________________
mewanews
प्रवर्तकसाधनम्] न्यायागमानुसारिणीव्याख्यासमेतम् पन्नस्य च सन्निधिमात्रस्याऽऽपादितासत्त्वात् , तस्मादनापन्नस्य च स्वत एवापत्त्यभावात्तदुक्तापत्तिभवनं नोपपद्यत इति ।
किं कारणमनुपपन्नमिति चेत्
अस्वतंत्रत्वात् , शब्दादिवत् , तस्मात्ततोऽन्यो भवति मुख्यः, कोऽसौ ? यः कर्ता, कः कर्ता ? यः स्वतंत्रः प्रवर्तनवृत्तत्वात् , प्रवर्त्तयद्धि कारणं तद्भावमापद्यते सत्त्वादि, तथा । भवनप्रवृत्तत्वात् तन्तुपटवत् ।
(अखतंत्रत्वादिति) अस्वतंत्रत्वात् , अस्वतन्त्रं हि तत् प्रधानाख्यमचेतनत्वात् , को दृष्टान्तः? शब्दादिवत् , यथा शब्दादयः सत्त्वरजस्तमोमयत्वा[ द स्वतंत्राः तदात्मकेन प्रधानेन भाव्यतेऽन्येन व्यावृत्ता अपि व्यापारयित्रा, तस्मात्ततोऽन्यो भवति मुख्यः, कोऽसौ ? यः कर्ता, कः कर्ता ? यः स्वतंत्रः, कस्मात् ? प्रवर्तनवृत्तत्वात्-प्रवर्त्तयतः क्रियाप्रवर्त्तनम् , तेन प्रवर्त्तनेन वृत्तत्वात् , प्रवर्त्तयितृत्वेन वृत्त-10 त्वादित्यर्थः, प्रवर्तयद्धि कारणं तद्भावमापद्यते सत्त्वादि-यथा प्रवत्तयत् सत्त्वरजस्तमोलक्षणं कारणं शब्दादिभावमापद्यते त्वन्मतेन तथाभवनप्रवृत्तत्वात्-तेन प्रवर्त्यमानरूपेण भवनं तेन प्रवृत्तत्वात् प्रवर्त्तयितारमन्तरेणाभवनाद[प्र]वृत्तत्वात् तन्तुपटवत्-यथा तन्तवः पटं प्रवर्तयन्तः पटस्य कारणमित्युच्यन्ते पटश्च तन्तुकार्य तैः प्रवर्त्यत्वात् ।
नन्वेते प्रधानशब्दादिपटादिदृष्टान्ता अद्वैतवादं समर्थयन्तीति, उच्यते प्रवर्त्तयितृत्वमा-15 त्रसाधर्म्यात्तदभ्युपगम्यते, अन्यथा विध्युभयैकान्तोत्थानाभावात् , भाव्यभावकभेदप्रसिद्धेश्च, अणुधर्मादयोऽपि भाव्यमाना एव ।।
(नन्वेत इति) नन्वेते प्रधानशब्दादिपटादिदृष्टान्ता अद्वैतवादं समर्थयन्तीति, उच्यते प्रवर्त्तयितृत्वमात्रसाधर्म्यात्तदभ्युपगम्यते तेन निय॑ते, अन्यथा पुरुषादिवदद्वैताभ्युपगमे विध्युभयैतेन तेन रूपेण भवति तदेव प्रवर्तकम् , प्रधानन्तु व्यावृत्तत्वात्तथा तथा नापद्यत इति न तत्प्रवर्तितुमर्हतीति भावः। 20 भाव्यत्वं कथमनुपपन्नं प्रधानस्य भावयित्रा विनेत्यत्राह-अस्वतंत्रत्वादिति, खतंत्र एव प्रवर्तनं मुख्य, गोणं तु प्रवर्तनमखतंत्रेऽपि स्यात्, अतो मुख्य इत्युक्तम् । कोऽसौ मुख्यः प्रवर्तक इत्यत्राह-कोऽसाविति । ननु क्रियानिवर्तकत्वरूपं कर्तृत्वं सर्वस्यास्तीति न तेन प्रधानादिव्यावृत्तिरित्याशङ्कते-कः कति । क्रियाया निवृत्तौ यः खतंत्रः एव कर्तेत्याह-यः स्वतंत्र इति, ननु खखकार्येषु सर्वेषां खातंत्र्यात् कथं स्वातंत्र्यं मुख्यताप्रयोजकमित्यत्र हेतुं पृच्छति करमादिति, निखिलकारणसमवधानेऽपि यो प्रवर्त्तयिता भवति स एव खतंत्रो मुख्यः कर्ता भवतीत्याशयेनाह-प्रवर्चन-20 वृत्तत्वादिति इतरकारणानां तदधीनप्रवृत्तिनिवृत्तित्वातू, तस्यान्येभ्यः साधनेभ्यः प्राक् शक्तिलाभादिति भावः । यः प्रवर्त्तयिता स एव प्रवर्त्यमानरूपेण भवति यथा प्रधानं शब्दादीनां प्रवर्त्तयितु, अत एव तत् प्रवर्त्यमानशब्दादिरूपेण भवति तथा प्रधानमपि प्रवर्त्यमित्याशयेनाह-प्रवर्त्तयद्धीति । यच्च प्रवर्त्यमानरूपेण भवति तद्भावयितृपूर्वकमित्याह-तथा भवन नेति । ननु स्वस्वकार्य प्रति कारणानां सर्वेषां प्रवर्त्तयितृत्वात् प्रवर्तयित्रेव सर्वमित्यद्वैतवाद एव प्रधानतन्त्वादिदृष्टान्तप्रदर्शनेन समर्थित इत्याशङ्कते-नन्वेत इति । अपेक्षाविशेषेण तवेष्टापत्तिं कुर्वन् समाधत्ते-उच्यत इति । प्रधानादीनां प्रवर्तयितृत्व.30 मनभ्युपगम्यैकान्तेनैकस्यैव कस्यचिद्भावयितृत्वाभ्युपगमे भङ्गान्तरोत्थानं नैव भवेत् , पुरुषादिभङ्ग एवान्तर्भावप्रसङ्गादित्याह
१ सि. क. शब्दादि।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org