________________
ईश्वरानुमानम्] न्यायागमानुसारिणीव्याख्यासमेतम्
४२९ भावानां प्रवर्त्तनं खाचाराणामप्यनिष्टफलसम्बन्धो दुराचाराणामिष्टफलसम्बन्धः, तस्मात सर्वमीश्वरप्रवर्तितं प्रवर्तते नान्यथा।
प्रयोगश्च
तनुकरणभुवनसाधनायादृष्टप्रधानकालादिप्रेरितानि परमाणुसत्त्वभूतादीनि विशिष्टचेतनाधिष्ठितान्येव प्रवर्तन्ते, सम्भूयैकार्थकारित्वात् , तक्षाधिष्ठितरथदारुगणवत् तथाऽचेतनत्वात् , अथवा स्थित्वा प्रवृत्तेस्तुर्यादिवत् ।
तनुकरणभुवनसाधनायेत्यादि यावत्तक्षाधिष्ठितरथदारुगणवदिति, यथाप्रक्रियं शरीरेन्द्रियाणि भुवनश्च साधयितुमधितिष्ठद्भिः अदृष्टैः प्रेरिताः परमाणवो वैशेषिकाणाम् , प्रवृत्तानि सत्त्वादीनि प्रधानेन सांख्यानाम् , अन्येषाश्च भूतानि कालस्वभावनियत्यधिष्ठितानि, इत्यभिमतानि प्रवानि प्रवर्तकानि विशिष्टचेतनाधिष्ठितान्येव प्रवर्त्तन्त इति प्रतिज्ञा, सम्भूयैकार्थकारित्वादिति हेतुः, 10 संम्भूयकारिणः पूर्वपूर्वशक्ततारतम्यकारणानुमानोक्तेः परमाणुसत्त्वादयः तन्वादित्वेनावस्थिताः परस्परेण सम्भूय गमनाभ्यवहरणसुखदुःखानुभवरूपाद्युपलब्धिसत्त्वगणाधारतादिकार्य कुर्वन्तो दृश्यन्ते तसिद्धमेषां सम्भूयैकार्थकारित्वम् , तक्षाधिष्ठितरथदारुगणवत्-रथार्थो दारुसंघातो [रथ] दारुगणः स तक्ष्णा विशिष्टचेतनेनाधिष्ठितस्तथैतानि, तथा तेऽचेतनत्वात् , तथेति, तस्यामेव प्रतिज्ञायामचेतनत्वादित्युपचयहेतुः, स एव रथदारुगणो दृष्टान्तः, वक्ष्यमाणो वा तुर्यादिवदिति, तनुकरणभुवनानामचेतनत्वं 16
राणामपीति । देशकालपुरुषाद्यपेक्षया शोभनाचाराणामपि तदन्यदेशकालपुरुषानुष्ठितानामित्यर्थः । यद्वा लोके सदाचारिणामनिष्टं दुःसहक्लेशादि फलं दुराचारिणामिष्टं सुखादिफलं दृश्यते तदीश्वरप्रदत्तमेवेति भावः । ईश्वरसाधकं तावदनुमानमादर्शयति-तन्विति, तनुः शरीरं करणमिन्द्रियाणि भुवनं लोकः, एतेषां सिद्धयर्थ अदृष्टादिभिः प्रेरितानि परमाण्वादीनि
तनाधिप्रितानि सन्ति प्रवर्त्तन्ते इति प्रतिज्ञार्थः. अत्र तन्वादीनीति कार्यमुक्तं परमाण्वादीनीति परिणामिकारणमुपादानकारणं आपत्तिभवनमुक्तम् , अदृष्टादीनीत्यपेक्षाकारणमुक्तम् , विशिष्टचेतनाधिष्ठितत्वं साध्यम् , विशिष्टचेतनञ्च निमित्तकारणं 20 सन्निधिभवनं प्रवर्तकमुक्तम् । अदृष्टैरिति परमाणूपादानस्य जगतः पुरुषकर्मापेक्ष ईश्वरो निमित्तकारणम् , करुणया प्रवर्तमानोऽप्ययं वस्तुस्वभावमनुविधीयमानो धर्माधर्मसहकारी जगद्वैचित्र्यं विधत्ते तेन न खातंत्र्यक्षतिः, निरपेक्षखातंत्र्याप्रसिद्धेर्न वैषम्यनघण्यादिदोषाः, आपादकाभावादिति वैशेषिकाः । प्रवृत्तानीति, सांख्यमतेन प्रधानेन प्रवृत्तानि सत्त्वादीन्यपि विशिष्टचेतनाधिष्ठितान्येव प्रवर्तन्ते, अन्यथा साम्यावस्थानिवृत्तिनं भवेदिति भावः । अन्येषाश्चेति, कालादिप्रेरितानि पञ्च भूतानि तन्वादीन् साधयन्तीत्यभ्युपगन्तणामपीश्वरव्यतिरेकेण नेष्टार्थसिद्धिरिति भावः । साधनमाह-सम्भयेति । परमाण्वादयो 25 मिलिताः सन्त एकमर्थ कुर्वन्ति, यत एवमत एव ते विशिष्टचेतनाधिष्ठिताः, न ह्येक किश्चिजनकमिति न्यायेन बहुना कार्यारम्भकत्वम् , दृष्टश्च तथैव रथदारुगणस्य जनकत्वम् , तदेवं सम्भूयकारिकारणमुपलभ्य तस्यापि कार्यत्वेन तत्कारणतयाऽन्यसम्भूयकारिकारणसिद्धौ तस्यापि कार्यत्वेन तथाविधकारणसिद्धिरित्येवं यावत् परमाणुसत्त्वादि सम्भूयकारिकारणं मीयत इति परमाणुसस्वादीनां सम्भयकारित्वं सिद्धमित्याह-सम्भयकारिण इति। तेषामर्थानाह-गमनेति, गमनं तन्वेकदेशकर्मेन्द्रियपादकार्यम्, अभ्यवहरणं वचनं वागिन्द्रियकार्यम् , सुखदुःखानुभवो मनसः, रूपाद्युपलब्धिश्चक्षुरादेः सत्त्वगणाधारता प्राणिवर्गाश्रयताभुव-30 नस्या दृष्टान्तमाह-तक्षेति । यथा वास्यादि रथदारुगणो वा बुद्धिमता तक्ष्णाधिष्ठितमचेतनत्वात् प्रवर्तते तथा परमाण्वादयोऽपीति, पूर्वप्रतिज्ञायामेव हेत्वन्तरमाह-तथा त इति, ते परमाणुसत्त्वादयस्तथा विशिष्ट चेतनाधिष्ठिता इत्यर्थः । साधनान्तरमाह
-
-
सि.क. सम्भूयकारिस्वं । २ सि. क. सत्वगुणा० ।
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org