________________
manamam
चतुर्थो विधिनियमारः। नन्वेवं त्वदुक्ता एवोपपत्तयः प्रत्येकं सर्वप्राणीश्वरत्वं साधयन्ति, बाह्याध्यात्मिकसुखदुःखमोहमात्रत्वाजगतः, सदसवेद्यमोहान्तरायभेदानां सुखादित्रयविपाकफलत्वानतिवृत्तेस्त
दात्मसंवेद्यलक्षणत्वात् कर्मणः, सुखादिसंवेदनेनैव हि लक्ष्यते, अतः कारणे कार्यस्य सत्त्वात् 5 कार्य कारणोपचारात् सुखादयः कर्म, अन्नप्राणत्ववत् ।
नन्वेवमित्यादि, पूर्ववदस्मिन् दर्शने न परितुष्यतः उत्थानमित्यभिसम्बन्धः, नन्वित्यनुज्ञापने, नन्वेवं त्वदुक्ता एवोपपत्तयः प्रत्येकं सर्वप्राणीश्वरत्वं साधयन्ति, बाह्याध्यात्मिकसुखदुःखमोहमात्रत्वाजगतः, सदसवेद्यमोहान्तरायभेदानां सुखादित्रयविपाकफलत्वानतिवृत्तेस्तदात्मसंवेद्यलक्षणत्वात्
कर्मणः, सुखादिसंवेदनेनैव हि-स्वकार्येण फलेन लक्ष्यते-अनुमीयते सामान्यतो दृष्टानुमानेन देशा10 न्तरप्राप्त्येवाऽऽदित्यादिगतिः, अतः कारणे कार्यस्य सत्त्वात् कार्ये कारणोपचारात् सुखादयः कर्म, अन्नप्राणत्ववत्, अदृष्टं धर्माधर्माख्यं परैरिष्टमेव कर्मेति ।
आत्मापि कर्म ततः सुखादि, पुनरपि सुखाद्रागादिफलं ततः पुनः कर्म ततः सुखादिफलम् , तच्च जीवपरिणामात्मसात्कृतकार्मणयोग्यपरिणामपरमाणुसमूह एवात्मस्थमेकीभूतञ्चात्मना, तच्च संवेद्यम् , कर्तुः संवेदनात् , प्राक् प्रतिपादितं हि व्यणुकत्र्यणुकादिसंयोगैः 15 पृथिव्युदकत्रीह्यङ्करादिपरिवृत्तिरूपेणात्मनस्तेषाश्चैकत्वं सर्वसर्वात्मकत्वञ्च, तस्मात् कर्मकारणां जगत्प्रवृत्तिं साधयन्ति त्वदुत्ता एवोपपत्तयः।
(आत्मापीति) आत्मापि कर्म, तच्चादृष्टमात्मनो रागादिकर्मविपाकपरिणत्यवस्थस्य प्रयोगएतस्यापि प्रकृति पुरुषस्य परस्परात्मतानापत्तौ कर्मफलसम्बन्धाभावे संसारमोक्षाद्यनुपपत्तेरीश्वरस्यापि च प्रवर्त्यपुरुषकर्मकृतत्वादात्मनैवात्मनः कार्यकारणत्वात् एकं सर्व सर्वचैकमिति विधिनियम्यत्वाद्विधिनियमदर्शनोत्थानमिति प्रदर्शयितुं पूर्वनयं 20 दूषयितुमारभते-नन्वेवमिति। चतुर्णा नयानामेतेषां द्रव्यार्थत्वादकृतकनित्यत्वैकान्तता बोध्या । यथा पूर्व विध्यादिनयेष्व
परितोषाद्विधिविध्यादिनयान्तरारम्भः कृतस्तथैव विध्युभयनये परितोषाभावाद्विधिनियमनयारम्भ इति सङ्गतिं दर्शयति-पूर्ववदिति । सर्वप्राणीश्वरत्वं साधयितुमादौ कर्मपूर्वकत्वं जगतः साधयति-बाह्याध्यात्मिकेति, बाह्याध्यात्मिकखरूपं जगत् सुखदुःखमोहमात्रम् , तच्च सुखादि सदसवेद्यमोहान्तरायकर्मणां फलभूतम्, सद्वेद्यात् सुखस्यासद्वेद्याद्दुःखस्य मोहान्तरायाभ्यामावरणाद्यात्मकतमोलक्षणस्य मोहस्योदयादिति भावः । ननु सदसवेद्यादिकर्मसद्धावे किं मानमित्यत्राह-तदात्मेति सुखाद्या25 त्मना संवेद्यत्वमेव हि कर्मणो लक्षणम् , तथा च कार्यविज्ञानात् कारणविज्ञानं भवतीति भावः । पूर्ववच्छेषवत्सामान्यतो
दृष्टमिति त्रिविधेष्वनुमानेषु केनानुमीयत इत्यत्राह-सामान्यत इति यथा देवदत्तस्य गतिपूर्विका देशान्तरप्राप्तिदृष्टा तथा सूर्यादीनां सामान्येन देशान्तरप्राप्या गतिरनुमीयते, तत्र देशान्तरप्राप्तिः कार्य कारणमादित्यगतिस्तथात्रापि सुखदुःखादिकार्येण कारणं कर्मानुमीयत इति भावः । अन्ने कारणे कार्यस्य प्राणस्योपचारात् अन्नं प्राणा इति यथा व्यवह्रियते तथैवात्रापि सुखादयः
कांच्यते कर्मसु कारणेषु सुखादीनां सद्भावात् , कार्ये सुखादौ कारणस्य कर्मण उपचाराच्चेत्याह-अत इति । परेषामपि 30 कर्मसद्भावोऽभिमत एवेत्याह-अदृष्टमिति, ततश्च बाह्याध्यात्मिक जगत् कर्मेति सिद्धमिति भावः । न केवलमचेतनं जगदेव
कर्म, अपि तु चेतनमपीत्याशयेनाह-आत्मापीति । रागद्वेषमोहपरिणामाभ्यञ्जनलक्षणस्यात्मनः प्रयोगपरिणामात् कर्मतामापन्नाः पुद्गलविशेषा एवादृष्टमुच्यन्ते इत्याह-तञ्चेति तस्मात् कर्मणः सुखं सुखादागः रागाच्च कर्म ततश्च सुखादिफलमित्येवं
सि. क. कर्मकत्वं । २ सि. क. त्यध्यवः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org