________________
रजोदृष्टान्तः] म्यायागमानुसारिणीव्याख्यासमेतम्
४२७ विषयमपि प्रयोजन तथा भवत् पृथिव्युदकादिबाह्यत्रीहिर्जायते भवतीत्यन्तर्भवनम् , सम्भवनधारणसमर्था पृथिवी, रोहणसमर्थमुदकम् , आदिग्रहणाद्वर्तनसमर्था वायुकालादयः, तैः कारितस्य व्रीहिभवनस्य प्रत्यक्षतायामपि सत्यां ब्रीहिर्जायते भवत्यन्तसन्निविष्टस्वातंत्र्यात् तस्यैवेश्वरस्य प्रयोजकत्वादुच्यते भवती च भवतीति-भवनमपि भवदेव भक्तीति, स्वरूपमात्रलाभोऽपि तद्वशादित्यर्थः ।
अथवा प्रस्तुतप्रधानकारणवादिसिद्धमेवेदं निदर्शनम्
सत्त्वतम प्रकाशनियमप्रवृत्ती स्त एवेत्युक्तम् , इतरयोः ख्यापयतीति वचनात् , रजस्तु प्रवृत्तिलक्षणमेव, विशेषतः सत्यपि प्रवृत्तिसामान्ये करोति प्रवर्तयतीति वचनात् प्रवृत्त्या रजोभवनवद्वा।
सत्त्वतमःप्रकाशेत्यादि यावद्रजोभवनवद्वा यथासंख्यं सत्त्वस्य प्रकाशप्रवृत्तिस्तमसो नियमप्रवृत्तिश्च स्त एवेत्युक्तम् , सत्त्वं शब्दात्मना व्यवतिष्ठमानं प्रवर्त्तमानमित्यादिपरस्परोपकारवीते 10 प्रकाशादिलक्षणस्य सत्त्वस्य प्रवृत्तिः गुरुवरणलक्षणस्य तमसः प्रवृत्तिर्यथासंख्यमितरयोः ख्यापयतीति वचनात् , रजस्तु प्रवृत्तिलक्षणमेव प्रवृत्त्येकमिष्टं विशेषतः सत्यपि प्रवृत्तिसामान्ये करोति प्रवर्त्तयतीति वचनात् , तथाऽदृष्टाण्वादिभूतकालादिप्रवर्त्तमानसामान्येऽपि ईश्वर एव प्रवर्त्तयितृत्वात् कारणमिति ।
दृष्टान्तबाहुल्यप्रदर्शनं प्रतिसिद्धान्तपरिदृष्टादृष्टादेः प्रवर्तयितृत्वख्यापनार्थमिति स एव भवति सर्वव्यक्तिप्रवृत्त्यात्मकत्वात् तासामेव चास्याष्टमूर्त्तितोच्यते स्वशक्त्या व्यासरूपत्वात् 15 तासु स एव भवति साऽसा च ।
(दृष्टान्तेति) दृष्टान्तवाहुल्यं प्रदर्शनं प्रतिसिद्धान्तपरिदृष्टादृष्टादेः प्रवर्त्तयितृत्वख्यापनार्थम्सिद्धान्तं सिद्धान्तं प्रति प्रतिसिद्धान्तं तेषु तेषु वैशेषिकादिसिद्धान्तेषु कल्पितानां परितोऽनुमानैः दृष्टानामप्यदृष्टाणुप्रधानविष्णुसत्त्वादीनां प्रवर्त्तयितेश्वर इति दार्टान्तिकोपनयनात्, इति स एव भवतिइत्थमीश्वर एव भवति परमार्थतः, सर्वव्यक्तिप्रवृत्त्यात्मकत्वात्-सर्वासां व्यक्तीनां प्रवृत्तय आत्माऽस्य 20 सर्वव्यक्तिप्रवृत्त्यात्मकः तद्विशिष्टबुद्धिशक्त्या व्यासरूपत्वात्तस्मादेव चास्याऽष्टमूर्तितोच्यते-क्षितिजलपवनहुताशनयजमानाकाशसोमसूर्याख्याष्टमूर्त्तिताऽस्य स्वशक्त्या व्यासरूपत्वात्तासु स एव भवति साऽसा च । यितेश्वर एवेत्याह-किं तहीति। तैः कारितस्येति पृथिव्यादिकारितत्वेन व्रीहिभवनस्य प्रत्यक्षत्वेऽपीत्यर्थः । सांख्यमतेन रजोदृष्टान्तमाह-सत्त्वतम इति, सत्त्वतमसोरपि प्रकाशनियमयोः प्रवृत्तिः पूर्वमुक्तैव, तथा च तत्तत्प्रवृत्तिं प्रति तेषां सामर्थेऽपि प्रवृत्तिमात्रे रज एव हेतुः, प्रवृत्तिलक्षणत्वात्तस्य, तथाऽदृष्टाण्वादीनां प्रवर्तकत्वेऽपि सर्वेषां प्रवर्त्तयितृत्वादीश्वर एव 25
सत्त्वं शब्दात्मना व्यवतिष्ठमानं तद्भावायेतरयोः ख्यापयतीति पूर्वोदितं स्मारयति-स्त एवेत्यक्तमिति, अनेकदृष्टान्तप्रदर्शनस्य प्रयोजनमाचष्टे-दृष्टान्तेति प्रवर्त्तयितृत्वेन तत्तद्दर्शनप्रसिद्धानामदृष्टादीनां न मुख्य प्रवर्तयितृत्वमपि तु प्रवर्त्यत्वम् , तेषामपीश्वरप्रवर्त्यत्वात् , तस्मादीश्वर एव मुख्यः प्रवर्त्तयितेति भावः। प्रवर्तकत्वेनास्य सिद्धेः प्रवृत्तिरेवास्य खरूपमतोऽसौ प्रवृत्त्यात्मना परमार्थतो भवति, विशिष्टबुद्धिशक्तिमत्त्वेन सर्वत्र व्याप्तत्वादित्याशयेनाह-इत्थमीश्वर एवेति । चराचरात्मकानां वस्तूनामन्तः प्रविश्य प्रवर्त्तयितृत्वादेव सर्वमस्य शरीरमुच्यत इत्याशयेनाह-तस्मादेव चेति । स एव तदत- 30
१ सि. क. भवनमस्य । २ सि. क. दाजभवनाद्वा । ३ सि. भ. बारवेत्युक्तम् । ४ सि. क. प्रवर्त्तमान । ५ सि. क. सत्त्वस्य । ६ सि. क. बाहुल्यप्रथद०। ७सि. क. वृत्तीनां । ८सि.क. वृत्तिः। ९सि. क. वासरुप. स्वात्तासामेव चा०।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org