________________
४२८
द्वादशारनयचक्रम्
[विध्युभयारे किखान्यत् प्रवृत्तिफलप्रकर्षा[ पकर्षा ]भावप्रसङ्गादीश्वर एव कारणम्, नादृष्टादि न प्रधानादीत्यत आह
इतरथा यद्यदृष्टादेः प्रधानादेर्वा प्रवृत्तयः फलानि वा स्युः तर्हि तयोः स्वानुरूपकार्यकारणानुबन्धसामर्थ्याभ्युपगमादुत्कर्षापकर्षाभावप्रसङ्गः परस्परानुरूपशालिबीजाङ्करादिहेतु5 कार्यभावप्रबन्धवत् , दृष्टौ च तौ , ततो नान्यदस्ति कारणमीश्वरकामचारेरणाहते।
इतरथेत्यादि यावद् दृष्टौ च तो, यद्यदृष्टादेः प्रधानादेर्वा प्रवृत्तयः फलानि वा स्युः क्रियाणां पूर्वकृतकर्मफलप्रेरितानां तदनुरूपत्वात् फलानाञ्च फलप्रेरितकर्मानुरूपत्वात् मनुष्यनिर्वर्तनीया एव स्वभाधमार्दवादिक्रियाः कृत्वा मनुष्य एव पुनरपि स्यात् , मा भूत् सरागसंयमादिदेवगतिनिर्वर्तनीयक्रिया
सम्बन्धी तदनुरूपवैक्रियशरीरादिलब्ध्युत्कर्षभावः, तथा बहारम्भपरिग्रहादिनिरयायुःसंवर्तनीयकर्मभाक् 10 तदनुरूपदुःखैकरसनारकत्वनिकृष्टफलानुभावी वा मा भूत्, परस्परानुरूपशालिबीजाङ्कुरादिहेतुकार्यभा
वप्रबन्धवत्, 'विशिष्टबुद्धिस्वतंत्रकारणप्रेरणाभावात् स्वानुरूपकार्यकारणानुबन्धसामर्थ्याभ्युपगमाञ्च नादृष्टान्न प्रधानादेर्वैषम्यं स्यात् , दृष्टश्च वैषम्यमध्ययनविद्याऽऽगमानधिगमायुत्कर्षापकर्षयोः नान्यदतो विमर्दक्षमं कारणमस्तीश्वरकामचारेरणादृते-तदभिप्रायस्याप्रतिघातस्य प्रवृत्तिः कामचारः, तेन प्रेरणं
पेण भवतीत्याह-ताखिति । ईश्वरस्य कारणत्वाभावेऽनुपपत्तिमाह-इतरथेति । कार्यकारणभावो हि सजातीययोरेव, 15 यथा मृद्धटयोः प्रधानमहदाद्यो , मृजातीयत्वात् , सुखाद्यन्वितत्वाच्च, तथैव कार्यकारणप्रवाहस्यानादितया मनुष्ययोग्यादृष्टादेः
मनुष्य एव भवति मनुष्याच मनुष्ययोग्यादृष्टमेव भवतीति विजातीयदेवनारकादियोग्यादृष्टासम्भवात्तथाविधसुखदुःखफलानुभवस्तस्य न स्यादेव, तथा मनुष्येऽप्येकस्मिन् कदाचित् सुखं कदाचिद्दुःखं कदाचिच्छीघ्रं विद्याधिगमः कदाचित्तु बहुप्रयत्नादपि नेति वैषम्य न भवेत् , दृश्यते च वैषम्यम् , तत्र च नान्यत् कारणं सम्भवतीश्वरव्यतिरिक्तमत ईश्वर एव सर्वखतंत्रः कारणमिति भावः । एतदेव स्फुटयति-यद्यदृष्टादेरिति । क्रियाणामिति प्राचीनकर्मजन्यफलवासनासम्भूतत्वेन क्रियाणां फलानुरूपता,
फलानाच फलप्रेरितकर्मानुरूपवेति साजात्यं दर्शितम् । तथा च किं भवतीत्यत्राह-मनुष्येति । मनुजायुष आस्रवरूपाः 20 क्रियाः खभावमार्दवादयः. प्रकृत्यैव जातिकुलरूपबललाभबुद्धिवाल्लभ्यकश्रुतस्थानेषु गर्वराहित्यम् , आदिना प्रकृत्यैव यथावस्थित
मनोवाक्कायविषयवक्रतात्यागरूपस्य खभावार्जवस्य, अल्पारम्भपरिग्रहत्वादेश्च ग्रहणम्। कदापि तस्य दैवायुषो योग्यक्रियाया न सम्भव इत्याह-मा भूदिति सरागसंयमो देशविरतिः पराधीनतया दाक्षिण्यादिना वाऽकुशलेभ्य आहारादिभ्यश्च निवृत्तिः बालतप इत्यादयो देवायुर्योग्याः क्रियाः वैक्रियशरीरादिलाभश्च न भवेदिति भावः । नारकायुयंग्यिक्रिया अपि तस्य न भवे
युरित्याह-तथा बहारम्मेति बहारम्भता बहुपरिग्रहता च नरकस्यायुष आश्रवो भवति, तस्य स न स्याद्विजातीयत्वादिति 25 भावः । तत्र दृष्टान्तं दर्शयति परस्परेति शालिबीजाङ्करयोः परस्परं सजातीयः कार्यकारणभावो दृष्टः, शालिबीजाच्छाल्यकर
एव भवति, शाल्यकुराञ्च शालिबीजमिति। तत्कुत इत्यत्राह-विशिष्टबुद्धीति, विशिष्टा बुद्धिर्यस्य तथाविधस्य खतंत्रकारणस्य या प्रेरणा तस्या, अभावादित्यर्थः। तथाविधवतंत्रकारणव्यतिरिक्तस्य कार्यकारणभावस्य सामर्थ्यमाह-स्वानुरूपेति । वैषम्यं च प्रत्यक्षसिद्धमित्याह-दृष्टश्चेति । अध्ययनेन विद्यायाः प्राप्तिरप्राप्तिःप्राप्तावपि कस्यचिदुत्कृष्टा विद्या कस्यचित्त्वपकृष्टेत्येवं वैषम्यं दृश्यत इत्यर्थः । तत्र खतरेच्छाप्रवृत्तिमानीश्वर एव कारणमित्याह-नान्यदत इति । तेन कृताभिप्रायस्य कदाचित् क्वचिदपि 30 प्रतिघातासम्भवात् , तन्मूला या प्रवृत्तिः सा कामचार इत्युच्यत इति कामचारपदं विवृणोति तदभिप्रायस्येति । एकस्यैवा
चारविशेषस्य देशकालपुरुषाद्यपेक्षया खाचारत्वाद्दराचारत्वाच्च, तेषां तथा तथा फलेन योजयिता स एवेत्याह-वाचा
सि. क. विशिष्टविशिष्टयु । २ सि. क. दृष्टान्तवै।। ३ सि. क. भन्यदतो.।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org