________________
नयोपनिबन्धनम्] न्यायागमानुसारिणीव्याख्यासमेतम्
४३७ द्रव्यार्थः, द्रव्यमपि गुणसन्द्रावः, विध्युभयनयत्वात् सन्निहिततद्विधशक्तीश्वरापृथक्त्वादण्वादीनां तदेकैकसर्वात्मकत्वाच्च तेनापि तद्वशित्वात् ।
(एतस्येति) एतस्य विध्युभयनयस्य द्रव्यार्थभेदोऽर्थः, पूर्वविरुद्धत्वानयानाम् , अविकल्पार्थाद्विधिविधिनयाद्विकल्पार्थद्रव्यार्थता भिद्यते, अथोक्तानां नयानां कस्मिन्नन्तर्भाव इत्यत आह सङ्ग्रहदेशत्वाद्रव्यार्थः, सङ्ग्रहनयस्यापि शतधा भेदात्तद्देशः तदेकदेशः द्रव्यशब्दार्थः, कतमस्मिन् । विग्रह इति चेदुच्यते द्रव्यमपि गुणसन्द्रावः, तद्व्याख्या सम् एकीभावे द्रु गतौ तस्माद्गुणानामेकीभावेन द्रवणम् , कारणे कार्यस्य सत्त्वात् , सतामेव सुखादीनां रूपादीनां पृथक् पृथक् सन्निहितानामैक्यगमनाजीवपरिणामः, सङ्गमनमाह-विध्युभयनयत्वात् सन्निहिततद्विधशक्तीश्वरापृथक्त्वादण्वादीनां तदेकैकसर्वात्मकत्वाच्च, तेषां भवत्वेकीभावो मा भूदीश्वरस्येति चेत् ] नेत्युच्यते तेनापि तद्वशित्वात्सन्निहिततच्छक्तिनापि सहेश्वरेणैकीभावे तच्छक्तिव्यक्तेर्नान्यथेति, तत एव चास्य नयस्याद्वैतवादाढ़ेदः। 10
आह
किं स्वमनीषिकया तदुच्यते ? न, उपनिबन्धनमस्य 'दुविहा पण्णवणा पण्णत्ता जीवपण्णवणा अजीवपण्णवणा चे' ति, अथवा 'किमिदं लोएत्ति पवुच्चई ? गोयमा ! जीवा चेव अजीवा चेव, एवं रयणप्पभा जाव ईसीपन्भारा समयावलियादि' ॥
(किमिति) किं स्वमनीषिकया तदुच्यते ? आहोस्विदस्त्यस्य किञ्चिदुपनिबंधनमार्षमपीति ? 15 अस्तीत्युच्यते-उपनिबन्धनमस्य 'दुविहा पण्णवणा पण्णत्ता, जीवपण्णवणा अजीवपण्णवणा चेति, (पण्ण० सू०१) अथवा 'किमिदं लोएत्ति पवुच्चई ? गोयमा ! जीवा चेव अजीवा चेव, एवं रयणप्पभा जाव ईसीपब्भारा समयावलियादि' (स्था० २. उ. ४) ॥
इति विध्युभयारस्तृतीयो नयचक्रस्य ॥
द्रव्यस्यार्थतया विशिष्टतेति भावः । अत एवाह-पूर्वविरुद्धत्वादिति। द्रव्याथै कस्मिन्नन्तर्भाव इत्यत्राह-सङ्ग्रहदेशत्वा- 20 दिति। केन विग्रहेण द्रव्यार्थोऽसावित्यत्राह-द्रव्यमपीति, सत्त्वरजस्तमांसि गुणास्तत्परिणामरूपाश्च तदात्मका एव शब्दादयः पञ्च गुणाः, तत्संघातरूपञ्च घटादिद्रव्यम्, न तु तद्व्यतिरिक्तमवयविद्रव्यमस्ति, किन्त्वेकीभावेन द्रवणमेव द्रव्यमित्याशयेनाहतयाख्येति । ननु ईश्वरव्यतिरिक्तस्य प्रधानाण्वादेः प्रत्येकं सर्वात्मकत्वादेकीभावेन सङ्गमनलक्षणं द्रव्यत्वं स्यात् , नत्वीश्वरस्य तस्यासर्वात्मकत्वादित्याशङ्कते-तेषामिति, ईश्वरो हि ज्ञः स्वतंत्रश्च प्रधानाण्वादीनां तथातथाविनिवेशनसन्निहितशक्तिमांश्चात एव प्रधानाण्यादिना सह यदैकीभावं गच्छति तदैव प्रधानाण्वादीनामीश्वरस्य च शक्तिः व्यक्तीभवति, नान्यथेति तस्याप्येकी-25 भावोऽस्त्येवेत्याशयेन समाधत्ते-तेनापीति । उपपादितनयस्यार्ष निबन्धनमाह-किमिति। दुविहा इति, द्विविधा प्रज्ञापना प्रज्ञप्ता, जीवप्रज्ञापना अजीवप्रज्ञापना चेति, । तथा किमिदं लोक इति प्रोच्यते ? गौतम | जीवाश्चैव अजीवाश्चैव, एवं रमप्रभा यावत् ईषत्प्राग्भारा समयावलिकादि, इति छाया। इत्याचार्यविजयलब्धिमूरिकृते द्वादशारनयचक्रस्य विषमपदविवेचने तृतीयो विध्युभयारः ।।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org