________________
एककारणसिद्धिः ]
न्यायागमानुसारिणीव्याख्यासमेतम्
४३३
लघुप्रकाशेत्यादि यावत् पाचकाधिष्ठितानलोदकौदनसाधनवदिति, यथा परस्परप्रत्यनीकयो - रम्युदकयोर प्रत्यनीकत्व विधायिना विशिष्टबुद्धिना पाचकेनाधिष्ठितयोः सत्यपि मिथः प्रत्यनीकत्वे तद्बुद्धिवशवर्तिनोः संहत्यकारित्वादोदनसाधनं दृष्टम्, तथा लघुगुरुणोः प्रकाशवरणयोः प्रवृत्तिनियमयोश्च मिथो विरुद्धयोरपि संहत्य महदादिभावेनैकार्थकारित्वाद्विशिष्टबुद्धिपूर्वकतेति ।
अन्योऽन्याभिभवमिथुनवृत्तित्वपरिणामादिति चेन्न परिणामस्यापि कार्यत्वात् धर्मा- 5 न्तरैक्यादिपरिणामो हि धर्मान्तरनिषेधो धर्मान्तराविर्भवनञ्च तद्वयं कार्यम्, पूर्ववत् प्रतिज्ञार्थाव्यतिरेकात्, विशिष्टबुद्धिमद्विहितम् ।
( अन्योऽन्येति ) अन्योऽन्याभिभव मिथुनवृत्तित्वपरिणामादिति चेत् - स्यान्मतं सत्त्वरजस्त - मसामेवाङ्गाङ्गिभावः, पुरुषार्थमुद्दिश्य प्रवृत्तानां वैषम्यपरिणामान्महदादिसाधनम्, तेषां प्रयोक्तेत्येतच्च न, परिणामस्यापि कार्यत्वात्, तद्व्याचष्टे धर्मान्तरैक्यादिपरिणामो हि धर्मान्तरनिषेधो धर्मान्तरावि- 10 भवनञ्च तहूयभूतं कार्यं स तु परिणामः कार्यत्वात् पूर्ववत् प्रतिज्ञार्थाव्यतिरेकात् रथादिवत्, सोऽपि विशिष्टबुद्धिमद्विहितम्, तस्मादयुक्तं स्वत एव परिणमन्ते सत्त्वादय इति ।
अन्वाह 'एको वशी निष्क्रियाणां बहूनामेकं बीजं बहुधा यः करोति । तमात्म स्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ॥ ( श्वेता० ६-१२ )
अन्वाह एक इति, जनमतानुसारेण, एकोऽद्वितीयः प्रधानो वा, वशी - ज्ञत्वस्वातंत्र्याभ्यां, 15 निष्क्रियाणां - अज्ञास्वतंत्राणाम्, परतंत्रा ज्ञा अपि निष्क्रिया एव, बहूनां - अनन्तानां प्रधानादीनां कर्मकरणसम्प्रदानापादानाधिकरणप्रधानशक्तीनामनन्तानामपि प्रवर्त्तयितृत्वात् स्ववशीकर्त्तुं शक्तत्वा [इ]शीति, एक बीजं - प्रधानं महदादि विपरिणत्या बहुधा ब्रह्मादिस्तम्बान्तानन्तभेदभिन्नजगत्तया यः करोति - सृजतिलघ्वादयो विशिष्टबुद्धिपूर्वकाः संहत्यैकार्थं कारित्वात्, अनलोदकयोः पाचकपूर्वकत्ववदिति प्रयोगः परस्परविरुद्धयोः संहत्यैका - र्थकारित्वं विशिष्टबुद्धिं कञ्चन विना न घटते परस्परप्रत्यनीकौ च लघुगुरू प्रकाशावरणौ प्रवृत्तिनियमौ च तस्मात्तावपि विशिष्टबु - 20 द्ध्यधिष्ठितौ महदादि सृजत इति भावः । ननु सत्त्वरजस्तमस्सु प्रयोजनवशादुद्भूतेनान्यतमेनान्यदभिभूयते, यथा सत्त्वं रजस्तमसी अभिभूयात्मनः शान्तां वृत्तिं लभते, रजः सत्त्वतमसी अभिभूय घोरां तमश्च सत्त्वरजसी अभिभूय मूढामिति, तथा सत्त्वादयोऽन्योन्यमिथुनवृत्तयः, सर्वस्य त्रिगुणात्मकत्वेन परस्परं मिलित्वा सर्वे सर्वजनकाः, एवमन्योन्यपरिणामाः, अन्यतमोऽन्यतममपेक्ष्य परिणमते, तस्मात् सत्त्वरजस्तमसामङ्गाङ्गिभाव एव प्रयोक्तेत्याशङ्कते - अन्योऽन्येति, अन्योऽन्याभिभववृत्तित्वात्, अन्योऽन्यमिथुनवृत्तित्वात् अन्योऽन्यपरिणामात् महदादिसर्गः, न तु विशिष्टबुद्धिपूर्वक इति भावः । अङ्गाङ्गिभावस्य नियमाद्वैषम्यं भवतीत्याशङ्कते - स्यान्मतमिति । तत्र हेतुमाह - पुरुषार्थमुद्दिश्येति, सत्त्वादयः पुरुषार्थमुद्दिश्य वैषम्यपरिणाममङ्गाङ्गिभावमुपगम्य 25 महदादीन् साधयति यतस्तस्मात्तेषां सत्त्वादीनां प्रयोक्ताऽङ्गाङ्गिभाव एवेति भावः । अङ्गाङ्गिभावो हि तेषां वैषम्यलक्षणः परिणाम उच्यते, तदपि कार्यमेव, साम्यावस्थानिवृत्तौ हि वैषम्यपरिणामो भवति, नहि साम्येनावस्थिताः सत्त्वादयोऽधिका हीना वा भवितुमर्हन्ति, तस्मात् परिणामस्य कार्यत्वात् पक्षान्तर्गतत्वेन विशिष्टबुद्धिपूर्वकत्वमेवेति समाधत्ते - परिणामस्या• पीति । परिणामस्य कार्यत्वं समर्थयति-धर्मान्तरेति, यदा शक्त्यन्तरानुग्रहात् पूर्वधर्मं तिरोभाव्य स्वरूपादप्रच्युतो धर्मी धर्मान्तरेणाविर्भवति तदवस्थानं परिणाम उच्यते, उक्तञ्च 'जहद्धर्मान्तरं पूर्वमुपादत्ते यदाऽपरम् । सत्त्वादप्रच्युतो धर्मी 30 परिणामः स उच्यते' इति । प्रधानादितो महदादिसर्जनमपि विशिष्टबुद्धिमत्पूर्वकमेवेत्यत्रोपनिषदं प्रमाणयति - अन्वाहेति । अचेतनवच्चेतना जीवा अपि परतंत्रत्वान्निष्क्रिया एवेत्याह- परतंत्रा इति । क्षित्यादीति, क्षित्यादयोऽष्टौ मूर्तयः सर्वत्र
१ सि. क. प्रसादे० । २ सि. क. पावका० । ३. सि. क. "यो: प्रत्यनी० । ४ सि. क. पावकेना० । ५ सि. क. ताभ्यः । ६ सि. क्र. एवं ।
द्वा० न० १७ (५५)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org