SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ४३४ द्वादशारनयचक्रम् [विध्युभयारे अधितिष्ठत्यात्माभिप्रायानुरूप्येण तथा तथा व्यवस्थापयति, तमीश्वरं स्वतो भिन्नस्य भाव्यमानस्य प्रधानादिसंज्ञस्य भावयितारं, आत्मस्थं-आत्मनि स्थितं क्षित्याद्यष्टमूर्तिसर्वगतं सर्वत्र तासां सद्भावात् , येऽनुपश्यन्ति-तत्प्रसादादेव तज्ज्ञानानुसारेण योगाभ्यासप्रसादक्रमेण येऽनुपश्यन्ति धीराः-अविचलितयोगसमाधयः, को योगः ? 'प्रत्याहारस्तथा ध्यानं प्राणायामोऽथ धारणा । तर्कः समाधिरित्येषः षडङ्गो 5 योग उच्यते ॥' (अमृतनादोपनिषत् ६) तत्रेन्द्रियाणां विषयेभ्यो मनसश्च प्रत्याहरणं प्रत्याहारः, प्राणायाम त्रिविधः रेचकः कुम्भकः पूरक इति, तत्र रेचक आन्तरं वायुं बहिनिःकासयति नासिकाद्वारेण, पूरको बाह्यमन्तःप्रवेश्य पूरयति, कुम्भकः पूर्णकुम्भवदवस्यन्दं वायुं सामीप्येनावस्थापयति, ध्यानं इष्टदेवताचिन्तनं वा धारणा यथाऽभ्यासं हृदयादिषु प्रदेशेषु मनसोऽवस्थापनम् , यथा पूर्व नाभौ ततो हृदये कण्ठे नासिकाग्रे भ्रुवोर्मध्ये ललाटमूर्द्धनीति । तर्कः शून्यागारगिरिकन्दरायेकान्ते शुचौ देशे 10 शरीरं मृज्वाऽऽस्यदन्ताग्राणि जिह्वाग्रेण सन्धाय पल्यङ्कस्वस्तिकवीरासनाद्यासनं समपादादिस्थानं वाऽऽ स्थाय ध्यायतो मे समाधिर्भवतीति तर्कयेत् , अनेनेत्थं कृते क्रियाविशेषेणाऽऽहारविहारस्वाध्यायादिना ध्यानसमाधिर्भवतीति तदुपायविचार ऊहस्तर्कः, ध्यानयोगादिरतिः समाधिरित्येषः षडङ्गो योगः । mam वर्त्तन्तेऽत आसु स्थितत्वादसावेको वशी आत्मस्थ उच्यत इति भावः । करणत्रयपूर्वकाद्भक्तिविशेषाद्धृदि प्रतिष्ठितमीश्वर मनुभवतः परमप्रेमास्पदे निवेदितात्मनो योगिनो भक्त्याऽभिमुखीभूतस्तं योगिनमनुगृह्णाति प्रसादादित्याह-तत्प्रसादादे15वेति. तज्ज्ञानं हि शास्त्रं श्रुतिस्मृतीतिहासपुराणानि तदनुसारेण तत्रोक्तयोगाभ्यासादिसाधनक्रमेण ये योगिनः परमात्मानं विजानन्तीति भावः। तत्र योगमाह-को योग इति, योगश्चित्तवृत्तिनिरोधः, तस्याङ्गानि षट् प्रत्याहारादीनि, चित्तस्थैर्यकरत्वात् । तत्र प्रत्याहारमाचष्टे-तत्रेति, षडङ्गमध्य इत्यर्थः, इन्द्रियविषयासम्प्रयोगकाले इन्द्रियाणां चित्तस्वरूपानुकारिता प्रत्याहार इति पातअले, विजितेन्द्रियस्य हि चित्तानुकारीणीन्द्रियाणि भवन्ति, अजितेन्द्रियस्य तु चित्तमेवेन्द्रियानुकारि भवति । आसनजये सति श्वासप्रश्वासयोगतिविच्छेदः प्राणायामः, स च रेचकपूरककुम्भकेष्वस्तीति त्रैविध्यं प्राणायाममाह-प्राणायाम 20 इति यत्र कौष्ठ्यो वायुर्विरिच्य बहिर्धार्यतेऽसौ श्वासप्रश्वासयोर्गतिविच्छेदात्मा रेचकः प्राणायामः, यत्र बाह्यो वायुराचम्यान्त र्धार्यतेऽसौ गतिविच्छेदात्मा पूरकः प्राणायामः, नासापुटे संस्थितमेव वायु सुनिश्चलं धारयत्यसौ स्तम्भवृत्तिः कुम्भकः प्राणायाम इत्याशयेनाचष्टे-तत्र रेचक इति । प्रत्ययान्तरेणापरामृष्टः स्खेष्टदेवतालक्षणध्येयालम्बनप्रत्ययप्रवाहाविच्छेदो ध्यानमित्याहध्यानमिति । यत्र देशविशेषे ध्येयं चिन्तनीयं तत्र चित्तस्यैकाम्येण स्थापनं धारणेत्याह-धारणेति । देशविशेषमेवाह यथेति, तदुक्तं 'प्राङ्नाभ्यां हृदये वाऽथ तृतीये च तथोरसि । कण्ठे मुखे नासिकाग्रे नेत्रभ्रूमध्यमूर्धसु। किश्चित्तस्मात् परस्मिंश्च 25 धारणा दश कीर्तिताः ॥ इति । विचारापरपर्यायं तर्कमाह-तर्क इति, तर्केण वितर्कप्रतिपक्षभावनात्मकेनाहिंसासत्यास्तेयब्रह्म चर्यापरिग्रहाणां प्रतिष्ठा भवति ततश्च समाधिसिद्धये प्रयतते, तथा ह्येकान्ते शुचौ देशे मौनी सन् पद्मवीरभद्रस्वस्तिकदण्डासन सोपाश्रयपर्यङ्कक्रौंचनिषदनहस्तिनिषदनोष्ट्रनिषदनसमसंस्थानस्थिरसुखयथासुखानामन्यतममासनं विधाय ध्यायतः समाधिराविर्भवतीत्येवं चिन्तयति तथा तदनुष्ठानेन ध्यानसमाधिर्भवतीति विचारतके इति भावः। ध्यानमेव यदा ध्येयज्ञानादन्य ज्ञानहीनं भवति ध्येयप्रख्यातौ तद्विषय एवास्ति नान्यग्रहणादि किञ्चित् ध्येयस्वभावावेशात् तदा ध्यानं तदेव समाधिरुच्यत 30 इत्याह-ध्यानेति ध्यानस्य ध्येयेन सह यो योगो विषयीकरणं तत्र रतिः सर्ववृत्तिनिरोधरूपं स्थैर्य समाधिरित्यर्थः । समाधिर्द्विविधो भवति सम्प्रज्ञातोऽसम्प्रज्ञातश्चेति, वितर्के विचारानन्दास्मितानुगतः समाधिः सम्प्रज्ञातः, निरोधचित्तस्य समाधिरसम्प्रज्ञातः, आद्यः सालम्बनः, द्वितीयो निरालम्बनः, सम्प्रज्ञातश्च वितर्कादिचतुष्टयानुगतः, विचारादित्रयानुगतः, आनन्दादि १सि. क. धारकः। Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002585
Book TitleDvadasharnaychakram Part 2
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1951
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy