________________
४३२ द्वादशारनयचक्रम्
[विध्युभयारे शिष्टबुद्धिचेतनप्रतिज्ञानात्-प्रागस्माभिर्विशेषितं विशिष्टबुद्ध्यधिष्ठितानि तन्वादीनीति, विशिष्टबुद्धित्ववापराधीनं स्वातंत्र्यम् , कुतः सिद्धमिति चेदुच्यते-विशिष्टबुद्धित्वमपि चास्यार्थानामर्थक्रियायोग्यत्वेन सनिवेशकत्वात् तन्वादीनि विशिष्टबुद्धिपूर्वकाणि, अर्थक्रियायोग्यत्वेन सन्निविष्टावयवत्वात् , स्थानगमनशयनासनाहारादिप्रयोजनानि हि तन्वादिषु क्रियन्ते, तत्क्रियायोग्यावयवसन्निवेशात् , स्थपतिबुद्धि। पूर्वकप्रासादवत् , तस्मादर्थक्रियायोग्यत्वेनार्थानां सन्निवेशकः स स्थपतिवत् तस्माश्च विशिष्टबुद्धिरिति ।
अनैकान्तिकतोद्भावनार्थमाह
तन्वादीनि स्वभावेनैव प्रवृत्तानि न तु केनचिद्विशिष्टबुद्धिना, नीलोत्पलनालकण्टकमयूरचन्द्रिकादिवदिति चेन्न, क्षीरदधिमेघादिवदुक्तोत्तरत्वात्।
तन्वादीनीत्यादि यावन्नीलोत्पलनालकण्टकमयूरचन्द्रिकादिवदिति, नहि प्रशस्तशुभवर्णगन्ध10 रसस्पर्शस्य लक्ष्मीनिलयस्य जलाशयालङ्करणस्य कमलस्य ग्रहणधारणोपभोगसाधनभूतस्य लोके केनचित्
असूयया मा अहीत् कश्चिदिति कण्टकाः कृताः, नीलोत्पलनालादिष्वतिप्रसङ्गात् , न च मयूरचन्द्रकाणामिन्द्रचापवर्णप्रतिस्पर्धिविचित्रवर्णता कृता कुड्यादिषु चित्रकारेणेव केनचिद्विशिष्टबुद्धिना, चित्रकरचेतनदानाद्यभावप्रसङ्गादित्यत्रोच्यते, न, क्षीरदधिमेघादिवदुक्तोत्तरत्वात् , क्षीरदधिमेघादिवत् पानालकण्टकमयूरचन्द्रकादीनां तन्वादिवञ्चादृष्टकर्तृकविषयप्रतिज्ञार्थाव्यतिरेकादनैकान्तिकत्वाभाव इत्युक्तो1 त्तरमेतत्, एवं तावत् सामान्येन विशिष्टबुद्धिपूर्वकतोता।
प्रस्तुतकापिलमतापेक्षया चैवं प्रतिज्ञायते
लघुप्रकाशप्रवृत्तिगुरुवरणनियमादयः परस्परप्रत्यनीकाः विशिष्टबुद्धिपूर्वकाः संहत्यैकार्थकारित्वात् पाचकाधिष्ठितानलोदकौदनसाधनवदिति । ईदृशं खातंत्र्यं तस्य कुतः सिद्धमित्याशय समाधत्ते-कुत इति । विशिष्टबुद्धित्वमपीति तन्वादिष्ववयवविन्यासः-प्रतिविशिष्टस्थानेष्वर्थक्रियायोग्यत्वेनावयवानां संयोजनं खतंत्रविशिष्टबुद्धिमञ्चेतनव्यतिरेकेण न सम्भवति, नहि स्थपतेस्तादृशबुधभावे 10 तत्तदर्थक्रियायोग्यशयनाशनम्नानपूजाविहारसभागृहादिसमलवृतमहाप्रासादविरचनं सम्भवति, तस्मादस्ति तस्य तादृशी विशिष्टबुद्धिरिति स एव चेतनाचेतनाधिष्ठातेश्वर इति भावः। तन्वादीनां विशिष्टबुद्धिपूर्वकत्वं साधयति-तन्वादीनीति। ननु कमलादेः कण्टकादिर्मयूरचन्द्रिकादेविचित्रवर्णता न केनापि कृता दृश्यते किन्तु खभावत एव भवति, तथा तन्वादेरपि स्वभावत एव प्रवृ. तेर्विशिष्टबुद्धिपूर्वत्वाभावेन प्रोक्तहेतूनामनैकान्तिकत्वमित्याशङ्कते-तन्वादीनीति तन्वादयः खभावतः प्रवर्तन्ते संस्थानवत्त्वात् कण्टकादिवदिति प्रयोगः । न हीति, नहि कमलस्य केनचित् कण्टकाः कृताः मा ग्रहीत् कश्चिदित्यसूययेति सम्बन्धः। यदि 26 केनचित्कृतास्वर्हि नीलोत्पलस्य कुतो न कण्टकाः कृता इत्याह-नीलोत्पलेति। कुख्यादिषु चित्रकारेण यथा विचित्रवर्णता क्रियते नहि तथा केनचिद्विशिष्टबुद्धिना मयूरचन्द्रिकादेविचित्रवर्णता कृतेत्याह-न चेति । यदि तासां विचित्रवर्णता केनचित् कृता तर्हि चित्रकारेण यथा चित्रे मयूरादेश्चैतन्यं न प्रदत्तं तथा तेनापि मयूरादेश्चैतन्यं न प्रदेयं स्यादित्याशयेनाह-चित्रकरेति। समाधत्ते-क्षीरेति,खभावत एव यदि भवेत् तर्हि दध्यादिसंयोगमपि नापेक्षेत तदानीमपि स्वभावस्य दुरपहवत्वात, नहि
तदानीं क्षीरमक्षीरं नाम, दधिसंयोगादिकारणापेक्षमेव क्षीरादेर्दधिभवनं स्वभाव इति चेत्तर्हि विशिष्टबुद्ध्यधिष्ठितमेव क्षीरादि दधिभ30 वनखभावमिति कुतो नाङ्गीक्रियते विनिगमकाभावात् , कर्ता न दृश्यत इति चेन्न, दृष्टमेव कारणं कारणं भवतीत्यनियमात् तस्माददृष्टकर्तृकत्वेन क्षीराद्यपि प्रतिज्ञान्तर्गतमेवेति भावः। पुरुषार्थमेव प्रधानस्याधिष्ठायकमिति वर्णयतां सांख्यानामपि पुरुषार्थस्य सर्गानन्तरजायमानस्याप्रवर्तकत्वाधीश्वर एवाधिष्ठायक इत्याशयेन तन्मतानुसारेणेश्वरसाधकमनुमानमाह-लघुप्रकाशेति परस्परप्रत्यनीका
१ सि. क. 'भूतेनालोकेनविड़सया मा०।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org