________________
अत्र शब्दार्थः] न्यायागमानुसारिणीव्याख्यासमैतम्
४३५ अनेन योगेन सर्वत्र क्षित्यादिमूर्तमीश्वरं दृष्ट्वा पश्चाद्भावितात्मा तमात्मस्थमेव पश्यति-यदन्न मम शरीरे कठिनं सा पृथिवी परमेश्वरमूर्तिः, यद्वं तज्जलमूष्मा तेजः चलं वायुः सुषिरमाकाशम् , यश्चैतन्यं स यजमानः, चक्षुः सूर्यो जिह्वा सोमो यमो वेत्यन्येष्वप्यवयवेषु यथासम्भवं येऽनुपश्यन्ति ते धीराः शाश्वतीं ७ शान्तिमाप्नुवन्ति ते एवेश्वरेण सायुज्यं निर्वाणं मोक्षमित्यर्थः, नेतरे प्रधानपुरुषनियत्यादिकारणिन इति ।
नयस्वरूपज्ञानार्थमाह
अयं विधेरुभयभाक् , विधिर्व्याख्यातः पूर्वमनपवादप्रवृत्तिः तस्योत्सर्गाद्विधानात्मा विधिर्विधीयते सर्वसर्वात्मकत्वात् , नियमः सन्निधिप्रयोज्यसतोरप्रवृत्तेरसत्त्वम् , तयोरसत्सत्त्वात् , स्वतंत्रस्य कर्तुज्ञस्यैव भवनात् तस्मान्नियम्यते च ।
(अयमिति) अयं विधेरुभयभाक्-उभयं विधिं नियमञ्च भजत इत्युभयभान विधिळख्यातो लोकवदिति पूर्वमिति स्मारयति, पुनः संक्षेपेण व्याचष्टे-अनपवादप्रवृत्तिः-न कञ्चिदर्थमयम [प] हरति 10 किं न एतेन ? यदि सामान्यं यदि 'विशेष इत्यादि, तस्य विघेरुत्सर्गाद्विधानात्मा विधिविधीयते, कस्मात् ? सर्वसर्वात्मकत्वान्निरपवादः प्रवर्तन एव प्रवर्तते नै कचिद् व्याहन्यते, अयं हि नयः सर्व सर्वात्मकमितीच्छति, यथा सूचितं, क ? सन्निध्यापत्तिव्याख्याने तदेवात्रापि वक्ष्यते, नियमः सन्निधिप्रयोज्यसतोरप्रवृत्तेः-यावेतावनन्तरोक्तौ सन्निधिभव [न] व्यापत्तिभवनसँहायौ ईश्वर [:] प्रवो वा प्रयोज्यप्रधानाण्वादिर्भावः तयोर्द्वयोरप्यप्रवृत्तेरसत्त्वम् , किं कारणं ? तयोरसत्सत्त्वात् तदुभयं ह्यसदेव 15 सदुच्यते, स्वतंत्रस्य कर्तुस्यैिव भवनात् तद्विलक्षणस्याभवनापन्नस्याप्रवृत्तस्यासत्त्वात् खपुष्पवत् , तस्मानियमश्चेति विधिविधीयते नियम्यते चेति, ततोऽयं विधिरुभयभागिति ।
शब्दार्थोऽधुना
सादृश्यं सामान्यञ्च शब्दार्थः, ननु सामान्यमविकल्पात्म पुरुषनियत्यादि, सर्वसर्वात्मकत्वादिति पूर्ववादप्रसङ्ग इति चेन्न सर्वसर्वात्मकत्वेऽपि च सृष्ट्यर्थवत्त्वात् , अभिहितन्यायेन 20 सत्त्वादिशब्दादितन्वादिविकल्पप्रत्ययस्य सत्यार्थत्वात् अद्वैतप्रत्ययस्यासत्यार्थत्वात् ।
द्वयानुगतः, अस्मितामात्रश्चेति चतुर्विधः, तत्र प्रथमावलम्बनेनाह-अनेन योगेनेति । नयस्यास्योपसंहारव्याजेनाहअयमिति, अयं विधेरुभयभागिति, नयोऽयं विधिविषये विधानं नियमञ्च भजते, सर्वसर्वात्मकत्वाभ्युपगमात् कश्चिदप्यर्थमनपोद्य प्रवर्तनात् विधिमुत्सर्गतो विधीयत एव, खतन्त्रकर्तृज्ञस्यैव भवननियमनान्नियमरूपोऽपीत्युभयभागिति भावः । अमुमेव भावं स्फुटयति-विधियाख्यात इति, प्रथमेऽरे इति भावः । सन्निधिभवनरूप ईश्वरः, आपत्तिभवनरूपः ईश्वर- 25 प्रवर्त्यः प्रधानोऽण्वादिष्, एतयोर्द्वयोरप्यभाव एव, अनापन्नस्य सन्निधिभवनस्याभावात् , तदभावादेव च प्रधानादीनामप्यभावः, भाव्यमानत्वात् ,भावयितारमन्तेरण भाव्यत्वानुपपत्तेरित्याशयेनाह-नियम इति। कोऽसावस्य नये शब्दार्थ इत्यत्राहसादृश्यं सामान्यञ्चति सदृशपरिणतिरूपं सामान्य शब्दस्यार्थो न व्यक्तिः, न वाऽन्यापोहः, चः पुनरर्थे, अयं नयो विधेरुभयभान, तथा शब्दार्थोऽपि सादृश्यभूतं सामान्य मिति भावः, सामान्यमत्र न नैयायिकाभिमतं व्यक्तिभिन्नं जातिरूपं विवक्षितम् , किन्तु वस्तुनो याकारतया व्यक्तिभ्यो भिन्नाभिन्न जात्युपाधिसाधारणं सादृश्यरूपं सामान्यमिति, तच्च जात्या 30
असि. क. तेनैवे० । २ सि. क. विशेषण । ३ सि. क. तत्कचिद् । ४ सि. क. सहायं ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org