SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ [ विध्युभयार कान्तोत्थानाभावात्, भाव्यभावकभेदप्रसिद्धेश्व, अभावितस्यासत्त्वाद्वन्ध्यापुत्रवत्, अणुधर्मादयोऽपि भाव्यमाना एव स्युरित्येतत्साधर्म्यदृष्टान्ताः शब्दादयः । यद्येवं प्रस्तुतं धर्माधर्मावणवो वा कारणमस्त्येवेति सिद्धत्वात् किमनुमितेन कारणेनेति चेनेत्युच्यतेधर्माधर्माण्वादीनामपि च तन्त्वंश्वादिवत् प्रवर्तकः पूर्वपूर्वशक्ततारतम्येनेश्वरः सन्निहि• ततद्विधशक्तिः प्रतिविशिष्टबुद्धिः स्वतंत्रः तस्याभिप्रायेणैव प्रवृत्तिमापद्यन्ते धर्माधर्माण्वादयः, सोऽपि चाभिप्रायप्रवृत्त्यापत्तेर्न सन्निधिमात्रवृत्तिरतः प्रवर्त्तयिता, प्रवृत्तिनिवृत्तिविनियोगेषु स्वातंत्र्यात् विष्णुसत्त्वादीनामधिकृतपुरुषाणामिव प्रवर्त्तनम्, तस्यैव प्रवर्त्तयितृत्वात् । [धर्मा]धर्माण्वादीनामपि च तन्त्वंश्वादिवदित्यादि यावत् प्रतिविशिष्टबुद्धिः, यथा पटस्तन्तुपूर्वकः, तन्तवोंऽशुपूर्वकाः, अंशवस्रुटिपूर्वकाः, त्रुटीनामपि प्रवर्त्तने शक्तः सूतः पूर्वे पूर्वे 30 यावच्छताणुकसूतोऽपि पूर्वे पूर्वे यावद्व्यणुकः परमाणुरित्यनुमीयते शब्दादि यावत् प्रधानम्, तथाऽण्षाद्वीनामप्यचेतनानां प्रवर्त्तकौ धर्माधर्मौ, आदिग्रहणात् कालस्वभावनियत्यादिवाद्यन्तरपरिकल्पिताः, एवं पूर्वपूर्वशक्ततारतम्येनेश्वरः सन्निहित तद्विधशक्तिः, धर्माधर्माण्वादेः प्रधानशब्दादेस्तथातथा विनिवेशने सन्निहिता यस्य शक्तिः सोऽस्ति, कुर्तः तद्विधविनिवेशनशक्तिर्मुख्या तस्येति चेदुच्यते - प्रतिविशिष्टा बुद्धिरस्याऽसौ प्रतिविशिष्टबुद्धिः, विशिष्टबुद्धिभ्योऽपि स्थपतिकुलालादिभ्यः प्रतिकर्त्तृविनिवेशनप्रवृत्तिनिवृत्ति16 विनियोगेषु ज्ञत्वात् स्वातंत्र्याच्च तेषां भावानामीष्टे, न ते तस्येशते, नाप्यात्मानो न च परस्परम्, अज्ञा wwwwwwwww wwwwwwww ४२४ " द्वादशारनयचक्रम् L अन्यथेति । भङ्गान्तरोत्थानं मा भूत् किं नः छिन्नमित्यत्राह - भाव्येति, भाव्यं भावकश्चेति द्वयं परस्परभिन्नं वस्तुद्वयं लोके प्रसिद्धं न त्वेको भावक एव पुरुषः, न वा भाव्यमेव प्रधानादिकेवलम् प्रधानादेः केनाप्यप्रवर्त्यत्वे प्रवर्त्त्यमानरूपेणाभवनाब्रून्ध्यापुत्रवदसद्भवेत्, पुरुषोऽप्यप्रवर्त्तकत्वादसन् स्यात्, प्रवर्त्त्याभावात् प्रवर्त्तकरूपेणाभवनादिति भावः । तथा च शब्दादयोऽस्वतंत्रत्वात्तच्छक्तिमता प्रधानेन यथा भाव्यन्ते तथाऽणुधर्मादयोऽप्यस्वतंत्रत्वाद्भाव्यमाना एवेति भाव्यमानत्वसाधने 20 शब्दादयः साधर्म्यदृष्टान्ता इत्याह- अण्विति । ननु प्रवृत्तिः शक्तिपूर्विकेत्यनुमीयमानः शक्तिमत्प्रवर्त्तयिताऽणुधर्मादयः प्रधानं वा स्यात् किमन्येनासिद्धेन प्रवर्त्तयित्रा प्रयोजनमित्यत्राह - धर्माधर्माण्वादीनामपीति अस्ति काष्ठा प्राप्तिः प्रवर्त्तनशक्तेः, सातिशयत्वात् यद्यत् सातिशयं तत्तत्सर्वं निरतिशयं क्वचिदृष्टम्, यथा तन्त्वादिकार्यकारणपरम्परा भवन्मते प्रधाने वैशेषिकमतेऽणौ निरतिशये कारणमात्रे दृष्टाः, तथा कालस्वभावादौ वा तथैव प्रवर्त्तनशक्तितारतम्यमपि क्वचिद्विश्रान्तं स्यात् नच तादृशशक्तिमान् मुख्योऽणुधर्मादिरित्याशयेनाह - यथेति । कुतस्तादृशशक्तिरण्वादौ न मुख्या किन्तु तादृशशक्तिमत्त्वेनान्यः 25 कश्चिदीश्वर एव मुख्य इत्याशङ्कते - कुत इति । अण्वादीनां कुलाला दीनाञ्चाशत्वा सर्वज्ञत्वान्न तद्विधविनिवेशनशक्तितेत्युत्तरयतिप्रतिविशिष्टेति बुद्धौ प्रतिविशिष्टता च साम्यातिशयविनिर्मुक्तता, तेन फुलालादीनां योगिमुक्तानां व्युदासः, कुलाला देस्साति" शयज्ञानत्वात्, योगिमुक्तानां समान सार्वश्यात्, कृतार्थत्वेन जगत्सर्जनादिकर्तृत्वयोग्यताया अप्यभावादिति भावः । इदमेवाहविशिष्टबुद्धिभ्योऽपीति । जीवानां प्राप्तसर्वज्ञानामपि जगत्सृष्टिस्थितिलयव्यापारपरिज्ञान स्वातंत्र्याभावादिति भावः। तत्तत्कार्येषु तप्तत्कर्तॄणां विनिवेशने प्रवर्त्तने निवर्त्तने विनियोगे च स एव समर्थो ज्ञातेत्याह-प्रतिकर्त्रिति । नन्वीदृशं ज्ञानं सर्वज्ञानामप्यस्तीत्य30 त्राह-स्वातंत्र्याच्चेति देशकालानवच्छिन्न प्रयोक्तृत्वं स्वातंत्र्यम्, अचेतनेषु स्वातंत्र्यस्य सृष्टिकालीनत्वात्, कुलालादिखातंत्र्यस्य घट पटायेकदेशीयत्वात्, मुक्तानामप्रयोक्तृत्वात् प्रयोक्तृत्वे वा मुक्तिकालावच्छिन्नत्वात्, मुक्तिकाल एव तथाविधखातंत्र्यप्राप्तेः, ईश्वरस्य ' च सर्जनेऽवस्थाने विलयने च प्रयोक्तृत्वं न देशकालावच्छिन्नमिति भावः । अत एवाह - तेषां भावानामिति, निःसमाभ्यधिकाविच्छिन्नमैश्वर्यं तस्यैवेति भावः । सन्तोऽपि नित्या अणुप्रधानादयो जीवस्य धर्माधर्मादयश्च तदुपष्टम्भव्यतिरेकेण न स्वकार्यविधान१ सि. क. स्तिकाशतद्वि० । २ सि. क. प्रवृत्ति विनियोज्यतेषु । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002585
Book TitleDvadasharnaychakram Part 2
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1951
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy