________________
४२६
द्वादशारनयचक्रम्
[ विध्युभयारे
अथ वा कर्तृकर्मकरणाधिकरणसम्प्रदानानि प्रतिकारकं पचादीनां क्रियाभेदाद्यथास्वशक्ति स्वातंत्र्यात् कर्त्तृणि, यथाधिकरणं स्थाली निदर्शनमात्रं सम्भवनधारणे कुर्वती पचतीत्युच्यते, ज्वलनं कुर्वन्ति काष्ठानि पचन्तीत्युच्यन्ते, अधिश्रयणोदकासेचनतन्दुला वपनैधोपकर्षणादिक्रियाः कुर्वन् देवदत्तः पचतीत्युच्यते, इत्यादि प्रतिकारकं स्वातंत्र्ये सत्यप्युपक्रमप्रभृत्यवर्गपर्यवसानासु क्रियासु तस्यैव स्वातंत्र्यात्, 5 सम्भवनादिप्रत्यक्षतायामपि पचनशक्तिमतामप्यधिकरणादीनां देवदत्तस्य प्रवर्त्तयितृत्वादेवोच्यते देवदत्त एव पचतीति, नान्योऽनीश्वरत्वात् तां मुख्यां कर्तृशक्तिं दर्शयति - तेन पच्यते तृतीयया कर्तृविहितया, स पचतीव प्रथमया तत्र विहिततिष्प्रत्ययसमानाधिकरणया ।
www
पुनरपि स्फुटीकरणार्थं व्यापित्वप्रदर्शनार्थश्व
साक्षाद्वा भवितृवत्, यथा च सम्भवनधारणरोहणादिसमर्थपृथिव्युदकादिकारितव्रीहि10 भवन प्रत्यक्षतायामपि व्रीहिर्जायते, भवत्यन्तसन्निविष्टस्वातंत्र्यात् तस्यैवेश्वरस्य प्रयोजकत्वादुच्यते भवती च भवतीति ।
(साक्षाद्वेति ) साक्षाद्वा भवितृवत्, तद्वर्णनं यथा च सम्भवनेत्यादि यावद्भवती च भवतीति, न केवलं पचत्यादिबाह्य क्रियाविषयमेव प्रयोज्यत्वात् किं तर्हि ? व्रीह्यादिभवनाद्यन्तः क्रिया
तेषामिति भावः । प्रकारान्तरेण दृष्टान्तमाह-अथ वेति, पचादीनां हि प्रतिकारकं क्रिया भिद्यते, तद्भेदाच्च कर्मादीनां कर्तृभावो 15 भवति, स्वखव्यापारे स्वातंत्र्यात् सर्वेषामिति भावः । एतदेव निदर्शयति-यथाऽधिकरणमिति । स्थाली अधिकरणकार कं सदपि खव्यापारे कर्तृ भवति । कस्यां क्रियायामित्यत्राह - सम्भवनेति, सम्भवनं द्रोणाटकादिपरिमाणतण्डुलादिग्रहणम्, धारणं स्थिरत्वादा क्रियासमाप्तेस्तण्डुलानां धारणम्, तत्कुर्वती स्थाली पचतीत्युच्यते, एष एवाधिकरणस्य पाकः, ज्वलनक्रियां कुर्वन्ति काष्ठानि पचन्तीत्युच्यन्ते, ज्वलनक्रियैव करणस्य पाकः, अधिश्रयणादिक्रियाः कुर्वन्नेव देवदत्तः पचतीत्युच्यते, अधिश्रयणं चुहयां स्थाल्या निक्षेपणम्, तत्रोदकयोजनमुदकासेचनम्, तण्डुलानां तत्र वपनं तण्डुलावपनम्, चुहयामिध्मनां 20 संयोजनमेधोपकर्षणम्, एवमादिक्रियाः प्रधानस्य कर्तुः पाक इति भावः । कारकचक्रप्रयोक्तृत्वमेव कर्तुः स्वातंत्र्यं न त्वन्येषामित्याह - उपक्रमप्रभृतीति । ननु क्रमवतामधिश्रयणादिक्रियाणा मेक फलोद्देशेन प्रवृत्तानां सङ्कलनाबुद्ध्या परिकल्पितैकत्वानां पचिक्रियात्वव्यवहारः, न त्वधिश्रयणादीनामन्यतमा क्रिया पचिः, अपरक्रियावैयर्थ्यप्रसङ्गात् तथा चाधिश्रयणादीनां पचिक्रियात्वानापत्त्याऽधिश्रयणाद्यवस्थासु पचतीति प्रत्ययो न प्राप्नोतीत्यधिश्रयणारम्भ एव फलाभिसन्धेर्निखिलक्रियाकलापोsधिश्रयणादावध्यसनीयः, अध्यासश्च सर्वत्र पचतीति प्रत्ययानुपपत्तेरेव ज्ञायते एवञ्च वर्तमानस्याधिश्रयणाद्यवयवस्य प्रत्यक्षतेत्या25 शयेन सम्भवनादिप्रत्यक्षतायामपीत्युक्तम्, न तूपक्रम प्रभृत्यपवर्गपर्यवसानक्रियाकलापः पच्यर्थः प्रत्यक्षः, क्रिया नामेयमत्यन्तापरिदृष्टा न शक्या पिण्डीभूता निदर्शयितुमिति महाभाष्योक्तेः, अपिशब्देन तस्य संभवनादेरपि क्रियासमुदायरूपतयाऽप्रत्यक्षत्वमिति सूचितम् । यथा क्रमिकवर्णसमुदायात्मकघटपटादिपदप्रत्यक्षवदत्र प्रत्यक्षता भाव्या, अवयवक्रियाकर्तृत्वस्य स्थाल्यादावेव भावात्, अवयवभूतक्रियाव्यतिरिक्तसमुदायक्रियाया अभावाच्च कथमुपक्रमप्रभृत्यपवर्गपर्यवसानक्रियाकर्तृत्वं देवदत्तादेरित्यत्राह - पचनेति । एवञ्च कारकचक्रप्रवर्त्तयितृत्वादेव तस्य कर्तृत्वम्, तच्च नान्यस्य, असामर्थ्यादिति भावः । ) देवदत्तस्यैव मुख्यां कर्तृशक्ति दर्शयति- तामिति, अधिकरणादिकारकैः सह भावे वा कर्मणि वा कर्मकर्त्तरि वा प्रयोगादर्शनादिति भावः, अन्यमपि दृष्टान्तमाह-साक्षाद्वेति, इतरकारणानां समवधानेऽपि प्रधानकारणस्य भवनमन्तरेण कार्य न भवति यथा तथा परमेश्वर एव विशिष्टज्ञानशक्तियुक्तत्वादन्तः प्रविश्य प्रवर्त्तयितेति भावः । यथा बीजग्रहणधारणरोहणवर्त्तनादिरूपेण पृथिव्यादिना श्रीर्भवनेऽपि भवितुः बीजस्य साक्षाद्भवनमन्तरेण न व्रीहिर्जायते, तथैव भवतो बीजस्यान्तर्भवनक्रियाप्रवर्त्त
30
१ सि. क. नाम्मामीश्वरत्वात् ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org