________________
wwwmawwwm
rammamammmm
४३६ द्वादशारनयचक्रम्
[ विध्युभयारे (सादृश्यमिति) सादृश्यं सामान्यश्च शब्दार्थः, वाक्यार्थस्य वक्ष्यमाणत्वात् पदार्थ इति गम्यते, सदृशैः समानमानैर्मीयत इति समानम् , समानं हक् यत्र द्रष्टणां तत् सदृशं, सदृशं समानं समानभावः सामान्यं जातिलिङ्गप्रत्ययाभिधास्थिति, नान्यापोहो न समानवस्त्वतिरिक्ततत्तत्त्वादि वा, तदनुपपत्तेः, एतत्सामान्यं शब्दार्थः । ननु सामान्यमविकल्पात्म पुरुषनियत्यादि सर्वसर्वात्मकत्वादिति पूर्ववादप्रसङ्ग । इति चेन्नेत्युच्यते सर्वसर्वात्मकत्वेऽपि च सृष्ट्यर्थवत्त्वात्-जगत्सृष्टिलक्षणोत्सर्गव्यापित्वात् तदर्थवत्त्वादस्य नयस्य नाविकल्प इति संभत्स्यते प्रकृतशब्दार्थः, अभिहितन्यायेन सत्त्वादिशब्दादितन्वादिविकल्पप्रत्ययस्य सत्यार्थत्वादद्वैतप्रत्ययस्यासत्यार्थत्वादिति पदार्थ उक्तः ।
वाक्यार्थोऽधुना
वाक्यमपि च पृथक् सर्व पदम् , यथा देवदत्त ! गामभ्याज शुक्लामित्यत्रैकैकं पदं 10 वाक्यम् , तस्मादेव, देवदत्तोऽपि हि गवात्मकोऽभ्याजात्मकश्च तथाप्रवर्तनात्तत्तदापत्तेः, तान्यपि तथापत्तेरिति ।
(वाक्यमपि चेति) वाक्यमपि च पृथक् सर्व पदमिति, वाक्येऽवधारिते तदर्थावधारणसौकर्यात् , 'आख्यातः शब्दसंघातो जातिः संघातवर्तिनी' [वाक्यप० का० २ श्लो० १] इत्यादिषु
वाक्यलक्षणविकल्पेष्वस्य नयस्य मतेन पृथक् सर्वं पदं वाक्यं, वाक्यार्थः पृथक् पृथक् सर्वपदार्थ . 15 इति, यथा 'देवदत्त ! गामभ्याज शुक्ला' (महाभा० अ० १ पा० १ सूत्रे १) मित्यत्रैकैकं
पदं वाक्यम् , किं कारणं ? तस्मात्-सर्वसर्वात्मकत्वादेव, यस्माद्देवदत्तोऽपि गवात्मकोऽभ्याजात्मकश्च तथाप्रवर्त्तनात् तत्तदापत्तेः तान्यपि तथेति तस्मात् सर्वसर्वात्मकत्वात् पृथक् पृथक् सर्व पदं वाक्यमिति ।
एतस्य विध्युभयनयस्य द्रव्यार्थभेदोऽर्थः, पूर्वविरुद्धत्वान्नयानाम् , सङ्ग्रहदेशत्वा20 लिङ्गेन ज्ञानेन नाम्ना च सामान्यं भवतीति तात्पर्यम् ! व्यावर्त्यमाह-नान्यापोह इति, न तावत् गवान्यापोहोऽर्थो गोशब्दस्य, । प्रथमं गोरनिश्चये गवान्यस्याज्ञानाद्वान्यापोहो दुर्ज्ञान एवेति कथं स शब्दार्थः स्यादवस्तुत्वादन्यापोहस्य खपुष्पवदिति भावः ।न
समानेति, सदृशपरिणतवस्तुव्यतिरिक्तस्य वस्तुतत्त्वभूतस्य सामान्यस्य व्यक्तिव्यतिरेकेणादर्शनात् सम्बन्धानुपपत्तेश्च न सामान्यरूपतेति भावः । एतदभिप्रायेण हेतुमाह-तदनुपपत्तरिति । ननु यदि सामान्यं शब्दार्थस्तर्हि तस्य पुरुषनियत्यादेरिव नामजात्यादिकल्पनाविषयत्वेन तथाविधसामान्याभ्युपगन्तृत्वेऽस्य नयस्य पूर्वनयाविशिष्टता स्यादित्याशङ्कते-नन्विति, 25 सामान्यमिदं जगत्सृष्टिं विदधाति तदपि जगत् सत्यम्, न त्वद्वैतवादवदसत्यत्वं जगत इत्यभ्युपगमात्, पूर्ववादादस्य भिन्न
स्वादित्याशयेन समाधत्ते-सर्वसर्वात्मकत्वेऽपीति सामान्यस्य प्रधानादेः सर्वसर्वात्मकत्वेन सामान्यरूपत्वेऽपि वास्तविकेन जगत्सृष्टिरूपेणार्थवानिति भावः । यथार्थतामेव सृष्टेराह-सत्त्वादीति । को वाक्यार्थ इति शङ्कायां तत्प्रतिपादनार्थ प्रथम वाक्यमेव दर्शयति-वाक्यमपीति, कुतः प्रथमं वाक्यस्य निरूपणं न तु वाक्यार्थस्येत्यत्राह-वाक्येऽवधारित इति । यथेति देवदत्त ! गामभ्याज शुक्लामित्यादौ देवदत्तादिपदान्येव वाक्यम् ; अन्यथाऽपरपदोच्चारणकाले पूर्वपदस्यान्तर्हितत्वात् 30 पदसमुदायासम्भवेन वाक्यमसदेव स्यात् , तस्माद्देवदत्तपदमभ्याजादिपदात्मकम् , तदपि च देवदत्तादितदात्मकं सर्वस्य सर्वात्मकत्वात् , ननु यद्येकस्मादेव पदात् सकलवाक्यार्थप्रतीतावपरपदोपादानवैयर्थ्य प्रसज्यत इति चेन्न, प्रतिपत्तषु वाक्यार्थस्य व्यक्तव्यञ्जकतया सार्थक्यात् , देवदत्तपदेन देवदत्तकर्तृकगवाभ्याजनायेवात्र वक्तुरभिप्रेतो न तु देवदत्तकर्तृकभोजनादिरिति व्यञ्जकत्वात् तस्मादेकस्मादेव पदात् सर्वपदोपस्थितौ वाक्यार्थोऽपि पृथक् तत्तत्पदोपस्थापित एवेति भावः, नयस्यास्य किं द्रव्योऽर्थः पर्यायो वेत्यत्राह-एतस्येति । द्रव्यविशेषोऽस्य नयार्थः, पूर्वनयसम्मतपूरुषाद्यविकल्पद्रव्यापेक्षयाऽत्र विकल्पयुक्तस्य
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org