्युपगमात् तस्यैव भवितुश्च प्रयोजनात् । ।
(इतश्चेति) इतश्च कर्मपूर्वकं जगत्, कर्मप्रवर्तनाभ्युपगमात् सर्वप्राणिनाम्-कर्मवशादेव हि प्राणिनः शुभाशुभजातिकुलरूपाद्युत्कर्षापकर्षाः, यथोक्तम् 'स्वकर्मणा युक्त एव सर्वोऽद्युत्पद्यते जनः। स तथाऽऽकृष्यते तेन न यथा स्वयमिच्छति ॥' (सूत्रकृ० टी० पृ० २१०) 'यथाऽऽहारः काले परिणतिविशेषक्रमवशात् सुखं पथ्योऽपथ्योऽसुखमिह विधत्ते तनुभृताम् । तथा धर्माधर्माविति 15
परम्परा प्रवर्त्तते अस्थगिताऽऽस्रवद्वारस्य, स एव संसार इत्याशयेनाह-पुनरपीति । रागादिगुणयोगात् कायादिकरणयोगाचात्मनोऽनाभोगिकवीर्यपरिणतिर्भवति तथाविधस्यात्मनः कार्मणशरीरपरिणाम आत्मैक्यात् योगकषायपरिणतियुतोऽपि कर्मयोग्यपुद्गलग्रहणे आत्मसात्करणे एकत्वपरिणामापादने समर्थो भवति तदेवमात्मसाद्भूतकर्मयोग्यपरमाणुसमूह एव कर्मोच्यत इत्याशयेनाह-तच्चेति । तच्च सुखादिफलमित्यर्थः, सुखादीनामेषां पौद्गलिकत्वात् कार्यकारणयोरमेदान्चेति भावः, तच्च सुखायभिन्न कर्म का संवेदनात् संवेद्यमतस्तस्य सर्वेश्वरत्वमित्याह-तच्चेति, सुखाद्यात्मककर्मेत्यर्थः । जगतः कर्ममात्रतया कर्मणश्चात्मसं-20 वेद्यत्वात् सर्वेषामात्मनां सर्वज्ञता, कर्मात्मनोरैक्यपरिणामात् कर्मणो जगत्कर्तृत्वेनात्मनोऽपि जगत्कर्तृतयेश्वरत्वमिति सर्वप्राणिनामीश्वरत्वमित्याशयेनाह-ततः संवेद्यलक्षणत्वादिति । एतदेवोपपादयति-कर्म हीति कर्मत्वपरिणतानणूनेवासौ वेत्तीति न, अपि तु सर्व सुखादि, तथैवाणून प्रयोजयति सुखादीनामपि पौद्गलिकत्वात्सर्वकर्तृत्वमिति भावः। सर्वसर्वात्मकत्वं पूर्वप्रतिपादितं स्मारयति-प्रागिति तथा च कर्माणूनामेव व्यणुकादिक्रमेण जगद्रूपेण सुखाद्यनात्मना च प्रवृत्तेः कर्मपूर्वकं जगदिति भावः । कर्मैवेष्टानिष्ट फलप्रदं जगद्वैचित्र्यकारणम् , तत्प्रवर्तक आत्मा, सोऽपि न सन्निधिमात्रवृत्तिः किन्तु तथा तथा भविता, अन्यथा 25 कर्मण एव कर्तृत्वात् फलोपभोग आत्मनो न स्यात् , अकर्तुर्भोक्तृत्वेऽकृताभ्यागमकृतविप्रणाशदोषौ भवत इत्याशयेनाह-इतश्वेति । कर्मण एव हेतोजीवस्य शुभाशुभादेरुत्कर्षापकौं भवत इत्याह-कर्मवशादेव हीति । कर्मप्राधान्ये कर्मवादिगाथा प्रमाणयति-खकर्मेति । प्राग्भवोपात्तहिताहितफलप्रदकर्मयुक्त एव सन्नयं प्राणी नरादिभावनोत्पद्यते, कर्मणैव जीवः सुखी दुःखी वा कुलीनोऽकुलीनो वा सुरूपः कुरूपो वा क्रियते, न त्वसौ जीवो यथेच्छति तथा भवितुं शक्नोतीति प्रथमकारिकार्थः । यथाऽऽहार इति यथाऽऽहारकाले आहर्ताऽऽहृतान् परिणतिविशेषक्रमवशात् रसखलतयाऽनाभोगवीर्यसामर्थ्यात् परिणति-30 मानयति तथा रागद्वेषस्नेहावलेपावलीढसकलात्मप्रदेशो यदा भवति तदा येष्वेवाकाशदेशेष्वगाढस्तेष्वेवावस्थितान् कार्मणविग्रह
१ सि. क. सर्वेश्व०।२ सि.क. कर्तृकांश्च । ३ सि. पदमिदं नास्ति । ४ सि.क. स्वकर्मयुक्त एवायं सर्वोऽप्युत्पद्यते नरः । स तथा क्रियते तेन न यथा स्वयमिच्छति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org