________________
४२१
mammawwwm
सन्निध्यापत्तिनिरासः] न्यायागमानुसारिणीव्याख्यासमेतम्
" तस्मात् सर्वसर्वात्मकत्वपरिग्रह एव न्याय्यो न पुनः सर्वासर्वात्मकत्वपरिग्रहः, अन्यथा भवनद्वैतपरिग्रहाद्विध्युभयनयैकान्तोपपत्तेः, तत्र भवति भावद्वैतं भवतो भावस्य, न तु सन्निध्यापत्तिभवनद्वैतम्।।
(तस्मादिति) तस्मात् सर्वसर्वात्मकत्वपरिग्रह एव न्याय्यः, न पुनरित्यादि, न सर्वासर्वात्मकत्वपरिग्रहो न्याय्यः, अन्यथा भवनद्वैतपरिग्रहाद्विध्युभयनयैकान्तोपपत्तेः, तत्र भवति भाव-" द्वैतं भवतो भावस्य भाव्यभवितृभ्यां भेदाभ्यां भावोपपत्तिरित्येतत् प्रतिपादयिष्यते, न त्वेवं यथानन्तरदूषितं सन्निध्यापत्तिभवनद्वैतम् ।।
तत्र तावद्यः सन्निधिर्नहि स सन्निधिमात्रवृत्तिरस्ति, अनापन्नत्वात् , अनाविर्भूतत्वात् अनाविर्भवनमप्रवर्त्तनमप्रवर्तनञ्चानियमः, अथवाऽऽपत्तिर्विपरिणामः, आविर्भावो व्यक्तिः प्रवृत्तिर्नियमस्वरूपत्वमतो विपर्ययेभ्यो हेतुभ्योऽनापन्नत्वादिस्वरूपेभ्यो नास्ति वन्ध्यापुत्र-10 वत् सन्निधिः।
(तत्र तावदिति) तत्र तावद्यः सन्निधिर्न हि स सन्निधिमात्रवृत्तिरस्ति, कुतः ? अनार पन्नत्वात् , आपत्तिरनाविर्भूतस्याविर्भावः, तत आह-अनाविर्भूतत्वात् , अनाविर्भवनमप्रवर्त्तनम् , अप्रवर्त्तनश्चानियमः, अथवाऽऽपत्तिर्विपरिणामः भावान्तरेणोपलब्धिः, आविर्भावो व्यक्तिः, प्रवृत्तिः सन्ततः परिणामप्रबन्धः, नियमस्वरूपत्वं अधिगतद्रव्यार्थभावस्थितिरतो विपर्ययोऽनापन्नत्वादिः, 15 तेभ्यो हेतुभ्योऽनापन्नत्वादिस्वरूपेभ्यो नास्ति वन्ध्यापुत्रवत् सन्निधिः, आदिग्रहणादप्रवृत्तेरव्यक्तेरनियतेरित्यादिभ्यः, अतः सन्निधेरसत्पर्यायत्वात् सन्निधिभवनाभावः ।
ननूक्तमस्तिभवत्यादिष्वस्तिवर्त्तती सन्निधिवाचिनौ भवतिविद्यती सामान्यभवनवाः सर्वेषां सर्वात्मकत्वपरिग्रह एव न्याय्य इत्याह-तस्मादिति प्रधानस्यापरिणामित्वेनाप्रवृत्तित्वादेवेत्यर्थः । एकस्यैव सर्वात्मकत्वं न तु सर्वेषामिति परिग्रहो न्याय्य इति भावः । न त्विति, पुरुषस्य स्थितिरेव, प्रधानस्यैव स्थित्युत्पत्तिप्रलया इत्येवं सन्निध्या- 30 पत्तिभवनद्वैतं न युक्तम् , किन्तु प्रतिविशिष्टबुद्धिः खतंत्रोऽधिष्ठाता भवितेत्येको भावः, स एव सर्वस्य प्रवर्तकः, अधिष्ठेयोऽस्वतंत्रो भाव्य इत्यपरो भावः, स एव प्रवर्त्य इति भावद्वैतं विध्युभयनयसम्मतमिति भावः । अन्यथेति प्रकारा त्वदुक्केन प्रकृतिरेव भवति पुरुषस्तु न भवति पुष्करपलाशवन्निर्लेपस्तिष्ठतीत्येवं प्रकारेणेत्यर्थः, परन्तु चेतनोऽचेतनश्च भवन: धर्मा भवेदिति भावः । सांख्यसम्मतस्य सन्निधिभवनरूपस्य पुरुषस्याभावं प्रदर्शयति-तत्र तावदिति, त्वदुक्तं सन्निधिमात्र न सन्निधिरूपम् , प्रकाशप्रवृत्तिनियमानात्मकत्वाद्वन्ध्यापुत्रवदिति भावः । तमेवाभिप्राय विवृणोति-अनापन्नत्वादिति । आपत्तिरेवाविर्भाव इत्याशयेनाह-अनाविर्भूतत्वादिति, य एव प्रकाशः तदेव प्रवर्तनं स एव च नियम इत्युक्तं प्राक्, , तदनुरोधेनाह-अनाविभवन मिति । आपत्त्याविर्भावादीनां कञ्चिद्भेदमभ्युपगम्याह-अथ वेति पूर्वधर्म तिरोभाव्य खरूपादप्रच्युतो धर्मी धर्मान्तरेणाविर्भवति तथाऽवस्थानं परिणामः, प्रदीपेनेव घटस्य विद्यमानस्य तथैव प्रकटीभवनमाविर्भावः स एव व्यक्तिः प्रकाश इत्युच्यत इति भावः । अन्यान्यपरिणामपरम्परा प्रवृत्तिरित्याह-प्रवृत्तिरिति । प्राप्तेनैकेन परिणामेन धर्मिणोऽवस्थानं नियम इत्याह-नियमेति । प्रकाशप्रवृत्तिनियमानात्मकस्य खपुष्पादेरिवासत्त्वमेवेत्याह-अतो विपर्यय 30
एवञ्च त्वदिष्टस्य पुरुषादेः सन्निधिभवनस्याकर्त्तरभाव एवेत्युपसंहरति-अत इति । अस्त्यादीनां पूर्वोदितविशेषमाशंकते-ननूक्तमिति । अस्त्यादयोऽप्यविशेषेण सत्तामात्राभिधायिनः, तथा चाऽऽपत्तिप्रवृत्त्योरप्यविशेषादापत्त्याद्यभावे
१ सि. क. अन्यःपुनरित्यादि । २ सि.क. तोविर्भूतत्वात् । ३ सि. क. पत्तेवि०। ४ सि. क. स्थितिरन्यो।'
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org