________________
चेतनेश्वराधिष्ठानम् ] न्यायागमानुसारिणीव्याख्यासमेतम्
४३१ (स्थित्वेति) स्थित्वाप्रवृत्तिचेतनानधिष्ठितेश्वरवदनेकान्त इति चेत् स्यान्मतं यथेश्वरः स्वयं प्रागप्रवृत्तान् स्थित्वा प्रवर्तयन्नपि चेतनान्तरेणानधिष्ठितः प्रवृत्तश्च तथा तन्वादीनि स्थित्वा प्रवृत्तानि स्युरित्यनेकान्तः, ईश्वरस्य वा चेतनाधिष्ठि[ त ]तेत्यादि, एवमनैकान्तिकत्वानिच्छायां वा चेतनाघिष्टितोऽसावीश्वरः प्राप्तः, स्थित्वा प्रवृत्तेः, अदृष्टाणुप्रधानादिवदतोऽन्येश्वरता, ग्रहाधिष्ठितस्त्रीपुरुषादिवत्तस्यापि चाधिष्ठातुरन्याधिष्ठिततेत्यनवस्था स्यादित्येतच्च न, चेतनाधिष्ठितप्रवृत्ति[मत्त्वसाध्यधर्मत्वात् । नैष दोषः, चेतनाधिष्ठितप्रवृत्ति[म ]त्त्वं हि साध्यते धर्मः, स चाचेनिमेव, तद्धर्मिविषयत्वात्, चेतनानां सिद्धत्वात् प्रयोजनाभावाच्च, तनुकरणभुवनसाधनप्रवृत्तादृष्टाणुप्रधानानि ह्यचेतनानि धर्मीणि चेतनाधिष्ठित[ प्रवृत्तिमत् त्वधर्मेण विशिष्टानि साध्यन्त इति प्रतिज्ञाविषयज्ञानाददोष इति ।।
देवदत्तादेस्तर्हि चेतनेश्वराधिष्ठानं न प्राप्नोति, उच्यते च त्वया चेतनानामपीश्वराधिष्ठानम् , यथा पुरुषवादनिरसनाय-'अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रे- 10 रितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा' ॥ इति (महाभारते वनपर्वे अ० ३० श्लो० २८) चेन्न, प्राग्विशिष्टबुद्धिचेतनप्रतिज्ञानात् , विशिष्टबुद्धित्वमपि चास्यार्थानामर्थक्रियायोग्यत्वेन सन्निवेशकत्वात् स्थपतिवत् ।
(देवदत्तादेरिति ) देवदत्तादेस्तर्हि चेतनेश्वराधिष्ठानं न प्राप्नोति, ततो देवदत्तादिवञ्चेतनानघिष्टितानि तन्वादिसाधनार्थादृष्टाणुप्रधानादीनीत्यनेकान्तः, सोऽपि चेश्वरस्तद्वश्चेतनान्तराधिष्ठित इति 15 प्राप्तम् , उच्यते च त्वया-इष्यत एव त्वया चेतनानामपीश्वराधिष्ठानम् , यथा 'अज्ञो जन्तुरनीशोऽयमास्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा' ॥ (महाभार० वन० अ० ३० श्लो० २८) पुरुषवादनिरसनायेति श्लोकवचनप्रयोजनमाह-मा भूत् पुरुषकारकारणवादप्रसङ्गस्तदवस्थामात्रं तन्वदृष्टप्रधानाण्वादीति, अत उक्तं भवता 'अज्ञो जन्तुरनीशोऽय'मिति, अत्रोच्यते न प्राग्विनधिष्ठितत्वाच, यदि तस्यापि चेतनेनान्येनाधिष्ठितत्वमशीक्रियते, तर्हि तस्याप्यन्यस्य चेतनस्येतरचेतनेनाधिष्ठितत्वं तुल्ययुक्त्या 30 प्रसज्यते तस्याप्यपरेणेल्यनवस्थेति शङ्कितुरभिप्रायः । एवमेव व्याचष्टे-स्यान्मतमिति । अनवस्थां दर्शयति-एवमिति । समाधत्ते-चेतनेति । चेतनाधिष्ठितप्रवृत्तिमत्त्वं हि साध्यम्, न तु चेतनान्तराधिष्ठितप्रवृत्तिमत्त्वम् , तथा च चेतनाधिष्ठितप्रवृत्तिमत्त्वधर्मोऽचेतन एवाऽऽयाति, न तु चेतने, तत्र चेतनान्तराधिष्ठितप्रवृत्तिमत्त्वस्यैव सद्भावात् , अतश्च साध्यबळेनाचे. तनगतप्रवृत्तिरेव लभ्यते, न तु चेतनगता प्रवृत्तिः तस्याश्चेतनाधिष्ठितत्वस्य सिद्धत्वात्तत्र तत्साधने प्रयोजनाभावात् , एवञ्च चेतनाधिष्ठितप्रवृत्तिमत्त्वविशिष्टाचेतनस्यैव प्रतिज्ञाविषयत्वादिति भावः । पूर्वोदितानुमानेनाचेतनप्रवृत्त्यधिष्ठातृतयेश्वरसिद्धावपि चेतनानामधिष्ठातृतया तस्यासिद्धेश्चेतनानां प्रवृत्तिर्न केनचिदधिष्ठितेति वदभ्युपगमविरोधः,चेतनप्रवृत्तीनामपीश्वराधिष्ठितत्वाभ्युपगतत्वादित्याह-देवदत्तादेरिति। देवदत्तप्रवृत्तय इवाचेतनादृष्टादिप्रवृत्तयोऽपि चेतनानधिष्ठिताः स्युः,चेतनप्रवृत्तीनामपीश्वराधिष्टितत्वे ईश्वरप्रवृत्तेरपि चेतनान्तरेणाधिष्ठितत्वं स्यादित्यनवस्थेत्याह-तत इति । चेतनाचेतनानामीश्वराधिष्ठितत्वे पुराणप्रमाणमादर्शयति-अज्ञ इति,प्राणी तथाविधादृष्टादिमानपि सुखदुःखानुभवयोग्यगतिज्ञानतत्स्थानप्राप्तिशक्तिविरहेण तत्तत्कर्मवेदिना ईश्वरेण प्रेरितः सन् निजकर्मानुगुणं खगे सुखानुभवयोग्यं नरकं वा दुःखानुभवयोग्यं गतिविशेषं प्राप्नोतीत्यर्थः। कारिकेयं पुरुषकारस्यैव प्रवर्तकत्वमिति पक्षं प्रत्याचष्ट इत्याह-पुरुषवादनिरासायेति । समाधत्ते-अत्रोच्यत इति, विशिष्टचेतनाधिष्ठितान्येव प्रवर्तन्त इति हि पूर्व प्रतिज्ञातं,न तु चेतनाधिष्ठितान्येव प्रवर्तन्त इति चेतने वैशिष्ट्यश्चापराधीनं खातंत्र्यमेवेति दर्शयति-प्रागिति।
१ सि. क. 'तवमेव । २ सि. क. दत्तायस्तर्हि । ३ सि. क. प्रभानादीनाम० । ४-५ सि. क. भन्यो ।
romanimm mmmm
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org