SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ [ विध्युभयारे ४३० द्वादशारनयचक्रम् " सिद्धम् । अथवा स्थित्वा प्रवृत्तेस्तुर्यादिवत् यथा तुरीवेमसलाकानलिकारऊवश्वनिकासूत्रादीनि प्रागप्रवृत्तानि कचित्कालं स्थित्वा [ ] वर्त्तमानानि विशिष्टकुविन्दबुद्ध्यधिष्ठितानि पटनिष्पत्त्यै प्रवर्त्तन्ते तनुकरणभुवनानि तथेति । चेतनानधिष्ठितक्षीरदधिमेघादिवदनेकान्त इति चेन्न, अदृष्टकर्त्तृकविषयप्रतिज्ञार्थाव्य० तिरेकात्, शब्दानित्यत्वसाधने प्रतिज्ञानुनीतजलधिध्वन्यनित्यत्ववत् । www.ww (चेतनेति ) चेतना [ न ]धिष्ठितक्षीरदधिमेघादिवदनेकान्त इति चेत् - स्यान्मतं प्रतिविशिटबुद्धिना केनचिदनधिष्ठितेषु क्षीरदधिमेघादिषु संभूयैकार्थकारित्वाचेतनत्व स्थित्वा प्रवृत्तिधर्माणां दर्शनादनैकान्तिकता संशयहेतुतेत्येतश्च न, अदृष्टकर्त्तृकविषयप्रतिज्ञार्थाव्यतिरेकात्, अदृष्टोऽस्याः कर्त्ता विषयः सेयमदृष्टकर्तृकविषया प्रतिज्ञा, तस्याः प्रतिज्ञायास्तनुकरणभुवनधर्मिकायाः प्रतिविशिष्टबुद्ध्यधिष्ठित10 त्वसाध्यधर्मणः क्षीरदधिमेघादिधर्मिणामपृथक्त्वात् प्रतिज्ञान्तः पातित्वा द्विपक्षाभावे हेतुव्यभिचाराभावानाकान्तः, शब्दानित्यत्वसाधने प्रतिज्ञानुनीतजलधिध्वन्यनित्यत्ववत्, यथाऽनित्यः शब्द इति प्रतिज्ञाते कृतकत्वं देशकालाभ्यामनवरते जेलधिध्वनौ पुरुषादिभेदेन चानवरते सादिशब्दे च दृष्टत्वादनेकान्त इति वचनं तदाभासमुन्वत्सादिशब्दानामप्युपादानभेदभिन्नानां शब्द इति श्रोत्रग्राह्यत्वाभेदेन प्रतिज्ञातानां शब्दत्वानतिक्रमात् पक्षान्तर्नीतत्वात् तदनित्यत्वं कृतकत्वाविनाभावि, शब्दादन्यस्य नित्यस्य 15 कृतकस्यादर्शनाच्च, जायते देशकालोपादानभेदभिन्नस्याभेदेऽपि सत्युपलभ्यधर्मणोऽनुपलभ्यत्वाच्छन्दव्यक्तिधर्मित्वाच्च जात्युत्तरञ्च तस्मादनुत्तरमिति । स्थित्वा प्रवृत्तिचेतनानधिष्ठितेश्वरवदनेकान्तः, ईश्वरस्य वा चेतनाधिष्ठितता स्थित्वाप्रवृत्तेरदृष्टाणु प्रधानादिवदतोऽनवस्था स्यादिति चेन्न, चेतनाधिष्ठितप्रवृत्तिमत्त्व साध्यधर्मत्वात् । " अथ वेति यत् स्थित्वाऽभिमतफलसम्पादनाय प्रवर्त्तते तद्बुद्धिमत्कारणाधिष्टितं दृष्टम्, यथा वासी द्वैधीकरणादौ, प्रवर्तते च स्थित्वा 20 परमाण्वादि स्वफलसाधनायेति मानार्थः । अत्र हेतोर्व्यभिचारमाशङ्कते - चेतनेति क्षीरस्य दधिभवनम् परमाण्वादीनां मेघादिभवनं चेतनानधिष्टितमेव दृष्टं तत्र साध्यशून्येषु क्षीरादिषु हेतोः सद्भावाद्वयभिचार इति भावः । त्रिविधा भावा लोके दृश्यन्ते प्रसिद्धचेतनकर्तृकाः केचित् प्रासादघटपटादयः, केचित् प्रसिद्धचेतनकर्तृविपरीता नित्याः परमाणुगगनजीवादयः, केचिच्च संदिग्ध - चेतनकर्तृकाः तनुकरणगिरिसरित्पतिवारिवाहादयः, न हि कस्यचिदचेतनकर्तृकत्वं सिद्धम्, न वा कर्तुः प्रत्यक्षानुपलब्धिमात्रेणाभावः शक्यतेऽभ्युपगन्तुम्, तस्माद्यददृष्टकर्तृकं तन्वादिमेघादि तत्सर्वं विशिष्टचेतनाधिष्ठितमिति प्रतिज्ञार्थत्वान्नानैकान्तिकतेत्याशये25 नोत्तरयति - अदृष्टेति । अदृष्टकर्तृकत्वेन तन्वादीनामिव क्षीरादीनामपि प्रतिज्ञान्तर्गतत्वमतो न व्यभिचार इत्याह- तस्या इति । अत्रार्थे दृष्टान्तमाचष्टे-शब्देति । अनित्यः शब्दः कृतकत्वादिति प्रयोगे कश्चिद्यदि ब्रूयात् निरन्तरं श्रूयमाणे समुद्रस्य व पुरुषैर्निरन्तरमुच्चार्यमाणे शब्दविशेषे च कृतकत्वसत्त्वेऽपि नित्यत्वेन साध्याभावाद्व्यभिचार इति, तदिदं वचनमनुत्तरमेव, नहि शब्दविशेषस्यानित्यत्वं प्रतिज्ञायते, अपि तु श्रोत्रग्राह्यमात्रस्य शब्दत्वेन पक्षीकरणातेऽपि पक्षान्तर्गता एवेत्यनित्यत्वं कृतकत्वाविनाभान्येवेति भावः । संशयहेतुतामाह - देशेति । अनेनानित्यत्वविरहे कृतकत्वं दर्शितम्, पुरुषेति, अनेन च नित्ये 30 कृतकत्वं दर्शितम्, ततश्च संशय इति कृतकत्व मनैकान्तिकमिति भावः । उक्तानां सर्वेषां श्रोत्रप्राह्यत्वाविशेषात् शब्दत्वमेवेति शब्दोऽनित्य इति प्रतिज्ञायामन्तर्गतत्वेनानित्यत्वं कृतकत्वाविनाभाग्येवेति भावः । तस्मात् त्वदुक्तमुत्तरं जात्युत्तरं जायत इत्याहजायत इति, असदुत्तरं जातिरित्युच्यते तस्मादनुत्तरमिति भावः । प्रकारान्तरेण व्यभिचारमनवस्थां वोद्भावयतिस्थित्वेति चेतनाधिष्टितत्वे साध्ये स्थित्वा प्रवृत्तेरिति हेतुरीश्वरेऽनैकान्तिकः, ईश्वरस्य स्थित्वा प्रवृत्तिमत्त्वात्, चेतनान्तरेणा १-२ सि. क. जलविध्व० । ३. सि. क. सामादिश० । ४ सि. क. मुदस्वारस्व० । ५ सि.क. 'पादानेमेद० । Jain Education International 2010_04 wwww For Private & Personal Use Only www.jainelibrary.org
SR No.002585
Book TitleDvadasharnaychakram Part 2
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1951
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy