________________
पाचकदृष्टान्तः ]
न्यायागमानुसारिणीव्याख्यासमेतम्
www.w
wwwwwww
स्वतंत्रत्वाभ्याम्, स तु प्रतिविशिष्टबुद्धित्वात् स्वतंत्रः, तस्याभिप्रायेणैव प्रवृत्तिमापद्यन्ते धर्माधर्माण्यादयः, सोऽपि चाभिप्रायप्रवृत्त्यापत्तेर्न सन्निधिमात्रवृत्तिः, अतस्तेषां प्रवर्त्तयिता प्रवर्त्तयितृत्वात् कारणशक्तिवत् स एव तेषां शक्तिमतामपि भाव्यत्वेनास्वातंत्र्यात् तस्यैव तत् प्रवृत्तिनिवृत्तिविनियोगेषु स्वातंश्यात् जगत्सर्गस्थित्यन्तरालप्रलयमहाप्रलयेषु प्रवर्त्तनम्, प्रागौदासीन्येन स्थितानां धर्मादीनां सृष्टेः प्रवर्त्तनम्, प्रवृत्तानां पुनरुपसंहारान्निवर्त्तनम्, विनियोगो दैवमानुषतैर्यग्योनसरित्समुद्रादितनुकरणाद्यत्रयव - 5 विभागविन्यासः, विष्णुसत्त्वादीनामधिकृतपुरुषाणामपीह परमेश्वराभिप्रायानुरोधेन प्रवर्त्तनम्, अधिकृतराजस्थानीयादिपुरुषाणामिव, तस्यैव प्रवर्त्तयितृत्वात् ।
wwwwwwww
इतस्तत्साधर्म्य प्रदर्शनार्थमाह
अधिकृतपत्तृवत् सम्भवनधारणज्वलनविक्लेदनव्यापारेषु स्थालीकाष्ठतन्दुलादीनां प्रवृत्तिनिवृत्तिविनियोगेषु स्वातंत्र्यात् सूपकारस्तत्तदात्मा प्रवर्त्तयितृप्रयोजनमात्रत्वात् 10 क्रियायाः, अथवा कर्त्तृकर्मकरणाधिकरणसम्प्रदानानि प्रतिकारकं पचादीनां क्रियाभेदाद्यथास्वशक्ति स्वातंत्र्यात् कर्त्तृणि, यथाधिकरणं स्थाली सम्भवनधारणे कुर्वती पचतीत्युच्यते तथापि उपक्रमप्रभृत्यपवर्गपर्यवसानासु क्रियासु देवदत्तस्यैव स्वातंत्र्यादुच्यते देवदत्त एव पचति तेन पच्यत इति ।
( अधिकृत पक्तृवदिति) अधिकृतपत्तृवत्, तद्व्याख्यानार्थं सम्भवनधारणेत्यादि यावत् 15 प्रयोजनमात्रत्वात् क्रियाया इति, यथा राज्ञा नियुक्तः सूपकारः स्थालीकाष्ठतन्दुलादीनां सम्भवनधारणज्वलनविक्केदन व्यापारेषु प्रवृत्ति [ निवृत्ति ] विनियोगेषु स्वातंत्र्यात् तत्तदौत्मा भवति तथेश्वरेणेति ।
४२५
दक्षा भवितुमर्हन्ति, किन्तु चेतनाभिप्रायानुसारेणैवेत्याह-तस्याभिप्रायानुसारेणैवेति । ईश्वरोऽपि स्वाभिप्रायप्रवर्त्तने वर्त्तनात् तथा भवितैव, न तु सांख्यपुरुषवदेकान्तेनापरिणामिलक्षणः सन्निधिमात्रवृत्तिरित्याशयेनाह - सोऽपि चेति । न च तस्यान्यः कश्चित् प्रवर्त्तयिताऽस्ति कारणशक्तिपरम्पराया अण्वादी विश्रान्ततया यथा न तस्याप्यन्यत्कारणं किचिदस्ति तथैवात्रापि स एव 20 प्रवर्त्तयितेत्याह- अतस्तेषामिति । नन्वेवमण्वादय एव प्रवर्त्तयितारः स्युरित्यत्राह - तेषामिति । तत्र हेतुमाह-प्रवृत्तीति । जगतः सृष्टिस्थितिप्रलयेषु प्रकृत्यादीन् प्रवर्त्तयतीत्याह जगदिति । प्रलयकाले विद्यमाना अपि प्रवाहतो नित्या धर्मादयो निमित्तभूता अपि न कार्यान्तरजननाय प्रकृत्यादीन् प्रयोजयन्ति तेषां प्रकृतिकार्यत्वेनाप्रयोजकत्वात्, न हि कार्य कारणं प्रयोजयति, न च नास्त्येव तदानीं धर्मादय इति वाच्यम्, सत्कार्यवादभङ्गप्रसङ्गात्, मुक्तस्यापि संसारित्वापत्तेश्व, अत एवोकमौदासीन्येन स्थितानामिति, तस्मात् स एव प्रयोजक इत्याशयेनाह - प्रागिति । प्रकृत्यादेः साम्यपरिणामादिरूपाखिलावरणभङ्गेन, प्रवर्त्तयितेश्वरः धर्मादयस्तु कारका इति भावः । तथाविधकालादिसमवधाने प्रवृत्तानां निवृत्त्युन्मुखानां तथाप्रवर्त्तयिता स एवेत्याह-प्रवृत्तानामिति । विनियोगविधातृत्वमपि तस्यैवेत्याह-विनियोग इति । जगतः सृष्टिस्थितिसंहारकर्तृत्वेन पुराणेषु प्रसिद्धा ब्रह्मविष्णुमहेश्वरादयोऽपि रजः सत्त्वतमोगुणप्रधानाः परमेश्वरस्य परब्रह्मणोऽभिप्रायादेव प्रवर्त्तन्ते, ते तस्यैव परमेश्वरस्य जीवानामुपासनार्थं परिगृहीतमूर्त्तय एवेत्याशयेनाह - विष्णु सत्वादीनामिति । राज्ञा नियुक्ताः पुरुषा यथा राज्ञोऽभिप्रायानुसारेणैव प्रवर्त्तन्ते तथैव विष्ण्वादय इति दृष्टान्तमाह-अधिकृतेति । दृष्टान्तान्तरमाह - अधिकृतपकृ- 30 यदिति । राजनियुक्तसूपकारस्य स्थाल्यादिव्यापारेषु प्रवृत्त्यादिषु स्वातंत्र्येण तत्तदात्मत्वापत्तावपि तत्प्रवृत्तेः प्रवर्तपितृप्रयोजनकत्वं तथा धर्माधर्माणु विष्ण्वादीनां तत्तत्कार्यस्वातंत्र्यात्तत्तदात्मत्वेऽपीश्वरेणाधिकृतत्वादेव तदभिप्रायप्रवृत्तिमवं
१ सि. क. "पीहत्य । २ सि. क. प्रवर्त्तमानाधिकृ० । ३ सि. क. तत्तवात्मा० । ४ सि. क. यथेश्वर० । द्वा० न० १६ (५४)
Jain Education International 2010_04
For Private & Personal Use Only
25
www.jainelibrary.org