________________
५२२ द्वादशारनयचक्रम्
[विध्युमयारे चिनौ पद्यतिरापत्तिभवनवाचीति सत्यमुक्तं सर्वेऽप्यमी सत्तार्थमेवाविशेषेण ब्रुवते, पद्यतिवर्तत्यर्थप्रवृत्तत्वात्सत्ताया इत्युक्तम् , न हि द्रव्यादिसतेंदोपादानवत् पद्यतिवर्त्तत्युभयोपादानम् किन्तु अस्त्यादितुल्यार्थत्वेन, सत्तार्थ इत्यविशेषेण वचनात् , एवं तावत्सन्निधिभवनं नास्त्येव निरूपणानुपपत्तेः ।
(ननूक्तमिति) ननूक्तमस्तिभवत्यादिष्वस्तिवर्तती सन्निधिवाचिनौ, भवतिपद्यती सामान्यभवनवाचिनौ, पद्यतिरापत्तिभवनवाचीति, सत्यमुक्तम् , अयुक्तं तूंक्तमस्त्यादीनां सन्निपातषष्ठानां सत्तार्थवाचित्वात् , सर्वेऽप्यमी सत्तार्थमेवाविशेषेण ब्रुवते, सा च सत्ता पद्यतिवर्त्तत्येकार्थेवेत्यत आहपद्यतिवर्त्तत्यर्थप्रवृत्तत्वात् सत्तायाः, स्यान्मतं सद्विशेषद्रव्यगुणकर्मवद्वर्ततिपद्यत्युभयोपादानं सत्ताविशेषत्वेनेत्येतच्चायुक्तम् , यस्मान्न हि द्रव्यादिसद्भेदेत्यादि यावदुपादानमिति गतार्थम् , किन्त - पादानम् , १ उच्यते, अस्त्यादितुल्यार्थत्वेन, कुतो ज्ञायत इति चेत् सत्तार्थ इत्यविशेषेण वचनात् , अस्तिभवतिविद्यतिपद्यतिवर्ततयः सन्निपातषष्ठाः सत्तार्था इत्यविशेषेणोक्तत्वात् सिद्धसेनसूरिणा, एवं सावत्सनिधिभवनं नास्त्येव, निरूपणानुपपत्तेः।। __ आपत्तिभवनमपि नास्ति कथमिति चेत्
यदपि चापत्तिभवननिरूपणं प्रधानमेव भवति महदादिविकारापत्त्या, तेन किल भूयते ॥ इति तदपि न, तस्यापि भाव्यमानत्वाद्भावयितारमन्तरेण भाव्यत्वानुपपत्तेः, अनापन्नत्वात् ।
. (यदपि चेति) यदपि चापत्तिभवननिरूपणं सांख्यैः क्रियत इति शेषः, प्रधानमेव भवति महदादिविकारापत्त्या यस्मात्तेन किल भूयत इति, इतिशब्दस्य हेत्वर्थत्वात्-महदादिर्भावमापद्यत इलस्मात् कारणात् प्रधानमेव भवति तेनैव भूयते सत्त्वादिमयत्वाद्विश्वस्येति, किलशब्दः क्षेपे, एवं किल तेषां मतमिति, स च क्षेपोऽनुपपद्यमानत्वात् , कथमिति चेदुच्यते तदपि न, तस्यापि भाव्यमा20 नत्वाद्भावयितारमन्तरेण भाव्यत्वानुपपत्तेः, स्वत एव [न] भवतीत्यर्थः, भाव्यमानत्वं वक्ष्यमाणोपपत्तिकत्वात् सिद्धम् , तच्चेद्यावृत्तं द्वितीयेन व्यावर्तकान्तरेण विना न प्रवर्त्तितुमर्हति, अनापन्नत्वात् , अना
सत्तापि नास्तीति सन्निध्यभाव एवेत्युत्तरयति सत्यमुक्तमिति। तत्र खीकृतांशमाह-अस्त्यादीनामिति । अखीकृतांशमाहसर्वेऽप्यमीति, अस्त्यादिषण्णां विभिन्नभवनार्थत्वं नाङ्गीक्रियत इति भावः। ननु सतो यथा द्रव्यगुणकर्माणि विशेषास्तथा सत्ताया विशेषौ पद्यतिवर्त्ततीत्याशङ्कते-स्यान्मतमिति, निरूपणेति, त्वदीयस्य सन्निधिभवननिरूपणस्यानुपपन्नत्वादित्यर्थः । 28 भापत्तिभवनमपि सांख्योक्तं निरस्यति-यदपीति, अखतन्त्रस्याचेतनस्य स्वभावादपि कादाचित्कभवनासम्भवात् प्रवर्त्यलक्षणं माध्यमेव प्रधानमभ्युपेयम् , तथा च सति तस्य भाव्यत्वमन्तरेण भावयितारं नोपपद्यते इत्याह-तदपि नेति । प्रधानमेव महदादिना तेन तेन रूपेण परिणमत इत्येतावता सांख्यैरापत्तिभवनमुक्तमिति दर्शयति-प्रधानमेवेति भाव्यरूपस्य प्रधानस्येत्यर्थः, भाव्यत्वं प्रवर्त्यमानत्वम् , तन्न शब्दादीनां प्रवानां यथा प्रवर्त्तयितारमन्तरेण न भाव्यत्वं तथा प्रधानस्यापीति भावः । इदमेवाह-तञ्चेदिति, प्रधान व्यावृत्तं चेत्तद्दन्येन व्यावर्तकेन विना न प्रवर्तितुमर्हति यदेव हि
निमवात, तस्य
१ सि. क. वर्तते । २ सि. क. भुक्तमः । ३ सि. क. पचतोभया०। ४ सि. क. सत्त्वा०। ५ सि. के. क्यमपि । ६ सि. क. महदादिभावनाइत्यादिभावमा० । ७ सि. क. ज्यावृत्ततरेण ।
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org